सामग्री पर जाएँ

सुब्रह्मण्यन् चन्द्रशेखर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सुब्रह्मण्यन् चन्द्रशेखरः इत्यस्मात् पुनर्निर्दिष्टम्)
सुब्रह्मण्यन् चन्द्रशेखरः
सुब्रह्मण्यन् चन्द्रशेखरः
जननम् क्रि.श. १९१०तमवर्षस्य अक्टोबर्मासस्य १९तमदिनम् ।
लाहोर्म्, स्वातन्त्र्यपूर्वभारतम्
मरणम् क्रि.श. १९९५ आगस्ट्माससय् २१तमदिनम् ।
चिकागो, इलिनोय्, यु.एस्.ए.
वासस्थानम् यु.एस्.ए.
देशीयता भारतीयः
कार्यक्षेत्राणि भौतविज्ञानी ।
संस्थाः केम्ब्रिज़्विश्वविद्यालयः
चिकागोविश्वविद्यालयः
मातृसंस्थाः प्रेसिडेन्सिमहाविद्यालयः चेन्नै ।
केम्ब्रिज़्विश्वविद्यालयः
संशोधनमार्गदर्शी आर्.एच्.पौलर् ।
शोधच्छात्राः रुस्सेल् कुल्स्रड्
नार्मन् लेबोविट्स्
गिडो मुएञ्च् पानिआगुआ ।
विषयेषु प्रसिद्धः चन्द्रशेखर् मिति ।
प्रमुखाः प्रशस्तयः भौतशाश्त्रे नोबेल् प्रशस्तिः ।


सुब्रह्मण्यन् चन्द्रशेखर: भारतमूलः अमेरिकादेशे नोबेल् प्रशस्तिभाक् भौतविज्ञानी । मित्राणि सर्वे तं चन्दः इत्येव सम्बोधयन्ति स्म । क्रि.श. १९५५तमे वर्षे डा.चन्द्रः अमेरिकादेशस्य विल्लि पौलर् च मिलित्वा नोबेल् प्रशस्तिभाजौ अभवताम् । विश्वस्य श्रेष्ठः विज्ञानलेखकः आर्थर् मिल्लर् एषः कश्चित् खभौतविज्ञानि नक्षत्रलोकस्य अनभिषिक्तसाम्राट् इति अवदत् ।

बाल्यं शिक्षा च

[सम्पादयतु]

एषः नोबेल् प्रशस्तिभाजः सर्.चन्द्रशेखर वेङ्कटारमन्वर्यस्य निकटबन्धुः । अस्य जननं क्रि.श.१९१०तमवर्षस्य अक्टोबर् मासस्य १९तमे दिने प्राचीनभारतस्य लाहोर् नगरे अभवत् । अस्य पिता सुब्रह्मण्य अय्यरः भारतीयरेल्वे विभागे आडिटर् जनरल् इति कार्यं करोति स्म । पिता उद्योगस्थानान्तरेण चेन्नैनगरम् आगतवान् । अतः चन्द्रशेखरः तत्र ट्रिप्लिकेन् हिन्दुप्रौढशालां प्रविष्टवान् । एषः गणितविशये अप्रतिमप्रतिभासम्पनः अनुपमस्मरणशक्तिमान् आसीत् । एतयोः रत्नप्राया विज्ञानविषेये अतीव श्रद्धा । क्रि.शा. १९२५तमे वर्षे प्रेसिडेन्सी महाविद्यालयं प्रविश्य भौतविज्ञानम् ऐच्छिकविषयत्वेन स्वीकृतवान् । क्रि.श. १९३०तमे वर्षे पदवीधरः अभवत् । आङ्ग्लभाषासाहित्ये तत्रापि विक्टोरियन् कालस्य आङ्ग्लसाहित्ये विशेषतया आसक्तः आसीत् । तत्कालीनानाम् आङ्ग्लभाषापण्डितानां साहित्यं सम्यक् अध्ययनं कृतवान् । स्वस्य वैज्ञानिके साहित्ये अपि आङ्ग्लभाषासाहित्यसौन्दर्यं रक्षितवान् । तदानीन्तनकालस्य नोबेल् प्रशस्तिभाक् ह्यान्स् बेत् एवम् अवदत्... चन्द्रवर्यस्य लेखनं नाम विक्टोरियन् युगस्य सौन्दर्याणां राशिः अस्य लेखने सम्मिलितं भवति इति । चन्द्रशेखरः छात्रत्वकाले एव वैज्ञानिकविषान् आधृत्य प्रबन्धान् रचितवान् ।

विवाहः

[सम्पादयतु]

मद्रास् नगरस्य प्रेसिडेन्सीमहाविद्यालये अध्ययनकाले एकवर्षनिम्नकक्ष्यायां पठन्त्याः शोधच्छात्रायाः ललिता दोरेस्वामी इत्यस्याः परिचय अभवत् । तयोः कालक्रमेण अनुरागः उत्पन्नः पतिपत्नी अभवताम् ।

संशोधनम् उपन्यासः च

[सम्पादयतु]

