होमी जहाँगीर भाभा
होमी जहांगीर भाभा | |
---|---|
होमी जहांगीर भाभा (१९०९-१९६६) | |
जननम् |
30 अक्तूबर, 1909 मुंबई, भारत |
मरणम् |
24 जनवरी, 1966 मोंट ब्लांक, फ्रांस |
वासस्थानम् | भारत |
देशीयता | भारतीय |
कार्यक्षेत्राणि | परमाणु वैज्ञानिक |
संस्थाः |
Cavendish Laboratories भारतीय विज्ञान संस्थान टाटा मूलभूत अनुसंधान संस्थान Atomic Energy Commission of India |
मातृसंस्थाः | कैम्ब्रिज विश्वविद्यालय |
संशोधनमार्गदर्शी |
पॉल डिराक रॉल्फ एच फाउलर |
शोधच्छात्राः | बी भी श्रीकांतन |
विषयेषु प्रसिद्धः | भाभा स्कैटेरिंग |
धर्मः | पारसी धर्म |
हस्ताक्षरम् |
होमी भाभा (हिन्दी: होमी भाभा, आङ्ग्ल: homi bhabha ) इत्ययं भारतस्य वैज्ञनिकः आसीत् । अमेरिका-देशेन जापान-देशस्य हिरोशिमा-नगरे नागासाकी-नगरे च अणुविस्फोटः कृतः । तदानीं सम्पूर्णं विश्वम् अणुविस्फोटकस्य दानवीयां शक्तिम् अजानात् । 1945 तमे वर्षे विश्वयुद्धे जापान-देशः भयभीतः सन् शरणागतिम् अयात् । तेन सह विश्वयुद्धं समाप्तम् । जापान-देशे अणुविस्फोटेन सम्पूर्णे विश्वे जापान-देशस्य प्रति सहानुभूतिः आसीत् । अतः अणुशक्तियुतः अमेरिका-देशः तस्य सहचरदेशाः च अणुविज्ञानस्य प्रचारप्रसारः मा भूत्, अन्यदेशाः अणुविस्फोटकस्य संशोधनं च न कुर्युः इति विचार्य शान्तिसन्देशं प्रासारयत् । स्वयं तु अणुविस्फोटकस्य संशोधनं चालयति स्म । अमेरिका-देशस्य प्रतिद्वन्दित्वेन बृहद् रशिया-देशः अणुविस्फोटकस्य कार्यम् आरभत । प्राप्तावसरे परस्परं युद्धं स्याच्चेत् अणुसंशोधनेन उभौ परस्परं बलवन्तौ समर्थौ भवेताम् इति बृहद् रशिया-देशः इच्छति स्म । १९४७ तमस्य वर्षस्य अगस्त-मासस्य १५ दिनाङ्के भारतं स्वातन्त्र्यम् अलभत । तदा भारतम् अणुसंशोधनक्षेत्रे शून्यम् आसीत् । अद्यापि भारतम् अणुसंशोधनस्य उपयोगः शान्तियुक्ते विकासमार्गे एव स्यादिति नीतिम् आचरति । तस्य रचनाकारः डॉ. होमी भाभा । अणुसंशोधनाय अनेन यः मार्गः दर्शितः तस्य साहाय्येन एव वयं राजस्थानराज्यस्य पोखरण-ग्रामे अणुविस्फोटं कृत्वा महासत्तायाः अक्षिणी उन्मिलितवन्तः । इत्थं भारतस्य अणुविज्ञानस्य विकासचर्चायां डॉ. होमी भाभा इति नाम जिह्वायां नागच्छेत् चेत् तद् रामेण विना रामायणम् इत्यपि कथयितुं शक्नुमः ।
जन्म परिवारश्च
