सुवदना
दिखावट
सुवदना।
प्रतिचरणम् अक्षरसङ्ख्या २०
ज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना। केदारभट्टकृत- वृत्तरत्नाकर:३.१००
ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ऽ।। ।ऽ
म र भ न य भ ल ग।
यति: सप्तभि: सप्तभि: षड्भि: च।
उदाहरणम् -
भूतानामीश्वरोऽहं न जननमरणं मे पार्थ तदपि,
धर्मग्लानिस्तथा स्याद्यदि बलवदधर्मो जन्म विदधे।
सद्रक्षां चैव कर्तुं खलदलमथनं धर्मस्य रचनां,
दिव्यं यो वेत्ति कर्मापि च मम जननं प्राप्नोति स च माम्॥