2.51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः
दिखावट

सूत्रसारः
[सम्पादयतु]व्यासभाष्यम्
[सम्पादयतु]देशकालसङ्ख्याभिर्बाह्यविषयः परिदृष्ट आक्षिप्तः, तथाभ्यन्तरविषयाक्षः परिदृष्ट आक्षिप्तः, उभयथा दीर्घसूक्ष्मः । तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेषः ॥५१॥
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]| विकिस्रोतसि 2.51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine