सात्वतीवृत्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



ईषत्प्रौढार्थसन्दर्भयुक्ता वृत्तिस्सात्त्वती । ईषत्प्रौढयोः वीरभयानकयोर्विषये वृत्तिरियं प्रयोज्या भवति । एषा हर्षातिशयसंवलिता, सात्विकाभिनयभूयिष्ठा च विराजते । यथा –

दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र
प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशाः
त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सात्वतीवृत्तिः&oldid=419435" इत्यस्माद् प्रतिप्राप्तम्