स्वामिनारायणदर्शनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


स्वामिनारायणसम्प्रदायापरनाम्ना प्रसिद्धं दर्शनमिदमधुना विश्वविततमस्ति । भगवता स्वामिनारायणेन प्रवर्तितं दर्शनमिदं शतकद्वयादारभ्य जगतितले वर्तते । गुर्जरदेशे विशेषेण दर्शनस्यास्य अनुयायिनः सन्ति । स्वामिनारायणेन भगवता श्रृतिस्मृतितर्कबलानुगृहितं जीवेशमायाब्रह्मपरब्रह्मेति पञ्चतत्त्वप्रतिपादनपूर्वकं स्थापितमिदं दर्शनम् । भगवत्स्वामिनारायणस्य निरूपानुसारेण आचार्येण महामहोपाध्यायेन वेदान्तमार्तण्डेन दर्शनकेसरिना स्वामिभद्रेशदासेन प्रमुखस्वामिमहाराजशिष्येण प्रस्थानत्रयीम् आधारीकृत्य स्वामिनारायणभाष्यं लिखितम्। तत्र जीवः ईश्वरः माया ब्रह्म परब्रह्म इति पञ्चतत्त्वानां निरूपणं याथार्थ्येन कृतम्। अक्षरब्रह्मण ईश्वरस्य च निरूपणं सम्प्रदायस्यास्य वैशिष्ट्यं वर्तते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्वामिनारायणदर्शनम्&oldid=436370" इत्यस्माद् प्रतिप्राप्तम्