समाजधर्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



एतावत्कालपर्यन्तम् अस्माभिः सामान्यधर्माणां नाम सर्वेषां कृते उपदिष्टानां जीवनोन्नतिकारकाणां गुणानां विवेचनं कृतम् । अथ विशिष्ट जनानां कृते विहितानां कर्तव्यानां चर्चां करिष्यामः । अस्मिन् सन्दर्भे धर्मशब्दः कर्तव्यम् इत्यर्थेन प्रयुज्यते । विशेषधर्माः अपि द्विप्रकारकाः भवितुम् अर्हन्ति –

समाजधर्माः[सम्पादयतु]

हिन्दूनां धर्मः समाजजीवने प्रत्येकस्य कृते नानाविधानि विशिष्टस्वरुपाणि कर्तव्यानि उपदिशति । तेषां पालनविषये च साग्रहो वर्तते । तदनुसारं शास्त्रकारैः प्रत्येकस्य जीवने विविधभूमिकासु व्यवहारे विभिन्नानि कर्तव्यानि निर्दिष्टानि । एवं प्रत्येकः स्वजीवने वर्णधर्मः आश्रमधर्मः जातिधर्मः कुलधर्मः इत्यादिरुपेण विविधकर्तव्यानि निर्वहति । आप्तसंबन्धेन अपि तस्य विभिन्नानि कर्तव्यानि विद्यन्ते । तथा पितृधर्मः पुत्रधर्मः भ्रातृधर्मः इत्यादीनि । तथैव सामाजिकव्यवहारे भिन्नभिन्नरुपेण ये परस्परसम्बन्धाः आयान्ति तान् अधिकृत्य अपि कर्तव्यानि निर्दिश्यन्ते । यथा स्वामिधर्मः सेवकधर्मः इत्यादीनि । एतेषु कर्तव्येषु कानिचित् कर्तव्यानि स्मृत्यादिषु उपवर्णितानि सन्ति कानिचित् अलिखितानि तिष्ठन्ति । रामायण-महाभारत-पुराणादिषु महापुरुषैः विशिष्ट-परिस्थित्यां कीदृशः व्यवहारः कृतः तद् वीक्ष्य तेषाम् अनुकरणम् क्रियते । तच्च मौखिकरुपेणा परम्परां श्रुत्वा अनुष्ठीयते । वर्णाश्रमधर्माणां माहात्म्यात् तेषां विवेचनं स्वतन्त्ररुपेण अग्रे क्रियते । बहुवारं दुर्भिक्षं राज्यक्रान्तिः इत्यादिभिः आकस्मिककारणैः वर्णाश्रमादिधर्माणां यथोपदिष्टं पालनम् अशक्यं भवति । अस्यां परिस्थित्यां विहितधर्मेभ्यः भिन्नम् आचरणं कर्तुं यदा मनुष्यः अनिच्छन्नपि प्रवृत्तो भवति तदा आपध्दर्मः इति संज्ञां दत्त्वा तथाचरणे सः अनुमतः शास्रकारैः । यदा पूर्ववत् स्थितिः जायते तदा पुनरपि स्वस्य यथाविहितधर्मस्य पालनं तेन पूर्ववत् कर्तव्यम् इति अपेक्ष्यते । धर्मशब्दः संस्कृतभाषायां गुणधर्मः स्वभावः वा इत्यर्थेऽपि प्रयुज्यते ।यथा उष्णता धर्मः अस्ति अग्नेः शौत्यं हि यत्सा प्रकृतिर्जलस्य । अथवा निम्नमार्गेणा गमनं धर्मः जलप्रवाहस्य । इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समाजधर्मः&oldid=419427" इत्यस्माद् पुनः प्राप्तिः