सदस्यः:NKB96/दूरसम्पर्कसौकर्यक्षेत्रम्:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Canon Laser Class 710 fax machine
Höritz Museum - Morsegerät
1896 telephone

दूरसम्पर्कसौकर्यक्षेत्रम्:

        उत्पादनोद्यमव्यवसायानाम् शीघ्रगत्या प्रवृत्त्यर्थम्, व्यापारव्यवसायस्यापि
तीव्रविस्तारसम्पादनार्थनम्, दूरसम्पर्कसौकसौकर्यस्य परमावधिसौष्ठवम् आवष्यकम्
तिष्ठति। अधुनातने विशेषतः जागतिकीभूतव्यवसायपरिसरे धनपण्यानाम् देशाद्येशान्तरेषु
निकटतमसम्पर्कप्रक्रियायाः दक्षता अत्यावश्यकीभवति। दूरसम्पर्कसौकर्याणाम् अत्युपयोगित्वम्
अनुलक्ष्य देशे अनेके उपक्रमाः उपस्थापिताः वर्तन्ते।
        भारतदेशे दूरसम्पर्कजालम् एशियाकण्डस्य इतरदेशेषु उपलभ्यमानप्रमाणादत्यधिकम्

वर्तते। गतपङ्चषवर्षेषु दूरसम्पर्कसम्योगाः दिल्ली, मुम्बइ, कल्कत्त, चेन्नै आदिषु नगरप्रदेशेषु अतितीव्रगत्या प्रवर्धमानाः दृश्यन्ते।

        अधुना नूतनः राष्ट्रियदोओरसम्पर्कनीतिप्रसरः प्रक्रान्तः वर्तते। अस्मिन् नीतिप्रसरे

एवम् प्रतिश्रावितम् वर्तते यत् नगरप्रदेशेषु प्रति शतजनसमुदायस्य कृते अवरादवरम् एकम्सर्वजनिकदूरसम्पर्ककेन्द्रम् प्रतिष्ठापितव्यम् इति। इदम् लक्ष्यम् अधुना अधिगतप्रायमेव वर्तते। अस्मिन्नेव नीतिप्रसरे इदमपि प्रतिश्रावितम् वर्तते यत् अचिरादेव देशस्य प्रत्येकम् ग्रामाधिवासे अवरादवरम् एकम् सर्वजनिकदूरसम्पर्ककेन्द्रम् प्रतिष्ठापितव्यम् इति। एतत्तु बहुश्रमसाध्यम् लक्ष्यमिति भासते। एतल्लक्ष्यस्य साधनार्थम् सर्वकारीयदूरसम्पर्कविभागः तथा च स्वीयवित्तस्वाम्यव्यवसायिनश्र्च सम्मिलित्वा उत्तरदायित्वम् निर्वहन्ति। यदा स्वीयवित्तस्वाम्यव्यवसायिभ्यः दूरसम्पर्कव्यवसाये आत्मनः मूलधनम् उपनिवेशितुम् अनुमतिः सर्वकारैः प्रदीयते तदा अयम् विधिनिर्बन्धः तेषाम् उपरि निक्षिप्यते यत् स्वीयस्वाम्यव्यसायिनः आत्मभिः प्रस्थापितानाम् दूरसम्पर्कावलीनाम् मध्ये अवरादवरम् १०.००% मितिम् यावत् दूरसम्पर्कसम्बन्धान् ग्रामप्रदेशेषु स्थापयेयुः इति। देशे ६.०७ लक्षसम्ख्याकाः ग्रामप्रदेशाः वर्तन्ते। तेषाम् मध्ये १९९८ वर्षस्य मार्च मासपर्यन्तम् केवलम् ३.०४ लक्षसम्ख्याकेषु ग्रामप्रदेशेषु ग्रामसार्वजनिकसम्पर्ककेन्द्राणि प्रतिष्ठापितानि वर्तन्ते। १९९८-९९ वर्षे ४५००० सम्ख्याका ज्रमसार्वजनिकदूरसम्पर्ककेन्द्राणि आयोजितानि वर्तन्ते। देशस्य समग्रग्रामप्रदेशानाम् दूरसम्पर्कसौकर्यजाले निवेशनरूपस्य अन्तमलक्षस्य साधनम् अचिरान्नैव साध्यम् इत्यनुमीयते।

        चरसम्पर्कसौकर्यसेवाव्यवसायस्य इन्टरनेट् सौकर्यसेवाप्रदानव्यवसायस्य

च, पत्रापि स्वीयवित्तस्वाम्यव्यवसायपतीनाम् व्यवहारनियमनार्थम्, सौकर्यसेवाकर्तृणाम् सौलभ्यविकासार्थम् च समुचितविधिनियमनिर्बम्धप्रस्थापनार्थम् भारतीय दूरसम्पर्क नियमनप्राधिकरणम् इति नाम्ना आख्यायिता सम्स्था प्रस्था प्रस्थापिता वर्तते। देशे अन्तर्देशीयानाम्, विदेशेषु प्रतिष्ठतमूलानाम् दूरसम्पर्कसौकर्यसेवाव्यवसायिनाम् विस्तारितसन्निधानेन सुव्यवस्थितसहकारेण च देशे दूरसम्पर्कसेवासौकर्यम् शीघ्रतमगत्या प्रवृद्धम् भवेदिति आशास्यते।