सदाशिव ब्रहमेन्द्रा:
सदाशिव ब्रहमेन्द्रा: सन्त:, कर्नाटकवागेयकार:, अद्वैत आचार्या: च आसन् । क्रि.श अष्टादश शताब्दे तमिळनाडु राज्यस्य भास्करक्षेत्रे (कुम्भकोणम् ) निवसति स्म । तेषां केचन कृतय: उपलब्धा: , ये कर्नाटकसङ्गीतस्य महान् कृतिषु परिगणित: ।
जीवनम्
[सम्पादयतु]सदाशिव: तेलुगु भाषीयाणां ब्राह्मण परिवारे मोक्षसोमसुन्दर अवधानि पार्वती दम्पत्यो: पुत्रत्वेन अजायत । तस्य जन्मनाम शिवरामकृष्ण: आसीत् । १७ वयसि तस्य विवाह: कारित: । सदाशिव: दक्षिणभारतस्य तमिळनाडु राज्यस्य भास्करक्षेत्रे निवसति स्म । तदनन्तरं संस्कृतम् , वेदान् अधीतुं कर्कटक्षेत्रम् ( तिरुविसनल्लुर्) अगच्छति स्म । तस्य समकालीनौ श्रीधर अय्यावाल् तथा काञ्ची कामकोटिपीठस्य श्री भगवन्नामबोधेन्द्रा: च तत्रैव समीपे निवसन्तौ स्म ।
सत्यस्य अन्वेषणे शिवरामकृष्ण: गृहं परित्यक्तवान् । श्री परमशिवेन्द्र सरस्वती स्वामीनाम् शिष्य: अभवत् । आत्मविचारनिरत: गुरो: सकाशात् महावाक्योपदेशं प्राप्नोति स्म । सन्यासं स्वीकृत्य सर्वत्र दिगम्बरं परिभ्रमति स्म परमानन्द निमग्न: । अन्तर्मुखध्यान तपोनिरत: च आसीत् । जीवनकालों बहव: चमत्कारा: कृतवान् । “आटोबैयोग्राफि आफ ए योगि “ इति परमहंसयोगानन्दस्य आत्मकथा पुस्तके अस्य समाधे: वर्णनम् अस्ति ।
कावेर्या: तटे महाधनपुरे यदा केचन बालका: हालास्यक्षेत्रं (मदुरै) द्रष्टुम् इच्छां प्रस्तावयन्ति स्म तथा स्वतपश्शक्त्या तान् स्वयं च हालास्यक्षेत्रं प्राप्तवान् चैत्रमहोत्सवं दरशयितुं । स: “आत्मविद्या विलास:” इति अद्वैतसिद्धान्तग्रन्थं रचितवान् ।
एकदा तन्डुलौघे विश्राम: करोति स्म तदा ध्यानं कर्तुं अरभते । क्षेत्रस्य स्वामि: एनम् दृष्टिवा एष: तस्कर: इति मत्वा तं उत्थापितवान् । यदा स: किमपि प्रत्यभाषति तथा तं मारयितुं दण्डं ग्रहीतवान् कृषक: शिलाम् अभवत् । श्व: यदा ध्यानं सम्पूर्णम् अभवत् सदाशिव ब्रह्मेन्द्रा: तं पुन: चैतन्ययुक्तं अकरोत् । स: कृषक: स्वामिन: पादारविन्दौ क्षमां प्रार्थितवान् ।
तथैव एकदा यदा पूज्या: कावेरी तटे ध्यानमगना: आसन् तदा नद्या: प्रवाहे भूमौ अन्तर्गता: । क्वचित् कालानन्तरं यदा ग्रामस्था: तस्मिन् प्रदेशे खननम् कृतवन्त: तथा तै: दृष्ट: । तथा सदाशिव ब्रह्मेन्द्रा: यथा किमपि न अभवत् इव अन्यत्र गता: ।
आलय सेवा
[सम्पादयतु]सदाशिव ब्रहमेन्द्रा: नवसालपुर्या: (पुडुकोट्टै) राजानं मिलित्वा दक्षिणामूर्ति मन्त्रम् उपदिष्टवान् । स: मन्त्रं सैकते लिखितवान् । तत् सैकतम् अधुना राज्ञां वंशीयै: नवसालपुर्या: राजभवनस्य पूजामन्दिरे स्थापित: संपूजितश्च अस्ति ।
