हरगोविन्द खुराना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हरगोविन्द खुराना
जननम् (१९२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०९)९ १९२२
Raipur, Punjab, British India
मरणम् ९ २०११(२०११-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०९) (आयुः ८९)
Concord, Massachusetts, U.S.
वासस्थानम् India, United States, United Kingdom
नागरीकता United States[१]
कार्यक्षेत्राणि Molecular biology
संस्थाः MIT (1970–2007)
University of Wisconsin, Madison (1960–70)
University of British Columbia (1952–60)
Cambridge University (1950–52)
Swiss Federal Institute of Technology, Zurich (1948–49)
मातृसंस्थाः University of the Punjab
University of Liverpool
विषयेषु प्रसिद्धः First to demonstrate the role of nucleotides in protein synthesis
प्रमुखाः प्रशस्तयः Nobel Prize in Medicine (1968), Gairdner Foundation International Award, Louisa Gross Horwitz Prize, Albert Lasker Award for Basic Medical Research, Padma Vibhushan
धर्मः Hinduism


अयं हरगोविन्द खोरानः(कालः – ०९. ०१. १९२२ तः ०९. ११. २०११) (Haragobinad Khorana) सुप्रसिद्धः विज्ञानी,नोबेल्–पुरस्कृतः चापि । भारतस्य मध्यप्रदेशराज्यस्य मुल्तान्–मण्डल्स्य रायपुरे १९२२ वर्षे जनवरिमासस्य ९ दिनाङ्के जन्म प्राप्नोत् । सः यदा मुल्तानस्थायां डि. ए. बि. प्रौढशालायाम् अध्ययनं करोति स्म तदा तस्य शिक्षकाः सर्वे तं "कोमलस्वभाववान् बुद्धिमान् बालः” इति प्रशंसन्ति स्म । तस्य हरगोविन्द खोरानस्य १२ वर्षे वयसि पिता लालागणपतरायः दिवं गतः । तदनन्तरं माता एव तं पालितवती । सः १९४५ तमे वर्षे पञ्जाब्–विश्वविद्यालयतः एम्.एस्सि–पदवीं प्राप्य अर्देशिर्–दलाल्–योजनायाः अनुगुणम् अग्रिमस्य अध्ययनस्य निमित्तं १९४६ तमे वर्षे अमेरिकां प्रति अगच्छत् । अनन्तरम् इङ्ग्लेण्ड्देशं गत्वा तत्रत्यात् लिवर्-पूल्–विश्वविद्यालयात् पि. एच्. डी पदवीम् अपि आप्नोत् । शिक्षणस्य अनन्तरं केम्ब्रिड्ज्–विश्वविद्यालये उद्योगम् अकरोत् । १९५० – १९५२ कालावधौ अलेक्साण्डर् टाड् इत्यनेन सह जीवरसायनविज्ञाने संशोधनम् अकरोत् । ततः ब्रिटिश्–कोलम्बियां गत्वा १९५२ तः १९५९ पर्यन्तं सावयव–रसायनविज्ञानस्य सहप्राध्यापकरूपेण कार्यम् अकरोत् ।

संशोधनम् उपलब्धिः[सम्पादयतु]

१९६० दशके अस्य हरगोविन्द खोरानस्य संशोधनानां निमित्तं सम्पूर्णः सहकारः अवसरः प्राप्तः । १९६२ तः १९७० पर्यन्तं सः अमेरिकादेशस्य विस्कान्सिन् विश्वविद्यालये जीवरसायनविज्ञानस्य प्राध्यापकरूपेण तथा एन्जैन्–संशोधन–संस्थायाः सहनिदेशकरूपेण चापि नियुक्तः । तत्रैव सः आनुवंशस्य संशोधनम् अकरोत् । आनुवंशिकानि लक्षणानि एकस्याः वंशश्रेणीतः अन्यां वंशश्रेणीं प्रति नयन्ति कोशिकाबीजे विद्यमानं न्यूक्लियिक्–आम्लम् (डि एन् ए) । तस्मिन् कार्ये आर् एन् ए (रैबोस् न्यूक्लियिक् आसिड्) अपि साहाय्यं करोति । "फ्रोटीन्–संश्लेषणे डि एन् ए (डी आक्सिरैबोस् न्यूक्लियिक् आसिड्) कथं सूचनां ददाति ?” इति विषये एव सः हरगोविन्द खोरानः संशोधनम् अकरोत् । तदवसरे एव मार्षल् नीरेन् बर्ग् तथा राबर्ट् होल्लि अपि तद्विस्षये पृथक् पृथक् एव संशोधनं कृतवन्तौ । त्रयः अपि समानकाले एव उत्तरं प्राप्तवन्तः । तदर्थं १९६८ तमे वर्षे वैद्यविज्ञाने तथा शरीरविज्ञाने च त्रिभिः अपि नोबेल्–पुरस्कारः प्राप्तः ।

वृत्तिजीवनम्[सम्पादयतु]

अयं हरगोविन्द खोरानः १९७० तमे वर्षे अमेरिका–संयुक्त–संस्थानस्य केम्ब्रिड्ज्–स्थितायां " म्यासाचुसेट्स् तन्त्रज्ञान–संस्थायां” जीवविज्ञानस्य तथा रसायनविज्ञानस्य प्राध्यापकरूपेण नियुक्तः । तदवसरे एव वाषिङ्ग्ट्न्–नगरस्य "राष्ट्रियविज्ञान-अकादम्याः” तथा "अमेरिकन् असोसियेषन् फार् दि अड्वान्समेण्ट् आफ् सैन्सस्” संस्थायाः च सदस्यरूपेण नियुक्तः । १९७१ तमे वर्षे यु एस् एस् आर् (यूनियन् आफ् सोवियत् सोषियलिस्ट् रिपब्लिक्) इत्यस्य विज्ञान–अकादम्याः विदेशीसदस्यत्वेन नियुक्तः । १९७४ तमे वर्षे "भारतीयरसायनसमाजस्य" (Indian Chemical Sosciety) आननरिफेलोरूपेण अपि चितः । अयं हरगोविन्द खोरानः १९७० तमस्य वर्षस्य जून्–मासस्य प्रथमे सप्ताहे ७७ न्यूक्लियोटैड्–युक्तस्य यीस्ट् नामकस्य जीविनः रासायनिकं संश्लेषणं कृत्वा जीवोत्पादनस्य लक्ष्यं प्रति अन्यम् एकं दृढं पदं न्यस्तवान् । सा तस्य जीवनस्य चरित्रात्मिका घटना इत्यपि उच्यते । तस्य रासायनिकस्य संश्लेषणस्य कारणतः आनुवंशिकानां रोगाणं निवारणस्य महत्त्वभूते क्षेत्रे संशोधनानि आरब्धानि । कृतकानं जीविनां सृष्टौ अपि तत् आर् एन् ए इत्यस्य रासायनिकं संश्लेषणं साहायकम् अभवत् । सः हरगोविन्द खोरानः १९५२ तमे वर्षे स्विड्जर्ल्याण्ड्देशस्थाम् एस्तर् नामिकाम् ऊढवान् । तस्य त्रीणि अपत्यानि अपि सन्ति । अयं २०११ वर्षे नवेम्बरमासस्य ९ दिनाङ्के इहलोकम् अत्यजत् ।

टिप्पणी[सम्पादयतु]

  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; brit इत्यस्य आधारः अज्ञातः
"https://sa.wikipedia.org/w/index.php?title=हरगोविन्द_खुराना&oldid=473323" इत्यस्माद् प्रतिप्राप्तम्