सामग्री पर जाएँ

सदस्यः:Nitya22/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                          अथाष्टमोऽध्यायः ।

व्यवहारान् दिदृक्षुस्तु ब्राह्मणोः सह पार्थिवः । मन्त्रग्नयैर्मन्त्रभिश्र्चैव विनीतः प्रविशेत्सभाम् ॥ व्यवहारानिति ।एवंविधविपक्षमहीक्षिभ्ध्यः प्रजानां रक्षणादवा प्रवृत्तिस्तासामेवेतरेतरविवादजपीडापरिहारार्थं ऋणादानाध्यष्टादश विवादे विरुद्धार्थार्थिप्रत्यर्थिवाक्यजनितसंदेहहारी चिचार एव व्यवहारः ।तदाह कात्यायनः ।विनानार्थेऽव संदेहे हरणं हार उच्यते ।नानासंदेहहरणाव्ध्यवहार इति स्मृतः ॥ तान्व्यवहारान्द्रष्टुमिच्छन् ।पृथिवीपतिर्वक्ष्यमाणैरमात्यैश्र्च सप्तमाध्यायोक्तप चाङ्गमन्त्रैः सह विनीतो वाक्पाणिपादचापलविरहादनुद्धतः अविनीते हि नृपे वादिप्रतिवादिनां पतिभाक्षयादसम्यगभिधाने तत्त्वनिर्णयो न स्यात् तादृशो वक्ष्यमाणां सभां प्रविशेत् । व्यवहारदर्शनं चेदं प्रजानामितरेतरपीडायां तत्त्वनिर्णयेरक्षणार्थं वक्ष्यमाणदृष्टात्मककरणफमलेनैव फलवत् ॥ तत्रासीनः स्थितो वापि पाणिमुध्यम्य दक्षिणम् । विबीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम्॥ तत्रेत्यादि । तस्यां च सभायां कार्यगौरवापेक्षायामुपविष्टो लघुनि कार्थे उत्थितोऽपि वा पाणिशब्दो बाहुपरः दक्षिणपाणिमुध्यम्य अनुद्धतवेषालंकारः पूर्वत्राङ्गेन्द्रियानौद्धत्ययुक्तं तादृशः कार्याणि विचारयेत् ॥ प्रत्यहं देशदृष्टैश्र्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ प्रत्यहमित्यादि।तानि च ऋणादानादीनि कार्याणि अष्टादशसु व्यवहारमार्गेषु विषयेषु पठितानि देशजातिकुलव्यवहारगतैः शास्त्रावगतैः साक्षिद्रव्यादिभिर्हेतुभिः पृथक् प्रत्यहं विचारयेत् ॥ तान्येवाष्टादश गणयति तेषामाध्यमृणादानं निक्षेपोऽस्वामिविकयः। संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चादानां संविदश्र्च व्यतिकमः । क्रयविकयानुशायो विवादः स्वामिपालयोः॥ सीमाविवादधर्मश्र्च पारुष्ये दण्डवाचिके। स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च॥ स्त्रीपुंधर्मो विभागश्र्च ध्युतमाव्हय एव च। पदान्यष्टादशैतानि व्यवहारस्थिताविह॥ तेषामिति ।वेतनस्यैव चेति। सीमेति।स्त्रीपुंसेति ।तेषामष्टादशानां मध्ये आदाविह ॠणादानं विचार्यते ।तस्य स्वरुपमुक्तंनारदेनं ।ॠणं देयमदेयं च येन यत्र यथाचरेत् ।दानग्रहणधर्माश्र्च तदृणादानमुच्यते ॥ ततश्र्च स्वधनस्यान्यस्मिन्नर्पणरूपो निक्षेपः।अस्वामिना च कृतो विक्रय: । संभूय वणिगादीनां क्रियानुष्टानम्। दत्तस्य धनस्यापात्रबुद्धचा क्रोधादिना वा ग्रहणम् ।कर्मकरस्य भृतेरदानम् । कृतव्यवस्थातिक्रमः क्रयविक्रये च कृते पश्र्चात्तापाद्विप्रतिपत्तिः ।स्वामिपशुपालयोर्विवादः । ग्रामादिसीमाविप्रतिपत्तिः । वाक्पारुष्यमाक्रोशनादि । दनण्डपारुष्यं ताडनादि।स्तेयं निह्नवेन धनग्रहणम् । साहसं प्रसगह्च धनहरणादि । स्त्रियाश्र्च परपुरुषसंपर्कः । स्त्रीसहितस्य पुंसो धर्मः व्यवस्था । पैतृकादिधनस्य च विभागः । अक्षादिक्रीडाधर्मव्यवस्थापनपूर्वकं पक्षिमेषादिप्राणियोधनम् । इत्येवं अष्टादश ।एतानि व्यवहारप्रवृत्तेः ॥ एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्म शाश्र्वतमाश्रित्य कुर्थात्कार्यविनिर्णयम् ॥ एष्विवत्यादि । एषु ॠणादानादिषु व्यव्हारस्थानेषु बाहुल्येन विवादं कुर्वतां मनुष्याणां अनादिपारंपर्यागतत्वेन नित्यं धर्ममवलम्ब्य कार्यनिर्णयं कुर्यात् । भूयिष्टशब्देनान्यान्यपि विवादपदानि सन्तीति सू चयति । तानि च प्रकीर्णकशब्देन नारदाध्युक्तानि । अत एव नारदः । न दृष्टं य पूर्येषु सर्व तत्स्यात्प्रकीर्णकमिति ॥ यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । तदा नियुञ्जयाद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥ यदेत्यादि । यदा कार्यान्तराकुलतया रोगादिना वा राजा स्वयं कार्यदर्शनं न कुर्यात्तदा तदृर्शनार्थं कार्यदऋशनाभिग्न्यं ब्राह्मणं नियुञ्जीत ॥ सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्याग्यामासीनः स्थित एव वा ॥ सोऽस्येति । स ब्राह्मणोऽय राग्न्ये द्रष्टव्यानि कार्याणि त्रिभिर्ब्राह्मणैः सभावं साधुभिर्धार्मिकैः कार्यदर्शनाभिग्नैर्वृतस्तामेव सभां प्रविश्योपविश्य स्थितो वा न तु चंक्रम्यमाणस्तस्य चित्तव्याक्षेपसं भवत्वात्तादृशऋणादानादीनि कार्याणि पश्येत् ॥ यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राग्न्यश्र्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः ॥ यस्मित्रिति । यस्मिन् स्थाने ॠग्यजुःसामवेदिनस्त्रयोऽपि ब्राह्माणा तां सभां चतुर्मुखसभाभिव मन्यते ॥ धर्मो विद्धस्त्वधर्मेण सभा> यत्रोपतिष्ठते । शम्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ धर्म इति । भाः प्रकाशस्तयां सह वर्तत इति विद्वत्संहतिरेवात्र सभाशब्देनाभिमता । यत्र देशे सभां वेद्वत्संहतिरूपां धर्मः सत्याभिधानजन्योऽनृताभिधानजन्येनाधर्मेण पीडित आगच्छति अर्थि प्रत्यर्थिनोर्मध्ये एकस्य सत्याभिधानादपरस्य मृषावादात्तेन सभासदोऽस्य धर्मस्य षीडाकरत्वाच्छल्यमिवाधर्मं निद्धरन्ति तदा ते एव तेनाधर्मशम्येन विद्धा भवन्ति । यत एवमतः ॥ सभां वा न प्रवेष्टव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषि ॥ सभामिति । सभामवगम्य व्यवहारार्थं तत्प्रवेशो न कर्तव्यः । पृष्टश्र्चत्तदा सत्यमेव वक्तव्यम् । अन्यथा तूष्णीमवतिष्टमानो मृषा । अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ अवेदयान इत्यादि । नष्टद्रव्यस्य देशकालौ अस्मिन्देशे अस्मिन्काले नष्टमिति तथा वर्णं शुक्लाध्याकारकतकत्वादि परिमाणं च यथावदजानन्नष्टद्रव्यसमदण्डमर्हति । देशकालादिसंवादे पुणः आददीताथ षड्भागं प्रणाष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥ आददीतेति । यदेतद्राग्न्य प्रणष्टद्रव्यं प्राप्तं तस्मात् षड्भागं दशमं द्वादशं वा रक्षादिनिमित्तं पूर्वेषां साधूनामयं धर्म इति जानन् राजा गृह्णीयात् । धनस्वामिनो निर्गुणत्वापेक्षआर्चायं षड्भागादिग्रहणविकल्पः । अवशिष्टं स्वामिने समर्पयेत् ॥ प्रणष्टाधिगतं द्रव्यं तिष्ठेध्युक्तैरधिष्ठितम् । यांस्तत्र चौरान् गृह्णीयात्तान् राजेभेन धातयेत् प्रणष्टेति । यद्रव्यं कस्यापि प्रणष्टं सत् राजपुरुषैः प्राप्तं रक्षायुक्तैः रक्षितं कृत्वा स्थाप्यं तस्मिंश्र्च द्रव्ये यांश्र्चौरान् गृह्णीयात्तान् हस्तिना घातयेत् । गोविन्दराजस्तु शताभ्यधिके वध इति दर्शनात् । अत्रापि शतसुवर्णस्य मौम्यादिकत्रयहरणे वधमाह तन्न । तत्र संधिं कृत्वा यच्चौर्यमिति यत्स्वाम्येऽपि प्रणष्टराजरक्षितद्रव्यहरणेनैव विशेषेण वधविधानात् । शतदभ्यधिके वध इत्यस्य विशेषोपदिष्टवधेतरविषयत्वात् ॥ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ममायमिति । यो मीनुषः स्वयं निधि मब्ध्वा अन्येन वा निधौ प्राप्ते ममायं निधिरिति वदति सत्येन प्रमाणेन च स्वसंबन्धं बोधयति तस्य पुरुषस्य निर्गुणत्वसगुणत्वापेक्षया ततो निधानादष्टभागं द्वादशभागं वा राजा गृह्णीयात् । अवशिष्टं तस्यार्पयेत् ॥