[सम्पादयतु]डॉ. होमी भाभा इत्यस्य जन्म १९०९ तमस्य वर्षस्य अक्तूबर-मासस्य त्रिंशत् (30) तमे दिनाङ्के मुम्बई-नगरे अभवत् । तस्य मातुः नाम मेहरबहेन, पितुः नाम जहाॅगीर-जी होरसम-जी भाभा आसीत् । तस्य पिता न्यायवादे निष्णातः आसीत् । रतन-जी ताता उद्योगसंस्थाभ्यः सह पितुः घनिष्ठः सम्बन्धः आसीत् । माता मुम्बई-नगरस्य अग्रणी-उद्योगपतिनः सर् दिनशा पीटिट् इत्यस्य पुत्री आसीत् । इत्थम् उभावपि गर्भश्रीमन्तौ आस्ताम् ।
बाल्यं शिक्षणञ्च
[सम्पादयतु]होमी भाभा इत्यस्य बाल्यं समृद्धियुक्तम् आसीत् । अयं बाल्यादेव अन्येभ्यः भिन्नः आसीत् । प्रायशः सर्वेऽपि बालकाः बाल्यावस्थायां ध्वनौ सति जागरन्ति पुनः शयनं कुर्वन्ति । किन्तु होमी भाभा स्वल्पं निद्रायमाणः भूत्वा जागर्ति इति तस्य नित्यक्रमः आसीत् । इत्थं बालकं जागरितं दृष्ट्वा पितरौ कथं शयनं कुर्यास्ताम् ? पुत्रस्य शयनरोगस्य चिकित्सायै पितरौ मुम्बई-नगरस्य बालरोगस्य विशेषज्ञम् अमिलताम् । किन्तु निद्रायाः किमपि निदानं नाभवत् । तथापि पितरौ प्रयासरतौ आस्ताम् । तौ रोगचिकित्सायै पुत्रं लण्डन्-नगरम् अनयताम् । लण्डन्-नगरे चिकित्सकः परीक्षणं कृत्वा होमी इत्यस्य नखेऽपि रोगः नास्ति किन्तु अस्य मस्तिष्कम् अत्यन्तं जागरितम् अस्ति अतः स्वल्पं शेते इति अवदत् । चिकित्सकस्य कथनानुसारेण होमी भाभा इत्यस्य पठनारम्भे सर्वं सत्यं जातम् । पितृभ्यां मुम्बई-नगरस्य केथीड्रल् नामिकायां शालायां तस्य प्रवेशः कारितः । तत्र श्रेष्ठेभ्यः शिक्षकेभ्यः होमी भाभा ध्यानेन अधीतवान् । तस्यां शालायां प्रायशः आङ्ग्ल-अधिकारिणां पुत्राः अध्ययनं कुर्वन्ति स्म । शालायां प्रवेशे सति भारतस्य विस्मरणं स्यात् तादृशम् पाश्चात्यं वातावरणम् आसीत् । तदानीन्तनकाले आङ्ग्ल-वस्त्राणां धारणे, आङ्ग्ल-शिक्षणप्राप्तौ च धनिकाः गौरवम् अनुभवन्ति स्म । किन्तु एतद् सर्वं विना अस्मदीयः होमी भाभा सदैव प्रथमक्रमं प्राप्य भारतस्य गौरवं वर्धयते स्म । इत्थं प्रथमक्रमेण उत्तीर्णः सन् सः बहूनि छात्रवृत्त्यादीनि प्राप्नोति स्म ।
माध्यमिकशिक्षणम्
[सम्पादयतु]प्राथमिकशिक्षणात्परं सः जॉन् केनन् नामिकायां शालायां माध्यमिकशिक्षणं प्रापत् । तस्य विद्यार्थिजीवनम् उत्तरोत्तरम् उज्ज्वलम् अभवत् । न केवलं पठने अपि तु अन्यप्रवृत्तिषु अपि सः रसेन भागं गृह्णाति स्म । इत्थं होमी भाभा इत्ययं अन्यविद्यार्थिभ्यः विशिष्टः आसीत् ।
पठने चित्रे सङ्गीते च रुचिः
