सदस्यः:Meghana H Rao/प्रयोगपृष्ठम्4

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः





 
शान्तामानसहंसं कान्तारासक्त मुनिवरैस्सेव्यम् ।
शान्ताहंकृतिवेद्यं कान्तार्धं नौमि श्रृंगशिवम् ॥











नमः शान्तासमेताय नन्दिनीतीरवासिने ।
रुद्राक्षभूषिताङ्गाय ऋष्यशृङ्गाय ते नमः ॥

px

किग्ग (Kigga) कर्णाटकराज्यस्य चिक्कमगळूरुमण्डले विद्यमानं किञ्चन क्षेत्रम् । प्रसिद्धपुण्यक्षेत्रस्य शृङ्गेर्याः समीपे एव अस्ति अयं ग्रामः । एषः ग्रामः नन्दिनीनद्याः तटे अस्ति, या नदी तुङ्गानद्याः उपनदी अस्ति । अत्र ऋष्यशृङ्गेश्वरस्य देवालयः अस्ति । ऋष्यशृङ्गेश्वरस्य पत्नी शान्ता । कालत्रये अपि अत्र पूजा भवति । तस्य पिता विभाण्डकः महर्षिः। तस्य देवालयः शृङ्गेर्याम् अस्ति । वृष्टिदेवः इत्येव प्रसिद्धः एषः । चैत्रमासे अत्र ऋष्यशृङ्गस्य रथोत्सवः भवति । शिवलिङ्गस्य उपरि शृङ्गद्वयं विराजते । रामायणे अपि एषा कथा अस्ति । रोमपादस्य राज्ये यदा अनावृष्टिः आसीत् तदा ऋष्यशृङ्गस्य प्रवेशस्य कारणात् वृष्टिः सञ्जाता इत्येषा कथा प्रसिद्धा वर्तते । देवालये ऋष्यशृङ्गस्य दक्षिणे भागे गणेशस्य विग्रहः वर्तते । सः द्विभुजः गणेशः ।

अस्य ग्रामस्य समीपे एव अस्ति सिरिमनेजलपातः । काफीवाटिकाजनाः मार्च-अप्रिल् मासयोः अत्र आगत्य वृष्ट्यर्थं रुद्रहोमं कारयन्ति । ततः तत्र काफीवाटिकासु वृष्टिः भविष्यति इति तेषां भावना । अस्मिन् ग्रामे एका प्राथमिकशाला, एका प्रौढशाला च स्तः । एकः सिण्डिकेट्वित्तकोशः अपि अस्ति । जनाः प्रायेण कृषीवलाः सन्ति । अत्र पूगवाटिकाः अधिकाः सन्तिः । व्रीहिक्षेत्राणि अपि सन्ति । समीपे नरसिंहपर्वतः अस्ति । ततः पञ्चनद्यः उद्भवन्ति । एषः पर्वतः समुद्रतलात् ८२६ पादोन्नते प्रदेशे अस्ति । इतः प्रकृतिः द्र्ष्टुम् रम्या वर्तते । कुदुरेमुखपर्वतप्रदेशः इतः द्रष्टुं शक्यते । किग्गतः घण्टद्वयम् अपेक्षते तत्र गमनाय । अत्र गमनाय वनाधिकारिणः अनुमतिः अपेक्षिता भवति । ग्रामोऽयम् अतीव प्राचीनः इति तत्रस्थेने शिलाशासनेन ज्ञायते । अयं शासनः प्रायः सप्तमशतकस्य अस्ति । शृङ्गेरीतः १२ किलोमीटर् दूरे अस्ति किग्ग।

बाह्यानुबन्धाः[सम्पादयतु]

can't use in sandboxकर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]] can't use in sandboxकर्णाटकराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]