सदस्यः:Vadiraja K.S./प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतराष्ट्रम्[सम्पादयतु]

अस्माकं देशः भारतम् | अस्य देशस्य प्रतिष्ठे द्वे | ते संस्कृतं संस्कृतिः च | संस्कृतं विना संस्कृतिः नास्ति | संस्कृतिं विना संस्कृतं नास्ति | संस्कृतसंस्कृतिभ्यां कारणादेव हि भारतस्य गरिमा महिमा वर्तते ।

भारतस्य अत्यद्भुतं जगते दत्तं ज्ञानम् आध्यात्मिकं ज्ञानम् | जगति अन्यत्र कुत्रापि नास्ति भारते केवलं वर्तते | अत एव अनेके वैदेशिकाः जनाः आकृष्टाः | केचन संस्कृतिम् अनुसर्तुम् उद्युक्ताः, केचन संस्कृतम् अध्येतुम् आसक्ताः, अन्ये केचन उभयासक्ताः सन्ति | इदमेव परिवर्तनं भारतस्य विश्वगुरुस्थानप्राप्तौ प्रमाणं वर्तते |