[सम्पादयतु]बालकस्य शिक्षकः शाला च अति उत्तमा भवेत् तथापि बालकोपरि गृहस्य वातावरणस्य प्रभावस्तु भवति एव । तथैव अस्य जन्म पठनरसिके पारसी-कुटुम्बे अभवत् । गृहे सर्वेऽपि पठनरसिकाः आसन्, अतः होमी भाभा अपि पठनरसेन प्रभावयुतः आसीत् । कौटुम्बिकैः जनैः देशात् विदेशाच्च गृहे पुस्तकानि आनीतानि आसन् । तेषां पुस्तकानां पठने होमी इत्यस्य रुचिः आसीत् । गृहात् प्रोत्साहनं प्राप्य होमी भाभा इत्यस्य चित्रनिर्माणे, सङ्गीतश्रवणे अपि रुचिः आगता । ताभ्यां चित्रनिर्माणस्य कला तु स्वतः आसीत् । सः प्रकृतौ यदि किमपि नावीन्यं पश्यति स्म तर्हि कर्गदोपरि चित्रणं करोति स्म । एकदा विख्यातानां चित्रकाराणां चित्रप्रदर्शनम् आसीत् । तेषु १७ वर्षस्य होमी इत्यनेन पोर्ट्रेट् चित्रे प्रथमक्रमः प्राप्तः ।
गणितविज्ञानयोः रुचिः
[सम्पादयतु]चित्रसङ्गीतयोः रुचौ सत्यपि सर्वाधिकरुचिस्तु गणितविज्ञानविषयोः अध्ययने एव आसीत् । विज्ञानप्रयोगेषु लिखितानां सिद्धान्तानां प्रयोगानां च उपरि स्वयमेव परीक्षणं कृत्वा साफल्यं प्राप्यते तदैव विरमति स्म । यस्मिन् दिने प्रयोगपरिणामं प्राप्नोति स्म तस्मिन् दिने प्रसन्नः भवति स्म । होमी इत्यस्य गृहस्य ग्रन्थालयः विज्ञानविषये तु साक्षात् शिक्षक इव आसीत् । न केवलं शालायां ये पाठाः पाठिताः तान् एव अपि तु ये न पाठिताः तान् अपि होमी भाभा जानाति स्म । इत्थम् अभ्यासक्रमविषये शिक्षकात् अपि अग्रेसरः आसीत् ।
आइन्स्टाइन् इत्यस्य पुस्तकमधीत्य सापेक्षवादस्य अवगमनम्
[सम्पादयतु]बालकानां क्रीडावस्थायां होमी भाभा इत्ययं परिपक्वमनुष्यवद् गाम्भीर्ययुतः आसीत् । यदा पञ्चदशवर्षस्य तरुणावस्थायाम् आसीत्, तदा महान्वैज्ञानिकस्य आइन्स्टाइन् इत्यस्य पुस्तकं सापेक्षवादम् अपठत् सर्वम् अवगच्छत् च । सापेक्षवादं वैज्ञानिकाः अपि सहजतया ज्ञातुं न शक्नुवन्ति स्म । किन्तु होमी भाभा इत्यस्मिन् एकाग्रतायाः महान्गुणः आसीत् अत सः सर्वम् अवगच्छति स्म ।
उच्चशिक्षणम्
[सम्पादयतु]१९२९ तमे वर्षे होमी भाभा विज्ञानविषये स्नातकः अभवत् । पितरौ पुत्रम् उच्चशिक्षणाय विदेशं प्रेषयितुम् ऐच्छताम् । पाश्चात्यसंस्कृतेः शिक्षां प्रदातुम् इच्छुकौ पितरौ तं भारतीयसंस्कृत्या दीक्षितम् अकुरुतां येन तं वैदेशिकं वातावरणं न स्पृशेत् । पिता पुत्रं विदेशं प्रेष्य एन्जिनियरिङ्ग् पाठयितुम् ऐच्छत् । किन्तु होमी भाभा विज्ञानं पठितुम् ऐच्छत् । तथापि पितुः आज्ञया एन्जिनियरिङ्ग् पठितुं सज्जः समभवत् । होमी भाभा एन्जिनियरिङ्ग् पठितुं इङ्ग्लेण्ड्-देशं गतवान् । किन्तु पुनर्मनसि विचलिते सति विज्ञानं पठानि इति पितरम् अप्रार्थयत् । पित्रा सर्वं विचार्य एन्जिनियरिङ्ग् इत्यस्मिन् प्रथमे वर्गे उत्तीर्णे