तन्जापुरस्य (तन्जावूर्) पुन्नैनल्लुर् मारियम्मन् देव्या: आलयस्य प्रतिष्ठाम् अकरोत् । तथैव देवदानपुरस्य (देवदानपट्टि) कामाक्षी देवालय निर्माणाय मार्गदर्शनम् अयच्छत् । स: तन्जापुरस्य महाराजाय सरस्वती महल् पुस्तकालयं प्रारब्धुं उपेदेशितवान् यत् अद्यपर्यन्तम् प्रचलन् अस्ति ।
स: गणेशयन्त्रेण गणपते: मूर्तिप्रितिष्ठापनम् श्रीनागेश्वरक्षेत्रे राहुस्थले (कुम्भकोणम्) अकरोत् । आलये विद्यमान: शिलाशासनम् अस्य प्रमाणं । अयं सन्निधि: अद्यापि देवालयस्य प्रवेशद्वारे दृष्यते ।
तस्य पञ्च समाधय: सन्ति -
- नेरूर् (तमिलनाडु)
- मनमदुरै ( सोमनाथ देवालये)
- पुरि
- काशी
- कराची
दक्षिणाम्नाय श्रृङ्गेरी पीठस्य पीठाधिपतय: श्री सच्चिदानन्द शिवाभिनव नृसिंह भारती आचार्या: नेरूरस्थं सदाशिव ब्रहमेन्द्राणाम् अधिष्ठानं गत्वा सदाशिव ब्रहमेन्द्राणां उपरि सतोत्रद्वयस्य रचनां कृतवन्त: ( सदाशिवेन्द्र स्तव: सदाशिवेन्द्र पञ्रत्नम् च) ।
सदाशिव ब्रहमेन्द्राणां जीवनकथा “ येनिपदिगलिल् मन्दर्गल्” इति पुस्तके सिवन् सार् वर्येण विरचितम् । तमिल् लेखक: बालकुमारन् “तोळन्” इति कथा विरचिता ।
कृतय:
[सम्पादयतु]- ब्रह्मसूत्र-वृत्ति: ( ब्रह्मसूत्र भाष्यं)
- योगसुधाकर: ( पतञ्जलिनां योगसूत्रेभ्य: भाष्यं)
- सिद्धान्तकल्पवल्ली
- अद्वैतरसमञ्जरी
- कैवल्य अमृत बिन्दु ( उपनिषदां विषयात्मकं )
- आत्मविद्याविलास:
- शिवमानसपूजा
- दक्षिणामूर्ति ध्यानम्
- स्वप्नोदितम्
- नवमणिमाला
- नवावर्णरत्नमाला
- स्वनुभूति प्रकाशिका
- मनो नियमन
- परमहंसचर्या
- शिवयोगदिपीका
- बोधार्य प्रकरण
- सूतसंहिता संग्रह:
- मनीषपञचक व्याख्यानम् ( तात्पर्यदीपिका)
(कृतय: ये न प्रकाशिता:)
- केसरवल्ली
- भागवतसार
- सपर्य पर्याय स्तव:
- आत्मानात्मविवेक प्रकाशिका
- गीता रत्नमाला ( भगवत्गीता व्याख्यानम्)
- मीमांसाशास्त्रगुचछा-पूर्वमिमांसाधिकरणसंक्षेप:
कर्नाटकसङ्गीत कृतय:
[सम्पादयतु]- आनन्दपूर्णबोधोऽहम् सच्चिदानन्द ( शङ्कराभरणम् )
- आनन्दपूर्णबोधोऽहम् सततम् ( मध्यमवती)
- भजरे गोपालम् (हिन्दोलम्)
- भजरे रघुवीरम् ( कल्याणी )
- भजरे यदुनाथम् ( पीलु)
- ब्रह्मैवाहम् ( नादनामक्रिया)
- ब्रूहि मुकुन्देति (गौळ)
- चेत: श्रीरामम् ( द्विजवन्ती / सुरति )
- चिन्ता नास्ति किल ( नव्रोज्)
- गायति वनमाली(गवति /यमुनाकल्याणी )
- खेलति ब्रह्मन्दे ( सिन्धुभैरवी)
- खेलति मम हृदये ( अतना)
- क्रीडति वनमाली (सिन्धुभैरवी)
- कृष्णा पाहि ( मध्यमवती)
- मानस सञ्चर रे ( साम)
- नहि रे नहि रे ( गवति )
- पिब रे रामरसं ( यमुनाकल्याणी)
- पूर्ण बोधोऽहम् (कल्याणी)
- प्रतिवारम् वारम् ( तोडि)
- सर्वं ब्रह्ममयम् ( मिश्र शिवरञ्जनी)
- स्मरवारम् ( सिन्धुभैरवी)
- स्थिरथ नहि नहिरे ( अमृतवर्षिणि )
- तत्वत् जीवितम् ( कीरवाणि)
- तुङ्ग तरङ्गे गङ्गे ( हंसध्वनि)