क्रि.श. १९३०तमवर्षस्य मे मासे इङ्ग्लेण्डनगरे संशोधनं कर्तुं भारतसर्वकारः विद्यार्थिप्रोत्साहधनम् अयच्छत् । अनेन चन्द्रशेखरः केम्ब्रिज़् विश्वविद्यालये शोधच्छात्रः अभवत् । क्रि.श. १९३१तमे वर्षे मे मासे लण्डन् नगरस्य रायल् अस्ट्रानामिकल् सोसैटि इति सङ्घटनस्य सभायां भागी सन् स्वप्रबन्धान् प्रस्तुतवान् । क्रि.श. १९३१तमे वर्षे जुलै मासे जर्मनदेशं गत्वा वर्गनियमः, क्वाण्टम् मेक्यानिक्स्, नक्षत्राध्ययनम्, इत्यादिषु विषयेषु संशोधनं कृतवान् । क्रि.श. १९३२तमे वर्षे जनवरि मासे आदर्शद्युतिगोलः इति विषयमधिकृत्य रायल् अस्ट्रनामिकल् सोसैटि इत्यत्र विशिष्टं प्रबन्धं प्रस्तुत्य एडिङ्ग्टन् तथा मिल्स् इत्यादीनां प्रशंसां प्राप्तवान् । बेल्जियं लीड् विश्वविद्यानिलये खभौतशास्त्रे कृताः उपन्यासमालिका ग्रन्थरुपम् आप्नोत् ।

श्वेतकुब्जस्य वर्णनम्

[सम्पादयतु]

क्रि.श. १९३४तमे वर्षे श्वेतकुब्जानि (White Dwarf) तथा मितराशिः अधिकृत्य रशियादेशस्य पुल्कोवो ग्रहवीक्षणालये उपन्यस्तवान् । श्वेतकुब्जानां विषये तस्य संशोधनं क्रि.श. १९४४तमवर्षात् परं पुरस्कारम् आनयत् । नक्षत्रेषु विद्यमनस्य जलजनकस्य यथा यथा क्षीयते तथा तथा तेषां स्थानेषु १:४अनुपातेन हीलियं रूपमाप्नोति । तेन नक्षत्राणि क्षीनानि भवन्ति । अतः द्रव्यराशिः स्थिरा भूत्वा सान्द्रता वर्धिता नक्षत्रे निपीडनम् अधिकं भवति । अस्य फलरूपेण परमाणोः व्यवस्था बलहीना सती एलेक्ट्रान् तथा न्यूक्लियस् पृथक् भवतः । एषा प्रक्रिया अनुवृत्य श्वेतकुब्जानि निरूपितानि भवन्ति । नक्षत्राणां भारः वृद्धः चेदपि तदन्तर्गता द्रव्यराशिः परिमितौ भवति । तादृशं नक्षत्रं सूर्यस्य १.४४तः अधिकं न भवति इति चन्द्रशेखः प्रतिपादितवान् । यस्य कस्यापि नक्षत्रस्य द्रव्यराशिः एतस्मान् नियमात् अधिकं भवति चेत् तदा विस्फोटनेन किञ्चिद्भागं विसृज्य श्वेतकुब्जं भवति इति चन्द्रशेखरस्य विवरणम् । किन्तु कस्यचिदपि श्वेतकुब्जस्य द्रव्यराशिः १.४४मानात् अधिका न भवति । एतां मितिम् एव चन्द्रशेखरस्य मितिः इति कथयन्ति । चन्द्रशेखरः एतां मिति गणितस्य सङ्गणनेन एव आविष्कृतवान् । अनया मित्याः अधिकं विकस्यमानानि नक्षत्राणि अणुप्रस्फोटाः इव् विस्फोट्य सूपर् नोवा इति जाज्वल्यमनं नक्षत्रं भवति ।

प्राध्यपकः संशोधकः

[सम्पादयतु]

अमेरिकासंयुक्तसंस्थानस्य विस्कान्सिन् इति स्थानस्य येर्क्स् बाह्याकाशनिरीक्षणालये संशोधनसंयोजकत्वेन उद्योगं कर्तुं चन्द्रशेखरः आमन्त्रणम् आप्नोत् । येर्क्स् इति स्थाने विश्वस्य अत्यन्तं बृहत् वक्रीभवदूरदर्शकम् आसीत् । अत्र चन्द्रशेखरः बहुशः २७ वर्षाणि सेवामकरोत् । अध्यपकवृत्त्या सह शोधकार्यमपि समचलत् । क्रि.श. १९३८तमवर्षात् १९४४पर्यन्तं नक्षात्रचलनशास्त्रम्, चलनघर्षणम् इत्यादीनां विषये संशोधनम् अकरोत् । क्रि.श. १९४३तमे वर्षे तत्रैव प्राध्यापकः अभवत् । क्रि.श. १९५२तमवर्षतह् ७१पर्यन्तम् आस्ट्रोफिसिकल् जर्नल् इत्यस्याः पत्रिकायाः व्यवस्थापाकः सम्पादकः अभवत् ।

प्रशस्तिपुरस्काराः

[सम्पादयतु]

क्रि.श.१९४२तमवर्षम् - केम्ब्रिज़् विश्वविद्यालयस्य डि.एस्सि.पदवी ।

क्रि.श.१९४४ तमवर्षम् - इङ्ग्लेण्डस्य रायल् सोसैटि सदस्यत्वेन चयनम् ।

क्रि.श.१९५० तमवर्षम् - प्रकाशितस्य रेडियो एक्टिव् ट्रन्स्फर् इति ग्रन्थस्य केम्बिज़् विश्वविद्यालयस्य अत्युन्नतप्रशस्तिः आडम् पुरस्कारः ।

क्रि.श.१९५२ तमवर्षम् - ब्रूस् पदकप्राप्तिः ।

क्रि.श.१९५२ तमवर्षम् - रायल् अस्ट्रानामिकल् सोसैटि स्वर्णपदकप्राप्तिः ।

क्रि.श.१९५७ तमवर्षम्- रम्फर्ड् प्रशस्तिः ।

क्रि.श.१९६८ तमवर्षम् - भारतसर्वकारस्य पद्मभूषणप्रशस्तिः

क्रि.श. १९८२ - श्वेतकुब्जसंशोधनार्थं नोबेल् प्रशस्तिः

क्रि.श. १९४०तमवर्षात् क्रि.श. १९९५वर्षेषु कृताविष्काराः

[सम्पादयतु]

अस्मिन् समये डा.चन्द्रशेखरः नक्षत्राणां संरचनस्य विषये नूतनविषयान् उपहृतवान् । तस्य परिपूर्णतायाः दर्शनार्थं २०अधिकाः ग्रन्थाः शताधिकाः संशोधनलेखाः साक्षिणः भवन्ति । अत्यन्तम् उच्चस्तरस्य शिक्षकचन्द्रशेखस्य शिष्यसोमः अपि यशसि अग्रगण्याः अभवन् । डा.चन्द्रशेखरस्य मार्गदर्शनेन ५०अधिकाः छात्राः डाक्टरेट् पदवीम् आप्नुवन् । येर्क्स् संशोधनालये चन्द्रस्य शिष्यौ ली तथा याङ्ग् अग्रे क्रि.श. १९५७तमे वर्षे गुरोः पूर्वमेव कणभौतविज्ञाने संशोध्य नोबेल् प्रशस्तिं प्राप्तवन्तौ ।

अन्यरुचयः अन्तिमयात्रा च

[सम्पादयतु]

चन्द्रशेखरः प्रिन्सिपल्स् आफ् स्टेलार् डैनामिक्स् इति विशिष्टं ग्रन्थं लोकार्पितवान् । क्रि.श. १९८०तमे वर्षे स्वेच्छया कार्यात् विरतः संशोधनम् अन्ववर्तत । साहित्यासक्तः चन्द्रशेखरः अमेरिकादेशे वसन् अपि दक्षिणभारतस्य कच्छां कञ्चुकं च धरति स्म । कर्णाटकसङ्गीतं केवलं शृणोति स्म । ६५वर्षाणि निरन्तरं संशोधनरतः ड. सुब्रह्मण्यन् चन्द्रशेखरः क्रि.श. १९५५तमवर्षस्य अगस्ट् मासस्य २१तमदिनाङ्के रात्रौ इहलोकं त्यक्तवान् ।

जन्मशतमानोत्सवः

[सम्पादयतु]

क्रि.श. २०१०तमवर्षस्य अक्टोबर् मासस्य १९तमदिने विश्वे सर्वत्र सुब्रह्मण्यन् चन्द्रशेखरस्य १००तमः जन्मोत्सवः आचरितः । अनेकवारं चन्द्रशेखरः स्वजन्मदिनाङ्कसस्य विषये मित्रैः सह विस्मयं वितीर्णवान् । १९.१०.१९१० इति दिनाङ्कः अस्य जन्मदिनं भवति । क्रि.श. १९८३तमे वर्षे तस्य जन्मदिनोत्सवस्य उपायनरूपेण नोबेल् प्रशस्तिः प्रदत्ता ।

आविष्कारस्य विवरणम्

[सम्पादयतु]

1. An Introduction to the Study of Stellar Structure (1939, University of Chicago Press; reprinted by Dover Publications, Inc., 1967).

2(a). Principles of Stellar Dynamics (1943, University of Chicago Press; reprinted by Dover Publications, Inc., 1960).

2(b). 'Stochastic Problems in Physics and Astronomy', Reviews of Modern Physics, 15, 1 - 89 (1943); reprinted in Selected Papers on Noise and Stochastic Processes by Nelson Wax, Dover Publications, Inc., 1954.

3. Radiative Transfer (1950, Clarendon Press, Oxford; reprinted by Dover Publications, Inc., 1960).

4. Hydrodynamic and Hydromagnetic Stability (1961, Clarendon Press, Oxford; reprinted by Dover Publications, Inc., 1981).

5. Ellipsoidal Figures of Equilibrium (1968; Yale University Press).

6. The Mathematical Theory of Black Holes (1983, Clarendon Press, Oxford).

बाह्यनुबन्धाः

[सम्पादयतु]