सति वर्षद्वयं विज्ञानपठनाय अनुमतिः दीयते इति उक्तम् । पितुर्वचनं श्रुत्वा होमी भाभा एन्जिनियरिङ्ग् पठितुम् आरभत । अन्ते प्रथमे वर्गे समुत्तीर्य १९२७ तमे वर्षे इङ्ग्लेण्ड्-देशस्य केम्ब्रिज् गोन्विल् एवं किङ्ग्स् महाविद्यालये ट्रायपोस्ट् खण्ड-1 अभ्यस्तुं प्रविष्टः । तदानीं कवेन्डिश् इति प्रयोगशालायां डॉ. रुदर्फोर्ड् इत्यनेन सह कार्यकतॄन् विदुषः दृष्ट्वा पदार्थविज्ञानं प्रति आकर्षितः अभवत् ।
भौतिकशाखायां कार्यारम्भः
[सम्पादयतु]होमी भाभा पितुः अपेक्षितं परिणामं प्रापत् । अतः स्वेन इच्छितं विषयं पठितुं समुत्सुकः आसीत् । तदानीं नोबेल्-पारितोषिकविजेतुः प्रो. डिराक् इत्यस्य सम्पर्कः अभवत् । अनेन क्वॉन्टम् इलेक्ट्रो डायनमिक्स् नामाख्यायाः नूतनभौतिकशाखायाः प्रारम्भः कृतः आसीत् । अस्य विषयस्य संशोधने होमी भाभा इत्यनेन कार्यविकासस्य आरम्भः कृतः । विज्ञानक्षेत्रे सरसं कार्यं कृत्वा १९३३ तमे वर्षे आइसॅक् न्यूटन् इति नामिकां शिष्यवृत्तिं च प्रापत् । १९३४ तमे वर्षे होमी भाभा पी.एच्.डी. कृत्वा डॉक्टर् अभवत् । अतः रॉयल् सोसैटि नामिका संस्था फेलो-रूपेण तस्य चयनं कृत्वा तस्मै सर्वोच्चं सम्माननम् अददात् ।
अणुविज्ञानक्षेत्रे प्रगतिः
[सम्पादयतु]भौतिकशास्त्रस्य दृष्ट्या विंशति(२०)शताब्द्याः प्रारम्भिकानि त्रिंशत् (३०) वर्षाणि महत्वपूर्णानि आसन् । तदानीं संशोधनकार्यं वेगेन भवति स्म । पुरातनसंशोधनानां स्थाने नूतनसंशोधनानि समागतानि । तदा एव आइन्स्टाइन् इत्यनेन ऊर्जासूत्रं दत्तम्, रुदर्फोर्ड् इत्यनेन अणुकेन्द्रस्य स्फोटपद्धतिः च अन्वेषिता । अतः अणुविज्ञानस्य, अणुशक्तेः, अणुस्फोटकस्य च जन्म अभवत् । अणुसंशोधनक्षेत्रे कार्यरतैः प्रो. डिराक्, रुदर्कोर्ड्, वुल्फ् गेन्ग्, पोली, एनरिको फर्मी इत्यैतैः सह कार्यं कर्तुम् होमी भाभा इत्यनेन अवसरः प्राप्तः । तेषां प्रेरणया मार्गदर्शनेन च होमी भाभा इत्यनेन मौलिकसंशोधनानि अपि आरब्धानि । तेषु ब्रह्माण्ड-किरणानां स्वरूपम् इति विषये स्वस्य संशोधनेन विज्ञानजगति सः प्रसिद्धिं प्राप्तवान् । ब्रह्माण्डकिरणानाम् आवर्तप्रपत्तेः (कॅस्केट् थियरी) प्रकाशशक्तेः वस्तुमाने (इलेक्ट्रोन्) रूपान्तरणं कथं भवेत् तस्मिन्विषये बहूनि वर्षाणि यावत् सः संशोधनम् अकरोत् ।
भारतागमनम्
