सामग्री पर जाएँ

अमृतसरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Amritsar district इत्यस्मात् पुनर्निर्दिष्टम्)
अमृतसरमण्डलम्

ਅਮ੍ਰਿਤਸਰ

Amritsar District
Sifti da Ghar
रात्रिकाले स्वर्णमन्दिरस्य नैस्वर्गिकचित्रम्
रात्रिकाले स्वर्णमन्दिरस्य नैस्वर्गिकचित्रम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि अमृतसर-प्रथमः, अमृतसर-द्वितीय, एजनला, बाबा बकाला
विस्तारः ५,०५६ च.कि.मी.
जनसङ्ख्या(२०११) २,४९०,६५६
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७६.२७%
भाषाः पञ्जाबीभाषा, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://haridwar.nic.in

अमृतसरमण्डलं ( /ˈəmrtəsərəməndələm/) (पञ्जाबी: ਅੰਮ੍ਰਿਤਸਰ ਜ਼ਿਲ੍ਹਾ , आङ्ग्ल: Amritsar District) भारतदेशस्य उत्तरभागे स्थितस्य पञ्जाबराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमृतसर-महानगरम् । अमृतसरमण्डलं सुवर्णमन्दिर-स्वातन्त्र्यसङग्राम-गुरुद्वारादिभ्यः प्रख्यातमस्ति । अमृतसरमण्डलं जलियावाला-बाग-हत्याकाण्डाय, १९८४ तमस्य वर्षस्य ब्लू-स्टार्-ओपरेशन्-इत्येतस्मै च कुप्रख्यातमपि अस्ति ।

भौगोलिकम्

[सम्पादयतु]

अमृतसरमण्डलस्य विस्तारः ५,०५६ च.कि.मी.-मितः अस्ति । पञ्जाबराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि पाकिस्थानदेशः, दक्षिणदिशि तरन तारन-मण्डलं, पूर्वदिशि पाकिस्थानदेशः, पश्चिमदिशि गुरुदासपुरमण्डलम् अस्ति ।

जनसङ्ख्या

[सम्पादयतु]

अमृतसरमण्डलस्य जनसङ्ख्या(२०११) २,४९०,६५६ अस्ति । अत्र १,३१८,४०८ पुरुषाः, १,१७२,२४८ स्त्रियः, २,८१,७९५ बालकाः (१,५४,३५१ बालकाः, १,२७,४४४ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९२८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०.०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८९ अस्ति । अत्र साक्षरता ७६.२७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८०.१५% स्त्री - ७१.९६% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- अमृतसर-१, अमृतसर-२, एजनला, बाबा बकाला

वीक्षणीयस्थलानि

[सम्पादयतु]

अमृतसर-महानगरं पञ्जाबराज्यस्य सांस्कृतिकेन्द्रमस्ति । अस्य महानगरस्य महान् इतिहासः वर्तते । एतत् महानगरं मजा-राज्ञः मुख्यनगरमासीत् । तदा एतत् महानगरं मुकुटमणिः (Jewel of the crown) इति प्रसिद्धम् आसीत् । अस्य महानगरस्य जनाः सांस्कृतिक-आध्यात्मिक-परम्परां रक्षन्तः सन्ति । अतः एतत् महानगरं सदाचारस्य (पञ्जाबीभाषायां सिप्ति दा घर (sifti da ghar) इति उच्यते) गृहमित्यपि प्रसिद्धम् । अमृतसर-महानगरं सिक्खजनानां तीर्थधाम । सुवर्णमन्दिरस्य दर्शनेन सर्वाण्यपि पापानि नष्टानि भवन्ति इति सिक्खजनानां श्रद्धा । अमृतसर-महानगरं सार्धचतुश्शतं वर्षेभ्यः प्राक् प्रप्रथमसिक्खगुरुणा निर्मापितम् । १५७७ तमे वर्षे ५०० प्रहल(Acre)भूभागे गुरुद्वारस्य शिलान्यासं सिक्खसम्प्रदायस्य प्रप्रथमगुरुः रामदासः चकार । सरोवरं परितः तत् गुरुद्वारम् अस्ति ।

अमृतसर-महानगरे कानिचन महत्वपूर्णानि विक्षणीयानि स्थलानि सन्ति । यथा – अमृतसरसुवर्णमन्दिरं, जलियावाला बाग, हाथी गेट मन्दिर, खरउद्दीन मस्जिद, दुर्गियाना मन्दिर, बाबा अटलराय स्तम्भ, रामतीर्थ ।

