हर्षवर्धनः
सः भारतस्य महाराजः आसीत्। सः संस्कृतनाटकानि अपि लिखितवान्। तानि रत्नावली, नागानन्दम् ,प्रियदर्शिका च। परन्तु, स नैषधीयचरितकर्ता श्रीहर्षः नास्ति। महाकविः बाणभट्टः अपि तस्य राजसभायाम् एव आसीत्।
हर्षः ३६८० तमे कलिवर्षे (आधुनिककालस्तु ६--७ शताब्दमध्यकालः भवेत्) श्रीकण्ठनाम्नि जनपदे स्थाण्वीश्वराख्ये नगरे प्रभाकरवर्धनो नाम राजा बभूव।तस्य यशोवत्यां राज्यवर्धनो हर्षवर्धन इति च द्वौ पुत्रौ,राज्यश्रीरित्येका कन्या चाजायन्त।तस्य जामातुः ग्रहवर्मणो हन्तारं मालवेश्वरं राज्यवर्धनो मारितवान्। कर्णसुवर्णपतिना गौडाधिपेन शशाङ्कनरेन्द्रगुप्तेन राज्यवर्धने निहते ३७१० तमे वर्षे हर्षवर्धनः सिंहासनमारूढवान्। अस्य शीलादित्य इति कुमारराज इति नामनी आस्ताम्।अनेन वीरेण गौडाधिपजयाय प्रस्थितेन कामरूपाधिपो भास्करवर्मा सख्यं कृतवान्।प्रतापे विदुषामादरणे च विक्रमार्कतुल्यः श्रीहर्षोऽभवत्।अनेन बुद्धमतमादृतमासीत्। कान्यकुब्जमपि(कनोज्) अस्य वशे स्थितम्। [१]
- ↑ श्री टि.गणपतिशास्त्रिणः भारतानुवर्णनात्