[सम्पादयतु]डॉ. होमी भाभा इत्यस्य प्रतिभाम् इङ्ग्लेण्ड्-देशस्य अमेरिका-देशस्य च संशोधनकर्तारः अजानन् । अतः होमी भाभा इत्यस्य ज्ञानस्य उपयोगः स्वयोः देशयोः अणुसंशोधनक्षेत्रे भवेदिति संशोधनकर्तारः इच्छन्ति स्म । एतस्मै कार्याय होमी भाभा इत्यस्मै बहूनि प्रलोभनानि दत्तवन्तः । किन्तु होमी भाभा इत्ययं विदेशस्य ज्ञानेन स्वदेशस्य सेवां कर्तुं विचारितवान् । तस्मिन् काले अणुविज्ञानक्षेत्रे भारतं शून्यम् आसीत् । भारतं प्राप्य संशोधनसाधनानाम् अभावात् भारतीयवैज्ञानिकस्य सी.वी. रामन् इत्यस्य इन्स्टिट्यूट् ऑफ् सैन्स् इत्यस्मिन् भौतिकशास्त्रस्य प्रवाचक(रीडर्)त्वेन संयुक्तः अभवत् । अल्पे एव काले आचार्यः (प्रोफेसर्) अभवत् । १९४३ तमे वर्षे होमी भाभा सर् दोराबजी भाभा इत्यस्य संस्थायै (Trust) पत्रम् अलिखत् । तस्मिन् अलिखत् - भारते विज्ञाने, संशोधनक्षेत्रे च कार्यकतॄणाम् अभावः नास्ति किन्तु स्थलाभावात् सर्वे भ्रमिताः सन्ति । भाविनि काले अणुशक्तियुगारम्भः भविष्यति । अतः भारतेन अपि अणुवैज्ञानिकाः अणुविज्ञानक्षेत्रे कार्याणि कर्तुं शक्नुयुः तादृशी संस्था रचनीया इति । सर् दोराबजी इत्यस्य संस्था होमी भाभा इत्यस्य पत्रं पठित्वा प्रस्तावस्य स्वीकारम् अकरोत् । १९४५ तमे वर्षे मुम्बई-नगरस्य एकस्मिन् प्रासादे ताता इन्स्टिट्यूट् ऑफ् फण्डमेण्टल् रिसर्च् इति नामिकां संस्थाम् अस्थापयत् । अस्मिन्नेव वर्षे अमेरिका-देशेन जापान-देशस्य उपरि आक्रमणं कृतम् । तेन जापान-देशस्य द्वे नगरे नष्टे । अस्मिन् भीषणे युद्धे लक्षाधिकाः जनाः प्रज्वलिताः । सर्वत्र अणुक्षेत्रे कार्यकतॄणां निन्दारम्भः अभवत् । विश्वस्मिन् जनाः अणुविरोधं कृत्वा शान्तिम् अयाचन् । अन्ये देशाः अणुसंशोधनं न कुर्युः, अतः अमेरिका-देशेनापि शान्तेः अभियानम् आरब्धम् । किन्तु होमी भाभा इत्यनेन एतादृश्यां परिस्थित्यां भारते अणुसंशोधनस्य कार्यारम्भः कृतः । होमी भाभा इत्यनेन अणुविज्ञानस्य शान्तिमयस्य उपयोगस्य प्रति भारः प्रदत्तः । होमी भाभा इत्यस्य अयं विचारः कियान् दीर्घदृष्टियुतः आसीत् इति इदानीं ज्ञायते ।
अणुशक्तिसमितेः अध्यक्षः भाभा
[सम्पादयतु]१९४७ तमस्य वर्षस्य अगस्त-मासस्य १५ तमे दिनाङ्के देशः स्वतन्त्रः अभवत् । ततः दशदिवसानन्तरम् अगस्त-मासस्य २६ दिनाङ्के भारतसर्वकारेण दिल्ली-नगरे वैज्ञानिकानाम् एका गोष्ठी आयोजिता । तत्र अणुसंशोधनविषयः अपि चर्चितः । तत्र होमी भाभा इत्यनेन अणुविज्ञानस्य विकासः, उपयोगश्च राष्ट्राय महत्वपूर्णः अस्ति इति सूचितम् । तदर्थं सः नवानां नीतीनां रचनाम् अकरोत् । तादृशम् अणुसंशोधनकेन्द्रं स्थापयितुम् अन्यदेशानामुपरि भारम् अपि अददात् । सर्वकारः