सदस्यः:1910277 Hemanth JB/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धूतसमाह्वयम् प्रकीर्णकानि अतिचारदण्ड: च[सम्पादयतु]

धूतसमाह्वयम् प्रकीर्णकानि [सम्पादयतु]

धूताध्यक्षो धूतमेकमुखम् कारयेत् अन्यत्र दीव्यतो द्वादश पणो दण्डः गूढाजीविग्नापनार्थं । धूताभियोगे जेतुः पूर्वस्साहसदण्डः । पराजितस्य मध्यमः । भामिशजातीयो ह्रोष जेतुकामः पराजयं न क्षमते इत्याचार्याः । न इति कौटिल्यः - पराजितश्र दिव्गुनदण्ड: क्रियते, न कश्र्चन राजानमभिसरिष्यति । प्रायशो हि कितवाः कूटदेविन: ; तेषामध्यक्षाः शुद्धाः काकण्यक्ष्याम्श्र्व स्थापयेयुः । काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः। कॊटकर्मणि पूर्वस्स्याहसदण्ड:, जितप्रत्यादानमुपधास्तेयदण्डश्च । जितद्रव्यादध्यक्षः पञ्चकं शतमाददीत, काकण्यक्षारलाशलाकावक्रयमुदकभूमिकर्मत्रयम् च । द्रव्याणामाधानम् विक्रयं च कुर्यात् । अक्षभूमिहस्तदोषाणाम् चाप्रतिषेधने द्विगुणो दण्डः । तेन समाह्वयो व्याख्यातः अन्यत्र विद्याशिल्पसमाह्वयादिति । प्रकीर्णकम् तु याचितकावक्रीत काहितकनिक्षेपकाणाम् यथादेशकालमदाने यामच्चायासमुपवेशसम्स्थितीनाम् वा देशकालातिपातने गुल्मतर देयं ब्राह्मणं साधयतः प्रतिवेशानुप्रवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः । संदिष्तमर्थमप्रयच्छतो, भ्रात्रुभार्या हस्तेन लङ्घयतो, रूपाजीवाभन्योपरूद्धाम् गच्छतः, परवत्तव्यं पण्यं कीणानस्य, समुद्रम् ह्र्हमुद्भिन्दतः ; सामन्तचत्वारिंशत्कुल्याभ्हाधामातर तश्चाष्टचत्वारिम्शत्पणो दण्डः ।

कुलनीवीग्राहकस्यापव्ययने , विधवां चन्दवासिनीम् प्रसन्हिधिचरतह् चण्डालस्यार्या स्पृशतः , प्रत्यासन्नमापद्यनभिधावतो , निष्कारणमभिधावनम् कुर्वतश्शाक्याजीवकादीन् व्रुषलप्रव्रजितान् देवपित्रुकार्येषु भोजयतष्शत्यो दण्डः । शापथवाक्यानुयोगमनिस्टष्टम् कुर्वतो , युक्तकर्मणि चायुत्तस्य , क्षुद्रपशुव्रुषाणाम् पुम्स्त्वोपघातिनो , दास्या गर्भमोशाधेन पातयतश्च पूर्वस्साहसदण्ड: । पितापुत्रयो र्दंपत्यो भ्रात्रुभ्रात्रुभगिन्योर्मातुल भागिनेययोस्शिष्याचार्ययोर्वा परस्परमपतितं तयजतस्स्वार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वस्साहसदण्ड: । कान्तारे मध्यमः । तन्निमित्तं भ्रेषयत उत्तमः सहप्रस्थायिष्वन्येष्वर्धदण्डा: । पुरुषमभ्हन्धनीयम् बद्रतो बन्धयतो बन्धं वा मोक्षयतो भालमप्राप्तव्यवहारम् बन्धतो बन्धयतो वा सहस्त्रदण्ड: । पुरुषापराधविशेषेण दन्दविषेषः कार्यः । तीर्थकरस्स्तपस्वी व्याधितः क्षुत्पिपासाध्वक्लान्तस्तिरोजानपदो दण्डखेदी निष्किञ्चनञ्चानुग्राह्या: । देवभ्राह्मणतपस्विस्त्रीबालवृध्दव्याधितानामनाथानामनिभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देशकालभोगच्चलेनातिहरेयु: । पूज्य विद्याभुध्दिपोरुषाभिजनकर्मातिशयतस्च पुरुषाः ।


श्लोकः [सम्पादयतु]

                                          एवं कार्याणिम् धर्मस्थाः कुर्युरच्छलदर्शिनः ।
                                          समास्सर्वेषु भावेषु विन्वास्या लोकसंप्रियाः ।।

इति धर्मस्थोये ध्यूतसमाह्वयम् प्रतीर्णकानि विम्षोSध्यायः आदितस्सप्तसप्ततिरध्यायः एतावता कोटिल्यस्यार्थशास्त्रस्य धर्मस्थीयम् त्रुतीयमधिकरणम् समाप्तम् ।


अतिचारदण्डः [सम्पादयतु]

ब्राह्मणमपेयमभ्हक्ष्यम् वा सङ्गाम्सयत उत्तमो दण्डः । क्षत्रियं, मध्यमः । वैश्यं पूर्वस्साहसदण्ड: । शूद्रम्, चतुष्पञ्चाशत्पणो दण्डः । स्वयं ग्रसितारो निर्विषयाः कार्याः । परगृहाभिगमने दिवा पूर्वस्स्याहसदण्ड: । रात्रौ मध्यम: । दिवा रातौ वा सशस्त्रस्य प्रविशत उत्तमोदण्ड: । भिक्षुकवैदेहकौ मत्तोन्मत्तौ बलादापादे चातिसन्निकृष्टाः प्रव्रुत्तप्रवेशाश्चादण्ड्श्चाह्, अन्यत्र प्रतिषेधात् ।स्ववेध्मानोसपि रात्रा दूर्ध्व परिवार्यमारोहतः पूर्वस्साहसदण्ड: । परवेश्मनो मध्यमः । ग्रामारामवाटभेदिनश्च । ग्रामेSन्यतः सार्थिका ज्ञातसारा वसेयुः । मुषितं प्रवासितं चैषामनिर्गतम् रात्रौ ग्रामस्वामी दद्यात् । ग्रामान्तरेषु वा मुषितं प्रवासितं विवीताव्यक्षो दद्यात् । अविवीतानाम् चोररज्जुकः । तथाSप्यगुप्तानां सीमावरोधेन विचयं दद्युः । असीमावरोधे पञ्चग्रामी दशग्रामी वा ।

दुर्बलं वेश्म, शकतमनुत्तभ्धमूर्व्वस्तम्भशस्त्रमनपाश्रयप्रतिच्छन्नं श्र्वभ्रं कूपम् कूतावपानम् वा कृत्वा हिंसायां दण्डपारूष्यम् विद्यात् । वृक्षच्छेदने दम्यरश्मिहरणे चतुष्पदानामदान्तसेवने वा काष्ठलोष्टपाषाणदण्डभाणभाहुविक्षेपणेषु याने हस्तिने च । सङ्घट्टने च अपेहि इति प्रकोशन्नदण्ड्च: । हस्तिना रोषितेन हतो द्रोणोनमद्यकुम्भ माल्यानुलेपनं दन्तप्रमार्जनं च पटम् दद्यात् । अश्वमेधावभृथस्त्रानेन तुल्यो हस्तिना वध इति पादप्रक्षाळनम् । उदासीनवधे यातुरुत्त मो दण्ड: । श्रुङ्गिणा दंष्ट्रिणा वा हिम्स्यमानममोक्षयतस्स्वामिनः पूर्वस्साहसदण्ड: । प्रतिकुष्टस्य द्विगुणः । श्रुङ्गिदम्ष्ट्रिभ्यामन्योन्यं घातयतस्तच्च तावच्च दण्डः । देवपशुम्रुषभमुक्षाणम् गोकुमारीम् वा वाहयतः पञ्चाशतो दण्डः । प्रवासयत उत्तमः । लोमदोहवाहनव्रजनोपकारिणाम् स्खुद्रपशूनामादाने तच्च तावच्च दण्ड ; प्रवासने च अन्यत्र देवपित्रुकार्येभ्यः । चिन्ननस्यमभग्नयुगं तिर्यक्प्रतिमुखागतं प्रत्यासरद्वा चक्रयुत्तं यातपशुमनुष्यसम्बाधे वा हिम्सायामदण्ड्च:, अन्यथा यथोत्तं मानुषप्राणिहिम्सायाम् दण्डमभ्याभवेत् । अमानुषप्राणिवधे प्राणिदानम् च । बाले यातरि, यानस्थः स्वामी दण्ड्चह्; अस्वामिनि यानस्थः प्राप्त्व्यवहारो वा याता । भालाधिष्टितमपुरुषम् वा यानं राजा हरेत् ।