मेघनाद साहा
मेघनाद साहा Meghnad Saha | |
---|---|
মেঘনাদ সাহা | |
जननम् |
शेबडाताली, ढाका, (आङ्ग्लकालीकभारतम्) (सद्यः बाङ्गलादेशः) | ६ १८९३
मरणम् |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। देहली, भारतम् |
वासस्थानम् | भारतम् |
देशीयता | भारतीयः |
कार्यक्षेत्राणि | भौतिकी, गणितं च |
संस्थाः |
इलाहाबादविश्वविद्यालयः कोलकाताविश्वविद्यालयः इम्पिरियल् कॉलेज लंदन इण्डियन् एसोशियेशन् फॉर् द कल्टिवेशन् ऑफ् साइन्स् |
मातृसंस्थाः |
ढाकामहाविद्यालयः कोलकाताविश्वविद्यालयः |
विषयेषु प्रसिद्धः |
तापीयावेशः (Thermal ionisation साहा आवेशीयवसमीकरणम् Saha ionization equation |
धर्मः | नास्तिकः [१][२] |
डॉ मेघनाद साहा ( ( शृणु) /ˈmɛɡhənɑːdə sɑːhɑː/) (वङ्ग: মেঘনাদ সাহা, आङ्ग्ल: Meghnad Saha) भारतस्य प्रख्यातः वैज्ञानिकः, शिक्षकश्च । डॉ मेघनादः स्वाध्ययनं १९१३ तमे वर्षे समापयत् । तस्मात् वर्षात् आजीवनं सः विज्ञानस्य सेवायै सातत्येन कार्यमकरोत् । १९१३ तमे वर्षे सः 'इण्डियन् साइंस कॉङ्ग्रेस् एसोशिएशन्'-संस्थायाः स्थापनायां महत्त्वपूर्णं योगदानम् अकरोत् । १९२५ तमे वर्षे सः 'साइंस कॉङ्ग्रेस'-संस्थायाः गणित-भौतिक-विभागयोः अध्यक्षः अभवत् । १९३४-३५ मध्ये डॉ मेघनादस्य प्रयत्नैः 'नेशनल् इंस्टीट्यूट् ऑफ् साइंस'-संस्थायाः स्थापना अभवत् । १९३७ तः १९३९ पर्यन्तं सः तस्याः संस्थायाः सभापतिः आसीत् । सः महेन्द्रलालसर्वकारीयप्रयोगशालायाः पुनारचनाम् अकारयत् । ततः सा प्रयोगशाला 'इंडियन् एसोशिएशन् फॉर द कल्टीवेशन् ऑफ् साइंस' इति प्रसिद्धा अभवत् । १९४४ तमे वर्षे, १९४६ तमे वर्षे च क्रमेण मन्त्रित्वेन, अध्यक्षत्वेन च तस्यां संस्थायां कार्यरतः आसीत् । १९५३ तमे वर्षे भारतसर्वकारः डॉ मेघनादं 'साइंस एसोशिएशन्'-संस्थायाः निदेशकत्वेन न्ययुङ्क्त । तस्मिन् पदे सः मृत्युपर्यन्तं स्वदायित्वम् अवहत् [३]।
मेघनादः अमेरिका-देशस्य, फ्रांस-देशस्य च फैला इत्यत्वेन चितः । सः अनेकवारं विदेशेषु भारतस्य नेतृत्वम् अकरोत् । सः १९५२ तमे वर्षे लोकसभायाः निर्वाचने निर्दलीयसदस्यत्वेन बहुमतेन विजयी अभवत् । ततः तेन संसदि विज्ञानविकासस्य अनेके अंशाः उद्घोषिताः ।
जन्म, परिवारश्च
[सम्पादयतु]१८९३ तमस्य वर्षस्य अक्तूबर-मासस्य षष्ठे (६/१०/१८९३) [४] दिनाङ्के पूर्ववङ्गप्रदेशस्य (सद्यः बाङ्गलादेशे) ढाका-मण्डलस्य शेबडाताली-नामके ग्रामे मेघनादस्य जन्म अभवत् । कनसाइ-नद्याः तीरे विकसितः सः ग्रामः । मेघनादः अत्यन्ते निर्धने परिवारे लब्धजन्मः । तस्य पितुः, मातुश्च नाम क्रमेण जगन्नाथः, भुवनेश्वरीदेवी च । जगन्नाथः धान्यापणिकः (Grocer) आसीत् । ग्रामस्थस्य तस्य आपणस्य स्थितिः अतिदरिद्रा आसीत् । भुवनेश्वरीदेवी अभावग्रस्तं तद्गृहम् अति प्ररिश्रमेण सञ्चालयति स्म । गृहसञ्चालननिपूणायाः तस्याः गृहे वस्तूनाम् अभावे सत्यपि बालकानां पालने अभवास्य स्थितिः कदापि न भवति स्म । जगन्नाथस्य न्यूनायेन परिवारः दरिद्रजीवनं यापयति स्म । तयोः अष्टौ अपत्यानि आसन् । मेधनादः तयोः पञ्चमः सन्तानः आसीत् । १९१८ तमे वर्षे मेघनादस्य विवाहः अभवत् । मेघनादस्य पत्न्याः नाम राधारानी आसीत् । तयोः त्रयः पुत्राः, चतस्रः पुत्र्यश्च आसन् [५] ।