तस्य एतैः विचारैः प्रसन्नः सन् अणुशक्तेः संशोधनमण्डलस्य अध्यक्षपदं होमी भाभा इत्यस्मै अददात् । ततः अल्पे काले एव भारतसर्वकारेण परमाणुशक्तिविषयकः एकः कार्यालयः स्थापितः । तस्य सचिवपदम् अपि होमी भाभा इत्यस्मै प्रदत्तम् । ततः परं भारतसर्वकारः अणुशक्तिसमितेः अध्यक्षम् अन्विषन् आसीत् । तदानीमेव होमी भाभा इत्यस्य विचारं कृत्वा अध्यक्षत्वेन अपि तमेव अचिनोत् । होमी भाभा इत्यनेन अणुविकासाय, तस्य शान्तिमयाय उपयोगाय च स्वस्य कुशलता योजिता । तस्य नेतृत्वे पुनःपुनः बह्व्यः योजनाः सफलतां गताः । तस्य इच्छा तु प्रत्येकं ग्रामम् अन्धकारात् विमुक्तं कर्तुम् आसीत् । परन्तु सर्वप्रथमम् अणुसंशोधनकेन्द्राणां निर्माणे भारम् अददात् ।
ट्रोम्बे-अणुसंशोधनकेन्द्रस्य निर्माणम्
[सम्पादयतु]१९५४ तमे वर्षे देशस्य अणुसंशोधनकार्यम् अत्याधुनिकं कर्तुं भारतसर्वकारः मुम्बई-नगरस्य ट्रोम्बे इत्यत्र अणुसंशोधनकेन्द्रम् अस्थापयत् । केन्द्रसञ्चालकत्वेन होमी भाभा नियुक्तः । अस्य रचनायां चत्वारि वर्षाणि अगच्छन् । अस्य निर्माणे १२०० एन्जिनियर् जनाः, अन्ये श्रमिकजनाः च कार्यम् अकुर्वन् । तेषु एन्जिनियर् जनेषु ३० केनडा-देशात् समागताः आसन् । साम्प्रतम् अस्य संशोधनकेन्द्रस्य इलेक्ट्रोनिक्स् विभागे रेडिएशन् सर्वे मीटर्, एम्प्लिफायर्स्, न्यूक्लियर् स्पेक्ट्रोमीटर् इत्यादीनां ५० प्रकाराणां साधनानां निर्माणं भवति । साम्प्रतं ततः ३५० प्रकाराणां रेडियो आइसोटोप् अनेकेषु देशेषु प्रेष्यन्ते । ताता इन्स्टिट्यूट् ऑफ् फण्डमेन्टल् रिसर्च्, ट्रोम्बे-अणुसंशोधनकेन्द्रस्य च जनकत्वेन अद्यापि होमी भाभा इत्यस्य स्मरणं भवति ।
होमी भाभा इत्यनेन संस्थापिताः आयोगाः
[सम्पादयतु]1. १९५५ तमे वर्षे अणुज्वालकस्य थोरियम् आयोगम् (प्लान्ट्) अस्थापयत् । 2. १९५९ तमे वर्षे न्यूक्लियर् मेटल् आयोगम् (प्लान्ट्) अस्थापयत्, यत् प्रतिवर्षं ३० टन् न्यूक्लियर् ग्रेड् युरेनियं सज्जीकर्तुं शक्नोति । 3. १९६२ तमे वर्षे भारयुक्तस्य जलस्य आयोगः (हेवी वॉटर् प्लान्ट्) स्थापितः, यस्मिन् प्रतिवर्षं १५ टन् भारयुक्तं जलं निर्मातुं शक्यम् । 4. १९६५ तमे वर्षे प्लुटोनियम् आयोगः (प्लान्ट्) स्थापितः । डॉ. होमी भाभा, डॉ. शेठनानी इत्यनयोः संयुक्ते उपक्रमे अयं आयोगः (प्लान्ट्) स्थापितः । तदानीं विश्वस्मिन् अयं पञ्चमः आयोगः (प्लान्ट्) आसीत् । तदा एतादृशाः आयोगयुक्ताः देशाः रशिया, अमेरिका, ब्रिटन्, फ्रान्स् इत्येते आसन् ।
