सदस्यसम्भाषणम्:2010478kamalrajpurohit/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जलवायु परिवर्तनं पर्यावरण संरक्षणं[सम्पादयतु]

जलवायु परिवर्तनं पर्यावरण संरक्षणं समेधमानायाः जन-संख्यायाः कारणात् खाद्य संसाधनानाम् आवश्यकताः अपि समेधन्ते | अमुना कारणेन प्राकृतिक संसाधनेषु आपीडः अपि सततं वर्धते | जलवायु परिवर्तनस्य प्रत्यक्ष प्रभावः कृषौ समापतति, यथा हि तापमानेन, वृष्ट्यादौ परिवर्तनेन, मृदा-क्षमतायाः अपक्षयेण, सामान्य-स्तराद् आधिक्येन कीटाणूना रोगाणां च प्रसारेण एतत् सुस्पष्टं भवति । जलपूराणां अनावृष्ट्यादि घटनानां च पौनःपुन्येन आवृत्ति कारणात् अतितरां सञ्जायमानं जलवायु परिवर्तनं कृषि प्रतिकूलतया प्रभावयति एतस्मात् कारणात् शस्यादीनां उत्पादन मितिः अपक्षीयते | जलवायु परिवर्तनस्य कारणात् अनेकाः प्रजातयः अपि विलुप्ताः सन्ति । विगतेभ्यः कतिपय वर्षेभ्यः जलवायौ बृहन्मात्रिकं परिवर्तन दृग्गोचरीभवति । एतानि कारणानि प्राकृतिकानि मानव निर्मितानि चेति द्विधा विभक्तुं शक्यते । महा-द्वीपानां प्रस्खलनानि, ज्वालामुखि प्रस्फोटनानि, सामुद्रिकाः तरङ्गाः पृथिव्याः परिभ्रमणम् चेत्यादीनि प्राकृतिकानि कारणानि सन्ति यानि जलवायु परिवर्तने हेतुतां भजन्ते | कार्बन डाइऑक्साइड -[ अङ्गाराम्लवायुः ] मीथेन-नाइट्रस् ऑक्साइड -[ पुष्कल्य-भूयीय-अम्लवायुः ]-सदृश्यः ग्रीन हाउस वातयः प्रामुख्येण जलवायु परिवर्तनस्य मानव-निर्मितानि कारणानि वर्तन्ते । एतासु कार्बन् डाइऑक्साइड -[ अङ्गाराम्लवायुः ] उच्च उत्सर्जनशीलः परिगण्यते यदा वयं तैल-कृष्णाङ्गार प्राकृतिकवाति-प्रभृतीनां ईन्धनानाम् उपयोगं कुर्मः, अथवा वृक्षाणाम् उच्छेदनं कुर्मः तदा कार्बन्- डाइऑक्साइड -[ अङ्गाराम्लवायुः ], पर्यावरणे मिश्रीयते । औद्योगिक कारणैः विविध वाहनैः च उत्सर्जितस्य धूम्रस्य पर्यावरणे सञ्जायमानं सम्मिश्रणं हि जलवायुं पर्यावरणञ्च दूषयति । पृथ्वी-जल-तेजोवायु-आकाशेति पञ्चमहाभूतानि अस्मान् परितः प्रवर्तन्ते । एतेषां पञ्च महाभूतानां समवायः एव परिसरः आहोस्वित् 'पर्यावरणम्' इति पदेन व्यवह्नीयते । एवमपि अवगन्तुं शक्यते यत् मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति, तत्सर्व पर्यावरणम् इति शब्देन अभिधीयते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्व मलिनं दूषितं च दृश्यत भौतिक पर्यावरण प्रकृत्या प्रदत्तं प्राणतत्त्वं रक्षा कवचं च वर्तते । जीवमात्रस्य विकासाय पर्यावरणशुद्धिः आवश्यकी वर्तते । एवमपि अवगन्तुं शक्यते यत् "परितः आवृणोतीति पर्यावरणम् । अस्मान् परितः भूमण्डलं जलराशिः वायुवृत्तं तेजोमण्डलं नभोमण्डलं चेति पञ्चमण्डलानि सन्ति । एतेषां प्रभावेण ऋतुचक्रं प्रवर्तते ।