वाघा बोर्डर् भारत-पाकिस्थानयोः सीमाप्रदेशः । एतस्मिन् स्थले भारत-पाकिस्थानयोः प्रवेशद्वारम् अस्ति । भारतस्य प्रवेशद्वारे भारतस्य सैनिकाः, पाकिस्थानस्य प्रवेशद्वारे पाकिस्थानस्य सैनिकाः स्थिताः भवन्ति । प्रातः द्वारोद्धाटनस्य प्रक्रिया सैन्यपद्धत्या भवति । सैनिकाः भारतस्य गर्वान्वितपद्धतीनाम् अनुसरणं कृत्वा द्वारम् उद्घाटयन्ति । सायं काले द्वारं पिहितुमपि तस्याः विशिष्टसैन्यप्रक्रियायाः एव पुनरावृत्तिः भवति । प्रातःकाले, सायङ्काले च क्रमेण द्वारोद्घाटन-द्वारपिधान-प्रक्रियां द्रष्टुं बहवः यात्रिकाः, जनाः तत्र गच्छन्ति । यया पद्धत्या भारतीयसैनिकाः द्वारोद्घाटनं द्वारपिधानं च कुर्वन्ति, तां पद्धतिं दृष्ट्वा सैनिकेभ्यः, देशाय च जनानां यत् मानमस्ति, तत् प्रत्यक्षं भवति ।

भारतस्य स्वतन्त्रतायाः चर्चायां जलियावाला हत्याकाण्डः-हत्याकाण्डस्य उल्लेखः अनिवार्यः । भारतस्य कलङ्कः एषः काण्डः भारतीयजनानां हृदः व्रणः एव । सः व्रणः अद्यापि भारतीयान् पीडयति । तस्मिन् हत्याकाण्डे एकसहस्रं (१०००) जनाः मृताः इति आङ्ग्लसर्वकारेण उद्घोषितमासीत् । परन्तु द्विसहस्राधिकाः जनाः मृताः इति जनानां प्रत्यक्षानुभवः । जनरल डायर-नामकः आङ्ग्लाधिकारी जलियावाला हत्याकाण्डः-हत्याकाण्डस्य मुख्यदोषी । सः एव अहिंसकसम्मेलनं कुर्वतां जनसामान्यानाम् उपरि गोलिकाप्रहाराय आरक्षकान् आदिशत् । सैनिकैः चालिताः गोलिकाः जनानां शरीरं विभेद्य अग्रेसरन्त्यः पृष्ठभागे स्थितायां भित्तिकायां स्तम्भिताः (stopped) । अद्यापि भित्तिकासु गोलिकाः दृश्यन्ते । आङ्ग्लानां गोलिकाभ्यः मरणात् तु कूपे पतित्वा मरणं श्रेयस्करम् इति विचिन्त्य बहवः जनाः तत्रस्थे कूपे पतित्वा प्राणत्यागम् अकुर्वन् । बहुवर्षेभ्यः अनन्तरं जलियावाला बाग-स्थलस्य दर्शनं कर्तुं गताः केचन राष्ट्रभक्ताः तं कूपं दृष्ट्वा एतावन्तः भावपूर्णाः अभूवन् यत्, ते स्वयम् अपि तस्मिन् कूपे पतित्वा प्राणाहुतिम् अकुर्वन् । अनेन ज्ञायते यत्, तत् स्थलं भारतस्य इतिहासे, भारतीयानां मनसि कियत् महत्वपूर्णमस्ति । अधुना तु तस्य कूपस्योपरि लोहेनाच्छादिता जालिका निर्मापिता सर्वकारेण । परन्तु तेन काण्डेन जनमानसि जातस्य व्रणस्य औषधम् अद्यापि न केनापि वैद्येन प्राप्तम् इति खेदः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सुवर्णमन्दिरम्

जलियावाला बाग

वाघा बोर्डर्

बाह्यानुबन्धाः

[सम्पादयतु]

http://amritsar.nic.in/

फलकम्:पञ्जाबस्य मण्डलानि

"https://sa.wikipedia.org/w/index.php?title=अमृतसरमण्डलम्&oldid=318077" इत्यस्माद् प्रतिप्राप्तम्