तारापुर इत्यत्र अणुमथकस्य स्थापना
[सम्पादयतु]१९६३ तमे वर्षे महाराष्ट्रराज्यस्य तारापुर-ग्रामे सर्वप्रथमम् अणुशक्तिमथकं निर्मातुम् आरभत । तत्र अणुविस्फोटं नियन्त्र्य तस्य विद्युत्-ऊर्जायां रूपान्तरणं कर्तुं व्यवस्था आसीत् । तारापुर अणुमथकस्य रचनायाम् अमेरिका-देशस्य साहाय्यं स्वीकृतम् आसीत् । किन्तु होमी भाभा इत्यस्य विश्वासः आसीत् यत् भारतीयवैज्ञानिकाः अणुमथकस्य रचनायाः कार्यं शीघ्रं ज्ञास्यन्ति इति । मद्रास-नगरस्य समीपे कल्पक्कम् अणुमथकस्य स्थापनायाः सर्वाः व्यवस्थाः भारतीयवैज्ञानिकैः कृताः येन होमी भाभा इत्यस्य विश्वासः सार्थकः अभवत् । साम्प्रतं तु वयम् अन्यदेशेभ्यः अणुसंशोधनक्षेत्रे साहाय्यं दातुं शक्ताः स्मः । होमी भाभा नूतनप्रकल्पस्य प्रारम्भात् प्राक् तस्य दुरुपयोगः भवितुं शक्नोति न वा इति परिष्कृत्यैव कार्यम् आरभते स्म । अत एव सफलः भवति स्म । तेन प्राप्तायाः सिद्धेः अहङ्कारः कदापि तस्मिन् न आसीत् । सः व्यवहारकुशलः आसीत् । निश्चितेन आयोजनेन एव कार्यं कर्तव्यम् इति सः आमनति स्म ।
अन्ताराष्ट्रियपरिषदः अध्यक्षः
[सम्पादयतु]अणोः शान्तिमयः उपयोगः इति विषये १९५५ तमे वर्षे भारतस्य केन्द्रसर्वकारेण अन्ताराष्ट्रियपरिषद् आयोजिता आसीत् । होमी भाभा तस्याः अध्यक्षः आसीत् यत् देशाय गौरवस्य विषयः आसीत् । तदानीं प्रधानमन्त्रिपदारूढः पण्डित जवाहरलाल नेहरू इत्ययं शान्तिप्रियः आसीत् । तथैव अस्माकं अणुवैज्ञानिकः होमी भाभा इत्ययम् अपि शान्तिप्रियः आसीत्, अणोः शान्तिमयस्य उपयोगस्य इच्छुकः अपि आसीत् । अणोः भयस्थानानि बहूनि सन्ति किन्तु सदुपयोगाः अपि बहवः सन्ति । अतः अस्य विकासं न्यूनीकर्तुं न शक्नुमः । इत्थं होमी भाभा बहूनि उदाहरणानि दत्त्वा जलेन, अङ्गारेण च उत्पन्नविद्युतः अपेक्षया अणु-ऊर्जा न्यूनेन मूल्येन प्राप्यते इति औपदिशत् । होमी भाभा इत्यस्य मते भारते जनसङ्ख्यायाः वृद्धिः जायमाना आसीत् किन्तु ऊर्जायाः अक्षय्यानि श्रोतांसि न आसन् । अतः अस्माभिः अणुशक्तेः उत्पादने यावच्छक्याः प्रयत्नाः कर्तव्याः । होमी भाभा इत्यस्य मते विद्युच्छक्तेः आवश्यकतानुसारम् अणुशक्तेः समुचितः उपयोगः न जातः । अद्यापि विद्युतः मुख्यस्रोतत्वेन अङ्गारः एव उपयुज्यते । अङ्गारगर्ताः समाप्तिं प्रति गच्छन्ति, अतः राष्ट्रस्य आयस्य विशालांशः विदेशात् क्रूड् ऑइल् इत्यस्य क्रयणे एव नष्टः भवति ।
आजीवनम् अविवाहितः
