सदस्यः:Amrutha N A/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
File:Highway toll - panoramio.jpg
File:Toll house, Charmouth - geograph.org.uk - 1054513.jpg
                                                                          शुल्काध्यक्षः 

शुल्काध्यक्ष: शुल्कशालां ध्वजं च प्राड्मुखमुदड्मुखं वा महाद्वाराभ्यारो निवेशयेत् | शुल्कादायिनश्चत्वारः पाश्च वा साथौपयातान् वणिजो लिखेयु: के कुतस्त्या: कियत्पण्या: क्क चाभिज्नानं मुद्रा वा कृता इति | आमुद्राणामत्ययो देयद्विगुण: | कृटमुद्राणां शुल्काष्ट्गुणो दण्ड:| भिन्न्मुद्राणामत्ययो घटिका स्थाने स्थानम् | राजमुद्रापरिवर्तने नामकृते वा सपादपणिकं वहनं दापयेत् |

ध्वजमूलोपस्थितस्य प्रहाणर्धं च वैदेहकाः पण्यस्य ब्रूयु: 'एतत् प्रमाणमर्धेण पण्यमिदं क: क्रेता' इति | त्रिरुध्दोषितमथ्रिभ्यो दधात् | क्रेतुसंधर्षे मूल्यवृध्दि: सशुल्का कोशं गच्छेत् | शुल्काभयात्पऊयप्रमाणं मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत्। शुल्कामष्टगुणं वा दद्यात् । तदेव निविष्टपण्यस्य भाण्डास्य हीनप्रतिवर्णकेनार्धापकर्षणे सारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात्। प्रतिक्रेतृभयाद्वा पण्यमूंल्यादुपरि मूल्यं वर्धयतो मूल्यवृध्दिं राजा हरेत्, द्विगुणं वा शल्कं कुर्यात्। तदेवाष्टगुणमध्यक्षस्याच्छादयत:।

तस्माद्विक्रय: पण्यनां धृतो मितो गणितो वा कार्य:, तर्क: फल्गुभाण्डानामानुग्राहिकानणां च। ध्वजमूल्मतिक्रान्तानां चाकृतशुल्कानां शुल्काष्ट्गुणो दण्डः । पथिकोत्पथिकास्तद्विद्यः । वैवाहिकमन्वायनमौपायनिकं यग्नकृत्यसवनैमित्तिकं देवेज्याचौलौपनयनगौदानव्रतदीक्षणादिषु क्रियाविशेषेषु भाण्डमुच्चुल्कं गच्चेत् । अन्यथावादिनः स्तेयदण्डः ।

कृतशुल्केनातिशुल्कं निर्वाहयतो द्वितीयमेमुद्रया भित्वा पण्यपटुमपहरतो वैदेह[१]कस्य तच्च तावाच्च दण्डः । शुल्कस्थानाद्गोमयलालं प्रमाणं कृत्वापहरत उत्तमः साहसदण्डः । शस्त्रवर्मकवचलोहरथरशस्त्रवर्मकवचलोहरथरत्नधान्यपशूनामन्यतममनिर्वाह्यं निर्वाहयतो यथावघुषितो दण्डः पण्यनाशश्च । तेषामन्यतमस्यानयने बहिरेवोचुल्को विक्रयः । अन्तपालः सपादपणिकां वर्तनीं गृण्हीयात्पण्यवहनस्य, पणिकामेकखुरस्य, पशुनामर्घपणिकां, क्षुद्रपशूनां पादिकां, असंभारस्य माषिकाम् । नष्टाड्पह्रतं च प्रतिविदध्यात् । वैदेश्यं सार्थं कृतसारफल्गुभाण्डविचयनमभिग्यानं मुद्रां च दत्त्वा प्रेषयेदध्यक्ष्स्य ।

वैदेहकव्यजनो वा सार्थप्रमाणं राज्नः प्रेषयेत्। तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणमुपदिशेत् सर्वज्ञत्वरव्यापनार्थं । तत: सार्थमध्यक्षोभिगम्य ब्रुयात् " "इदममुष्यामुष्य च सारभाण्डं फल्गुभाण्डं च, न निगूहितव्यम्, एष राज्ञः प्रभावः " इति ।निगूहत: फल्गुभाण्डं शुल्काष्टगुणो दण्डः, सारभाण्डं सर्वापहारः । राष्ट्रपीडाकरं भाण्डमुच्चिन्द्यादफलं च यत् । महोपकारमुच्चुल्कं कुर्याहिजं च दुर्लभम् ।

                                                                          पण्याध्यक्षः 

पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथवारिपथोपयातानां सारफल्ग्वर्घान्तरं प्रियाप्रियतां च विघात्, तथा विक्षेपसंक्षेपक्रयविक्रयप्रयोगकालान् । यच्च पण्यं प्रचुरं स्यात्तदेकीकृत्यार्घमारोपयेत् । प्रांप्तर्घे वार्घान्तरं कारयेत्। स्वभूमिजानां राजपण्यानामेकमुखं व्यवहारं स्थापयेत् , परभूमिजानाममेकमुखम् । उभयं च प्रजानामनुग्रहेण विक्रापयेत् । स्थलमपि च लाभं प्रजानामौपषातिकं वारयेत् । अजस्त्रपण्यानां कालोपरोधं संकुलदोषं वा नोत्पादयेत् ।

षोडशभागो मानव्याजी, विंशतिभागस्तुलामानं, गण्यपण्यानां एकादशभागः ।[२]

Amrutha N A 1610283 Sanjana T R 1610287

  1. https://www.importantindia.com/430/the-mauryan-administration/
  2. https://www.clearias.com/officers-mauryan-empire/