सदस्यः:RESHMA.M
वृक्षारोपणम्
वृक्षारोपणं पुण्यकार्यम् । सर्वाणि शास्त्राणि तत्प्रशंसन्ति । पञ्चाम्रवापी नरकं न याति इति पुराणं वदति । तथैव कर्णाटक सर्वकारो बहुत्र नाना वृक्षकान् आरोपयत् । किन्तु आरोपणमात्रेण वृक्षको वृक्षो न भवति । निदाघे सूर्यातपस्तीव्रो वृक्षकान् शोषयति । अस्मिन् काले यदि जलं न दीयते, तर्हि ते वृक्षका म्रियन्ते । ततो वर्षाकाले देवो वर्षिष्यति । किन्तु मृता वृक्षा न पुनः रोहन्ति ।वृक्षस्य संरक्षाण्म् अहं सर्वेभ्यः कर्तव्यः।परन्तु इदानीम् सर्वेजनाः यतस्य विषये लक्ष्यं न ददान्ती। आम्लजनकस्य मूलम् वृक्षाः सन्ति। अतः वृक्षाः समस्त जीवजन्तुभ्यस्य जीवनस्य मूलकारणम्।
अतो यदि निदाघे पालनं न क्रियते तर्हि वृक्षकाणां भूमौ वपनं व्यर्थमेव । सर्वकारो गर्वेण वदति, कोटिसंख्याः वृक्षा वर्षे रोपिता इति । किं प्रयोजनं यदि सर्वे मरिष्यन्ति ? तत्स्थाने यदि वृक्षक लक्षं रोप्यते, निदाघे तेषां पालनं च क रिष्यते, तर्हि साधु । शुष्कान् वृक्षकान् मार्गाणां पार्श्वे दृष्टवा दूयते मनः । नायकाः शालानाम् अन्गणे वृक्षकारोपणं कृत्वा पत्रिकासु स्वचित्रं ख्यापयन्ति । परेद्युः तं विचारं विस्मरन्ति । स्वेन रोपितो वृक्षोऽवशिष्टो न वेति स्वप्नेऽपि न चिन्तयन्ति । अरण्येषु स्वयं वृद्धान् वृक्षान् निष्करुणं छेदयन्ति । अत एव भूमिः ऊषरायते । सर्वत्र मरुभूमिः प्रसरीसरीति मानवः स्वनाशं स्वयं करोति ।
RESHMA 1640467
SAMANVITHA 1640468
References:-