सदस्यः:Reg1940656Anagha.R
भागीरथी
[सम्पादयतु]भारत वर्षस्य उत्ततः हिमाल्यो नाम अतितुङ्गः पर्वतः विद्यते । तस्मादेव गङ्गा प्रभवति । ब्रह्मपुत्रा, सिन्धु, यमुना प्रभृतयः नद्यः अपि हिमालयादेव प्रभवन्ति । नदीषु श्रेष्ठतम गङ्गा नदी । गंगोत्री इति अस्याः उद्भवस्थलं । तत्र अस्य प्रवाहः अल्प वर्तते । पश्चात् ऋमश यशः प्रवाहः विततः भवति । नदीषु भागीरथी पूज्यतमा । सा प्रथमं विष्णोः पादात् उद्भता । ततः सा स्वर्गे प्रवहतिस्म । रघुषु प्रसिद्धः भगीरथः तां नदीं भूमिं प्रति आनेतुं बहुकालं तपस्यां अकरोत् । ततः सा स्वर्गात् आपतन्ति हरस्य जटाजुट निलीना । सः भूपतिः पुनः अपि घोरं तपः अकरोत् । ततः प्रसन्ना सा धूर्जतेः जटा याः निरगच्छत् । तं नृपं अन्वसरत् च । मार्गे जन्होः आश्रमः प्रवाहेणावृतः । तदा सः नृपः तं ऋषिंब भक्त्या प्रार्त्यत । प्रसन्नः ऋषिः तां शेवनमार्गोण व्यस्रुजत । ततः सा भूमौ तं नृपं अंवसरत् पातालं प्रविशत् च । तत्र तस्य नृपतेः पूर्वजान् पित्रून् उदतारयत् । तस्याः तोयं दिव्य औषधि इव परमपावनम् अस्ति । प्रयागे गङ्गायाः यमुनायाः सरस्वत्याः च सङ्गमः भवति । सः त्रिवेनीसंगमः इति विख्यातः । तत्र स्नानेन, पानेन, दर्शनेन, स्पर्षणेन, च अनाल्पं पुण्यं भवति । श्री भगीरथः नमः । श्री जाह्नव्यै नमः । शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे। औषधम् जाह्नवीतोयं वैद्यो नारायणो हरिः ।। भगीरथेन महत्तपः तप्त्वा एषा स्वर्गात् इहानीता; अत एव एषा भागीरथीति कथ्यते। स्वर्गादेषा अवतरति, एतस्मादेव अस्याः तोयं पवित्रं मन्यन्ते जनाः। अस्याः तटे बहूनि तीर्थस्थनानि सन्ति। नानादेशात् तीर्थस्थानेषु आगत्य जनाः अस्यां स्नानं कुर्वन्ति। पुण्यपर्वसु प्रतिवर्ष असंख्याकाः जनाः अत्र आगच्छन्ति अस्या माहात्म्यं च वर्णयन्ति। अतितुङ्गे हिमालयस्य शृङ्गे यत्र यत्र गङ्गायाः तटे तीर्थस्थानानि सन्ति तत्र तापसाः निवसन्ति। ते च शान्तेन मनसा परमेश्वरं व्यायन्ति। रुग्णाः अस्याः पयः पानं कृत्वा नीरोगाः जायन्ते । ईथ्यम् मातेव एषा नदी जनान् उपकरोति । अत एव पुराणेषु अस्याः माहात्म्यमुपर्वाणतं। कविभिरपि स्तोत्रादिरूपेण अस्याः गौरवं उपगीतम्। गङ्गायाः जलेन कृषीवलानां महोपकारः भवति । स्वक्षत्रेषु पर्याप्तं जलं लभन्ते । इत्थं तत्र धान्यं वैपुल्येन जायते । अस्याः तटे बहूनि समृद्धानि नगराणि सन्ति । तेषां नगराणां वणिजः कारणं एषा एव । अस्याः जले नौकाः अपि सञ्चरन्ति । नौकाभिः वणिजः व्यापारं कुर्वन्ति । आहीमालयात् समुद्रं यावत् एषा भारतीयानां बहूपकारं विदशाति । अतः गङ्गायाः दर्शनं पुण्यमेव ।