अन्नमाचार्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Annamacharya इत्यस्मात् पुनर्निर्दिष्टम्)
श्री तळ्ळपक अन्नमाचार्यः
व्यैक्तिकतथ्यानि
ख्यातनाम अन्नमय्या
मूलतः कडप्पा मण्डलः, आन्ध्रप्रदेशः, भारतम्
सङ्गीतविद्या कर्णाटकशास्त्रीयसङ्गीतम्
वृत्तिः कर्णाटकसङ्गीतवाग्गेयकारः
वाद्यानि Tambura



श्री तळ्ळपक अन्नमाचार्यः (अन्यथा अन्नमय्या) (मई ९, १४०८ – फेब्रवरि २३,१५०३) तिरुमलस्य वेङ्कटदेवस्थानस्य अधिकृतः सङ्गीतगायकः आसीत् । सः तेलुगु-भाषायां ३६००० कीर्तनानि रचितवान्, तेषु बहवः श्री वेङ्कटेश्वर-देवस्य गुणगानरूपेण सन्ति । एतेन रचितानां कीर्तनानां प्रकारेण कर्नाटकी-सङ्गीतस्य रचनाक्रमः संप्रभावितः अस्ति । तानि इदानिमपि कर्नाटकसङ्गीतगायकैः गीयन्ते । अन्नमाचार्यस्य जिवनं दासश्रेष्ठजीवनम् इति स्मरन्ति सर्वे । भगवतः गोविन्दस्य महान्-भक्तः इति अन्यैः भक्तैः दासकविभिः च भाव्यते ।

तं तेलुगु-भाषायाः पद-कवितापितामहः तन्नाम गीतलेखनस्य पितामहः इति वदन्ति ।

जीवनम्[सम्पादयतु]

अन्नमाचार्यः वैशाखशुद्धपौर्णिमायां सर्वधारिसंवत्सरे (मई ९, १४०८) तळ्ळपकग्रामे (अद्यत्वे कडप्पाजनपदे विद्यमानः ग्रामः), आन्ध्रप्रदेशराज्ये जातवान् । तस्य भार्या तिम्मक्का ‘सुभद्रा कल्याणं’ रचितवती, तां तेलुगु-भाषायाः लेखकेषु प्रथमा महिला लेखिका इति वदन्ति । तयोः पुत्रः ‘पेद्द तिरुमलाचार्यः’ पौत्रः तळ्ळपक चिन्नय्या च रचनाकारौ कवी च । कर्नाटक-सङ्गीतस्य रचनाक्रमः तळ्ळपकसङ्गीत-संरचनाक्रमात् बहुधा प्रभावितः अस्ति । अन्नमाचार्यः दुन्दुभिनामसम्वत्सरस्य फाल्गुनबहुद्वादश्यां स्वस्य ९४ वयसि दिवङ्गतः ।

साहित्यजीवनम्[सम्पादयतु]

सः भगवतः गोविन्दस्य वेङ्कटेश्वरस्य स्तुतिरूपकाणि ३६००० कीर्तनानि रचितवान् । अद्य तेषु केवलं १२००० कीर्तनानि उपलभ्यन्ते । अन्नमाचार्यः तेन रचितानि कीर्तनानि भगवतः गोविन्दस्य पुष्पार्चनाय इति भावितवान् । कीर्तनेषु सः वेङ्कटेश्वरं स्तुतवान्, देवस्य विषये स्वस्य प्रेम, आक्षेपः, आरोपः इत्यादीन् भावान् प्रादर्शयत् । भक्तस्य विफलतां विश्वासं च निवेदयति, वेङ्कटेश्वराय स्वस्य समर्पणञ्च कृतवान् । एतस्य कीर्तनानि अध्यात्मसम्बद्धानि श्रुङ्गारसम्बद्धानि इति द्विधा विभज्यते । तस्य श्रुङ्गारयुक्तानि कीर्तनानि वेङ्कटेश्वर-अलमेलमङ्गंम्मायाः कल्पनारम्ययुक्तचरितस्य वर्णनं कुर्वन्ति, अन्यानि च भक्तस्य भक्तिवर्णनं कुर्वन्ति ।

सः अन्येषु कीर्तनेषु धर्मस्य सुचरितस्य नैतिकतायः च सम्बद्धानि सन्ति । तस्मिन् काले अस्पृश्यतायाः खण्डनं कृतवत्सु अन्यतमः आसीत् अयम् । वर्णजाति-आर्थिकभेदं विना देवमानवयोः सम्बन्धः कथं भवेत् इति रमणीयतया वर्णयति ’ब्रह्मम् ओक्कट्टे परब्रह्मम् ओक्कट्टे’, ’ई कुलजुदैननेमि एव्वदैननेमि’ इत्यादिषु गीतेषु ।

तस्य शब्दमाधुर्यकारणतः तेन लिखितानि गीतानि नितराम् आनन्ददायकनि । विशेषसाहित्यरचनेन सः तेलगुसाहित्येक्षेत्रे प्रमुखं स्थानं प्राप्तवान् ।

किंवदन्ती काचित् श्रूयते यत् अन्नमाचार्यः पुरन्दरदासः च मिलित्वा सङ्गीतरचनं कृतवन्तौ इति ।

तस्य काले प्रख्यातिं गतानि तदीयानि गीतानि तदनन्तरं शतकत्रयं यावत् सम्पूर्णतया विलुप्तानि आसन् इत्येतत् आश्चर्यकरमस्ति । तदनन्तरकाले तिरुमलस्य श्री वेङ्कटेश्वर-देवस्थानस्य अन्तः दानपेटिकायाः पुरतः विद्यमाने लघुप्रकोष्टे प्रच्छन्नरूपेण स्थापितानां मुद्रितताम्रपत्राणां रूपेण अलभन् ।

तिरुमलतिरुपतिदेवस्थानम् एतस्य साहित्यस्य संरक्षणे विशेषावधानं यच्छति । अन्नमाचार्यस्य ६०० गीतानां कृते गिरिमेल्ल बालकृष्ण प्रसादः (जन्म ९ नवेम्बर, १९४८) सङ्गीतसंयोजनं कृतवान् । सः तिरुपतितिरुमल-देवस्थाने १९८३ वर्षतः आस्थानगायकः आसीत् । शास्त्रीयशैल्यां भक्तिगीतानां गायने तस्य महत् प्रावीण्यम् । सः विशेषतः अन्नमाचार्यस्य सङ्कीर्तनानि एव अगायत् । “भाग्यमु विष्णुकथा”, “ब्रह्मा कडिगिन पदमु”, “जगदपु छनुवुल”, “पिडिकेडु थलम्बरलु” इत्यादीनां प्रसिद्धगीतानां सङ्गीतसम्योजनं कृतवान् । अधिकानि भक्तिगीतानि संस्कृतेन तेलगुभाषया च रचितानि सन्ति ।

विश्वविक्रमः[सम्पादयतु]

हैद्राबाद नगरे “लक्षगल सङ्कीर्तनार्चना” इति कार्यक्रमे “सप्तगिरि सङ्कीर्तनालु” नामकानि अन्नमय्यस्य सप्त कीर्तनानि २००९ तमे वर्षे मइ १० दिनांके १,६०,००० जनाः युगपत् अगायन् । अयं कार्यक्रमः गिन्निस्-लेखे उल्लिखितं जातम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अन्नमाचार्य&oldid=296995" इत्यस्माद् प्रतिप्राप्तम्