शिक्षणम्
[सम्पादयतु]यतो हि जगन्नाथस्य अष्टौ अपत्यानि आसन्, अतः सर्वेभ्यः शिक्षणव्यस्थां कर्तुं दरिद्रः सः असमर्थः आसीत् । दरिद्रे वातावरणे बालमेघनादस्य प्राथमिकशिक्षणं ग्रामस्य सर्वकारीयशालायाम् आरब्धम् । पादत्राणस्य अभवात् सः नग्नपद्भ्यां शालां गच्छति स्म । यदा कदापि सः पाठशालायाः मुक्तः भवति स्म, तदा आपणे स्थित्वा स्वपितुः साहाय्यं करोति स्म । धनाभावे सत्यपि अध्ययने बालमेघनादः परिश्रमी आसीत् । तस्य बुद्धिचातुर्येण, परिश्रमेण च विद्यालयस्य सर्वेऽपि शिक्षकाः प्रभाविताः आसन् । बालमेघनादः यत्किमपि पठति स्म, तत् सः कदापि न विस्मरति स्म । तस्य स्मरणशक्तिः अपि अति विचक्षणा आसीत् । परीक्षायाम् अखिलमण्डले तस्य प्रप्रथमस्थानम् आसीत् ।
ग्रामस्थे विद्यालये प्राथमिकशिक्षणं प्राप्य सः ७ माइल् दूरे स्थिते सिमुलिया-ग्रामं माध्यमिकशिक्षणं प्राप्तुं गच्छति स्म । प्रतिदिनं १४ माइल् पद्भ्यां कठिनयात्रात्वात् बालमेघनादस्य अध्ययनप्रक्रिया अति कठिना आसीत् । दीर्घकालं यावत् सः प्रतिदिनं १४ माइल् यात्रां करोति स्म, परन्तु अनुजस्य पीडां दृष्ट्वा तस्य अग्रजः जयनाथः सिमुलिया-ग्रामे बालमेघनादस्य निवासाय व्यस्थाम् अकारयत् । ततः सिमुलिया-ग्रामे अनन्तकुमाराख्यस्य कस्यचित् वैद्यस्य गृहे निवस्य बालमेघनादः अध्ययनं प्रारभत । यतो हि बालमेघनादः जानाति स्म यत्, तेन वैद्येन तस्योपरि महान् उपकारः कृतः, अतः बालमेघनादोऽपि गृहकार्येषु साहाय्यं करोति स्म । गोप्रेमी बालमेघनादः नित्यं गोसेवां करोति स्म ।
प्राथमिकशिक्षणे मेधावी बालमेघनादः माध्यमिकशिक्षणेऽपि चमत्कारम् अकरोत् । गणितविषयः तस्मै अति रोचते स्म । अतः सः विद्यालयस्य शिक्षकैः बहुवारं प्रोत्साहितः । १९०५ तमे वर्षे दशमीकाक्षायां बालमेघनादः सम्पूर्णे ढाकामण्डले प्रप्रथमं स्थानं प्राप्य उत्तीर्णः अभवत् । तेन कृतस्य परिश्रमस्य फलश्रुतिः सर्वेभ्यः आनन्दस्य विषयः आसीत् । सर्वकारेणापि तस्मै छात्रवृत्तिः दत्त्वा तस्य साहाय्यं कृतम् । एवं बालमेघनादेन स्वाध्ययनस्य महान् धनविघ्नः स्वयमेव अपाकृतः ।
माध्यमिकशिक्षणं, क्रान्तिश्च
[सम्पादयतु]१९०५ तमे वर्षे मेघनादः त्रयोदशवर्षीयः अपि नासीत् । तावति अल्पवयसि सः ढाका-महानगरस्य कॉलेजियेट्-विद्यालयं प्रविष्टः । तत्रापि तस्य परिश्रमेण सर्वेऽपि प्रसन्नाः आसन् । स्वाध्ययनक्षमतया तेन तस्मिन् विद्यालयेऽपि छात्रवृत्तिः अर्जिता । तस्य शिक्षामूल्यम् अपि क्षम्यम् अभवत् । १९०५ तमः वर्षः राष्ट्रियान्दोलनेभ्यः अपि महत्त्वपूर्णः आसीत् । यतो हि तस्मिन् वर्षे