[सम्पादयतु]होमी भाभा इत्यस्य जन्म पारसी-कुटुम्बे अभवत् । पारसी-जनेषु अविवाहितानां, विलम्बेन विवाहकतॄणां च विशाला सङ्ख्या अस्ति । पारसी-जनेषु एवं किमर्थम् इति संशोधनस्य विषयः । होमी भाभा अणुविज्ञानक्षेत्रे एव रसत्वात् अन्यत्र अरसत्वात् विवाहं न कृतवान् । अणुविज्ञानमेव स्वजीवनलक्ष्यमिति विचार्य अजीवत् ।
पुरस्काराः
[सम्पादयतु]१ १९४४ तमे वर्षे पटना विश्वविद्यालयात् डॉक्टर् ऑफ् सैन्स् इति पदव्या सम्मानितः । २ १९४9 तमे वर्षे लखनऊ विश्वविद्यालयात् डॉक्टरेट् इति पदव्या सम्मानितः । ३ १९५८ तमे वर्षे इलहाबाद विश्वविद्यालयेन डी.एस.सी. इति मानपदव्या सम्मानितः । ४ १९५९ तमे वर्षे केम्ब्रिज् विश्वविद्यालयेन डी.एस.सी. इति मानपदव्या सम्मानितः । ५ १९६० तमे वर्षे लण्डन् विश्वविद्यालयेन डी.एस.सी. इति मानपदव्या सम्मानितः । ६ १९४८ तमे वर्षे हॉप्किन्स् पुरस्कारेण सम्मानितः । ७ १९५४ तमे वर्षे भारतसर्वकारेण पद्मभूषणपुरस्कारेण सम्मानितः । ८ १९६१ तमे वर्षे भारतस्य विज्ञानक्षेत्रे श्रेष्ठयोगदानाय मेघनाद सहा सुवर्णचन्द्रकेन पुरस्कारेण सम्मानितः । ९ १९६४ तमे वर्षे मेल्चेड् पुरस्कारेण सम्मानितः ।
इत्थं विज्ञानक्षेत्रे पुरस्कारान् प्राप्य होमी भाभा विख्यातः अभवत् । तथापि आर्थिकलाभादिविषये सः कदापि न व्यचारयत् ।
मृत्युः
[सम्पादयतु]१९६६ तमे वर्षे जिनीव-नगरे अन्ताराष्ट्रियायाः अणुसमितेः गोष्ठी आयोजिता । तत्र अनिवार्यकारणात् होमी भाभा इत्यस्य उपस्थितिः न भविष्यति इति निश्चितम् आसीत् । किन्तु देशस्य प्रतिनिधित्वेन उपस्थितौ सति देशाय लाभाः भविष्यन्ति इति विचार्य जिनीव गन्तुम् आमन्त्रणं स्वीकृतवान् । तत्र गन्तुं १९६६ तमस्य वर्षस्य जनवरी-मासस्य २४ तमे दिनाङ्के काञ्चनगङ्गा ७०७ नामके वायुयाने उपविष्टः । आल्प्स् इत्यस्याः पर्वतमालायाः समीपे माउण्ट् ब्लॅन्क्-तः किञ्चिद्दूरे विमानं नष्टं यस्मिन् ११६ जनाः आसन् । तेषु एकः अस्माकं वैज्ञानिकः होमी भाभा अपि । इमं सन्देशं प्राप्य भारतीयाः स्तब्धाः अभवन् । देशस्य अणुकार्यक्रमः अपि मूर्छां गतः । स्वकीयेन अतुल्येन योगदानेन होमी भाभा अद्यापि जनमनसि राराजते ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Annotated Bibliography for Homi J. Bhabha from the Alsos Digital Library for Nuclear Issues Archived २०१५-०१-१९ at the Wayback Machine.
- The Woodrow Wilson Center's Nuclear Proliferation International History Project. NPIHP has a series of primary source documents about and by Homi Bhabha.