आत्मसंयमयोगः
अध्यायस्य सारः
[सम्पादयतु]श्रीमद्भगवदगीतायां ध्यानयोगस्यापि उपनिष्त्पद्धतेरनुसारं वैशद्येन वर्णनं प्राप्यते । अस्मिन् ध्यानयोगवर्णने श्वेताश्वतरस्योपनिषदः पूर्णः प्रभावो दृश्यते । गीतोक्तम्तानुसारेण मनः चञ्चलं भवति । अर्जुनो निवेदयति-“ चञ्चलं हि मनः कृष्णः प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्”॥ अर्थात् चञ्चलप्रकृतिवशात् मनसो वशीकरणम् अतिकठिनं वर्तते । भगवान श्रीकृष्णः मनोनिग्रहम् उद्दिश्य आसन-प्राणायाम्-प्रत्याहारादीनां योगसाधनानामुपदेशं प्रददौ !
ध्यानयोगेन चेतसः एकाग्रीकरणेन भगवदर्पणबुद्धिः समुदिते । प्राणायामादिभिरुपायैः विशुद्धमेव चित्तं भगवदाश्रयं लभते, नतु विषयपङ्केन कलुषितमिति विचारेण गीतायां भगवता श्रीकृष्णेनोपदिष्टं यत् योगी पुरुषः एकत्वभावनया सर्वभूतेषु विद्यमानं परमेश्वरं भजति । सः कस्यामपि अवस्थायां परमेश्वरेण सहैव निवसति । एवं ध्यानयोगस्य उपयोग एकाग्रेण चेतसा सर्वता विद्यमानस्य व्यापकस्य परमात्मनः भक्तावेव उचितोऽस्ति !
श्रीमद्भगवद्गीतायां योगिनः पदं तपस्वि-ज्ञानि कर्मयोगिभ्योऽपि श्रेष्ठं प्रतिपादितम् । योगिनां प्रकारद्वयं गीतायां निर्दिष्टम् युक्तो युक्ततम्श्च । ज्ञानविज्ञानाभ्यां तृप्तान्तः करणः, समदर्शी, जितेन्द्रियो विकाररहितश्च योगी युक्तसंज्ञो भवति, किन्तु युक्तयोगिषु अपि यः अन्तरात्मानं परमात्मनि निधाय श्रद्धया सततम् ईश्वरं भजति, स एअव् युक्ततमो भवति । यथोक्तम् –
- योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
- श्रद्धावान् भजते यो मां स मे युक्ततमोमतः ॥
गीतोक्तसिद्धान्तानुसारेण भगवतः श्रद्धया भजनं विना ध्यानयोगो मात्रं शारीरिकः व्यायामो भवति, शरीरकष्टायैव प्रवृत्तिः मात्रं तदवस्थायां स्वीकर्त्तुं शक्यते । अतः ध्यानेन सह भक्तेः सामञ्जस्यम् अत्यावश्यकं प्रतीयते ।
श्लोकानाम् आवलिः
[सम्पादयतु]- ६.१ अनाश्रितः कर्मफं...
- ६.२ यं सन्यासमिति...
- ६.३ आरुरुक्षोर्मिनेर्योगं...
- ६.४ यदा हि नेन्द्रियां...
- ६.५ उद्धरेदात्मनात्मानं...
भगवद्गीतायाः अध्यायाः |
---|
- ६.६ बन्धुरात्मात्मनः तस्य...
- ६.७ जितात्मानः प्रशां...
- ६.८ ज्ञानविज्ञानतृप्तात्मा...
- ६.९ सुहृन्मित्रार्युदासीनं...
- ६.१० योगी युञ्जीत...
- ६.११ शुचौ देशे प्रतिं...
- ६.१२ तत्रैकाग्रं मनः...
- ६.१३ समं कायशिरोग्री...
- ६.१४ प्रशान्तात्मा विगत...
- ६.१५ युञ्जन्नेवं सदा...
- ६.१६ नात्यश्नतस्तु...
- ६.१७ युक्ताहारविहार...
- ६.१८ यदा विनियतं चित्तं...
- ६.१९ यथा दीपो निवातं...
- ६.२० यत्रोपरमते चित्तं ...
- ६.२१ सुखमात्यन्तिकं...
- ६.२२ यं लब्ध्वा चापरं...
- ६.२३ तं विद्याद् दुःखं...
- ६.२४ सङ्कल्पप्रभवान् ...
- ६.२५ शनैः शनैः उपं...
- ६.२६ यतो यतो निश्वरति...
- ६.२७ प्रशान्तमनसं ह्येनं...
- ६.२८ युञ्जन्नेवं सदा...
- ६.२९ सर्वभूतस्थमात्मा...
- ६.३० यो मां पश्यति...
- ६.३१ सर्वभूतस्थितं यो...
- ६.३२ आत्मौपन्येन...
- ६.३३ योऽयं योगः त्वया...
- ६.३४ चञ्चलं हि मनः...
- ६.३५ असंशयं महाबां...
- ६.३६ असंयतात्मना...
- ६.३७ अयतिः श्रद्धयों...
- ६.३८ कच्चिन्नोभयविभ्रं...
- ६.३९ एतन्मे संशयं...
- ६.४० पार्थ नौवेह न ...
- ६.४१ प्राप्यपुण्यकृतां...
- ६.४२ अथवा योगिनाम्...
- ६.४३ तत्र तं बुद्धिसंयों...
- ६.४४ पूर्वाभ्यासेन तेन...
- ६.४५ प्रयत्नाद्यतमानस्तु...
- ६.४६ तपस्विभ्योधिको...
- ६.४७ योगिनामपि...