सुडुगाडुसिद्धजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सुडुगाडुसिद्धजनाङ्गस्य मूलम्[सम्पादयतु]

एते अधिकतया बिजापुरमण्डले, बळ्ळारीमण्डले, शिवमोग्गामण्डले, हासनमण्डले, चिक्कमगळूरुमण्डले, धारवाडमण्डले च दृश्यन्ते । आन्ध्रप्रदेशतः आगताः एते सञ्चारिजनाः । सद्यःकाले एते अटनं त्यक्त्वा निर्दिष्टस्थानेषु कुटीरं निर्माय वसन्तः सन्ति । फलचयकाले एते ग्रामतः ग्रामं गच्छन्तः तत्र तत्र पटगृहं निर्माय तिष्ठन्ति । एतेषां जनसङ्ख्या सामान्यतः विंशतिसहस्रम् इति ऊहितमस्ति ।

सुडुगाडुसिद्धजनाङ्गस्य प्रमुखा वृत्तिः[सम्पादयतु]

श्मशानस्य अधिपतयः सिद्धाः शवसंस्कारार्थम् आगतैः दानं स्वीकुर्वन्ति । एतस्य दानस्वीकरणस्य अनुमतिः उपमण्डलस्य धर्माधिकारिभिः अथवा श्रीशैलगुरुभिः दीयते । एतदर्थं ते प्रतिवर्षं श्रीशैलपीठाय १०१ रूप्यकाणि समर्पयन्ति इति । शवसंस्कारार्थम् आगतैः अन्यान्यजातिवर्गस्य जनैः एते विभिन्नदानं स्वीकुर्वन्ति । स्वामिनः मरणसंस्कारः चेत् धेनुः, लिङ्गायकुलीयः चेत् २५ रूप्यकाणि, अनाथः चेत् निश्शुल्कम् एवं रीत्या दानस्वीकरणम् अस्ति । सुडुगाडु(श्मशान)सिद्धाः मूलतः शैवाः । वीरभद्रः तेषां विशिष्टः देवः । ‘गङ्गम्म’ देवतां स्त्रियः पूजयन्ति ।