हगलुवेषजनाङ्गः
रायिचूर् |
---|
हगलुवेष | |
---|---|
हगलुवेष |
हगलुवेष |
---|
हगलुवेषजनाङ्गीयानां स्थानानि
[सम्पादयतु]रायचूरुमण्डलस्य गङ्गावती, यलबुर्गा, मान्वी, बळ्ळारीमण्डलस्य सिरगुप्प, सण्डूरु, होसपेटे, हगरीबोम्मनहळ्ळी, चित्रदुर्गमण्डलस्य चळ्ळकेरे, हिरियूरु, मोळकाल्मूरु, तुमकूरुमण्डलस्य मधुगिरिः, कोरटगेरे, पावगड, कोलारमण्डलस्य चिक्कबळ्ळापुर, गौरीबिदनूरु, गुडिबण्डे, मालूरु, शिड्लघट्ट, चिन्तामणि इत्यादिषु प्रदेशेषु हगलुवेषजनाः दृश्यन्ते ।
हगलुवेषजनाङ्गीयानां कुलवृत्तिः
[सम्पादयतु]एते भिक्षाटनया, मृगयया, पशुपालनेन च अहारसङ्ग्रहणं कुर्वन्ति । पुरुषाः दिने विभिन्नवेषं धृत्वा गृहं गृहं गत्त्वा कलात्मकतया प्रदर्शनं कृत्वा यदा कुटीरं प्रति प्रत्यागच्छन्ति तदा महिलाः भिक्षायाचनेन आहारसङ्ग्रहणं कुर्वन्ति । वेषं धृत्वा ग्रामे अटन्तः पुरुषाः वेषस्य निष्कासनपर्यन्तं मध्ये कदापि आहारं न स्वीकुर्वन्ति । एतेषां पूर्वजाः प्रातःकाले पर्युषितं खादित्वा वेषं धरन्ति चेत् तस्य निष्कासनपर्यन्तं कमपिमपि आहारं न स्वीकुर्वन्ति स्म इति । वेषान् धृत्वा त्रीणिदिनानि, पञ्चदिनानि, सप्तदिनानि, नवदिनानि एवं कदाचित् निर्दिष्ट-अवधिं यावत् ग्रामान् अटन्ति । प्रतिदिनं अन्यान्यवेषान् धृत्वा गृहं गृहं गत्वा अङ्गणे प्रदर्शनं कृत्वा आगच्छन्ति । अन्ते धनं, प्राचीनवस्त्रं, धान्यं, कुक्कुटं च पृष्ट्वा स्वीकुर्वन्ति । किन्तु कदापि एते पक्वं कृतम् आहारं न स्वीकुर्वन्ति । एते स्वान् बुड्गजङ्गालु, बुड्गजङ्गं, जङ्गालु इत्यादि नाम्ना परिचाययन्ति । एतेषु ११० गोत्राणि सन्ति । एतेषां भाषायां तेलुगुभाषायाः प्रभावः अधिकः अस्ति ।