एव भारते वङ्गभङ्गस्य आन्दोलनं जायमानम् आसीत् । सर्वेऽपि नागरिकाः, विद्यार्थिनः च सर्वकारस्य विरोधाय असहोयगान्दोलनम् अकुर्वन् । आन्दोलनकाले वङ्गप्रदेशस्य राज्यपालः सर्वेषां विद्यालयानां, महाविद्यालयानां च निरीक्षणाय गतः । सर्वकारं प्रति विरोधदर्शनाय सर्वेऽपि विद्यार्थिनः कक्षाम् एव न गताः । विद्यार्थिनाम् आचरणेन क्रुद्धः राज्यपालः मेघनादसदृशानाम् अनेकेषां विद्यार्थिनां छात्रवृत्तिम् अस्थगयत् । अनुपस्थितान् विद्यार्थिनः राज्यपालः विद्यालयात्, महाविद्यालयात् च बहिष्कृतवान् । राज्यपालस्य निर्णयेन मेघनादस्य अध्ययने अवरोधः समुत्पन्नः । किङ्कर्तव्याकर्तव्यमूढः मेघनादः बहुदिनानि इतस्ततः अभ्रमत् । परन्तु सर्वकारीयनिर्णयस्य विरोधाय ढाका-महागरस्य किशोरिलाल-जुबली-विद्यालयः मेघनादाय प्रवेशेण सह छात्रवृत्तिः अपि अयच्छत् । अग्रजः जयनाथः अपि मेघनादस्य आर्थिकसाहाय्यम् अकरोत् । ततः विद्यालयस्य, अग्रजस्य च साहाय्येन मेघनादः स्वाध्ययनं पुनरारम्भत ।
इतिहास-संस्कृत-विज्ञान-ज्योतिषां ज्ञानार्जनस्य उद्देशेन मेघनादेन विविधानां सम्प्रदायानाम् अध्ययनं प्रारब्धम् । तेन हिन्दु-बौद्ध-जैन-ईसाई-इस्लाम्-धर्माणाम् अभ्यासः कृतः । ‘बप्टिस्ट् मिशन’-संस्थया आयोजिते वङ्ग-बाइबल-परीक्षायां मेघनादः प्रप्रथमस्थानी आसीत् । तस्याः परीक्षायाः पुरस्कारत्वेन मेघनादः बाइबल-ग्रन्थं, शतं रूप्यकाणि च अलभत । मेघनादस्य स्मरणशक्त्या सर्वेऽपि चकिताः आसन् । १९०९ तमे वर्षे मेट्रिक्यूलेशन-परीक्षायां मेघनादः आवङ्गप्रदेशं प्रप्रथमस्थाने उत्तीर्णः अभवत् । संस्कृत-आङ्ग्ल-बङ्गाली-गणित-विषयेषु मेघनादः सर्वाधिकाङ्कान् अर्जयत् । १९११ तमे वर्षे ढाका-विश्वविद्यलयान्तर्गततया ढाका-महाविद्यालात् भौतिक-रसायन-विज्ञान-गणित-जर्मनभाषा-दिविषयैः सह इण्टरमीडिएड्-परीक्षा प्रथमश्रेण्या मेघनादेन उत्तीर्णा । तस्यां परीक्षायां मेघनादः गणित-रसायन-विषययोः प्रप्रथमे स्थाने आसीत् । यद्यपि सः तयोः विषययोः प्रप्रथमः आसीत्, परन्तु सर्वेषां विषयाणाम् अङ्कान् आहत्य सः तृतीयं स्थानं प्रापत् । जर्मनभाषा मेघनादेन डॉ. नागेन्द्रनाथात् अधीता । डॉ. नागेन्द्रनाथः ढाका-महाविद्यालये रसायन-विषयस्य प्राध्यापकः आसीत् । गणितविषयः मेघनादेन के पी बसु-महोदयतात् अधीतः । ढाका-महाविद्यालयस्य प्रधानाचार्यः आर्चीबाल्ड इत्येषः अपि मेघनादस्य अनेकवारं साहाय्यम् अकरोत् । ढाकामहाविद्यालयात् उत्तीर्णः मेघनादः यदा कोलकाता-महानगरम् अगच्छत्, तदापि तयोः पत्रव्यवहारः अनर्गलतया भवति स्म ।
उच्चशिक्षणम्
[सम्पादयतु]ढाका-महाविद्यालयात् मेघनादः कोलकाता-महानगरस्य प्रेसीडेंसी-महाविद्यालयम् उच्चिशिक्षणं प्राप्तुम् अगच्छत् । १९१३ तमे वर्षे मेघनादः गणितविषयम् अधिकृत्य बी. एस्. सी ऑनर्स् इत्येनम् उपाधिं प्रप्रथमश्रेण्यां प्रापत् । कोलकता-विश्वविद्यलये तस्य द्वितीयः क्रमः आसीत् । तस्मिन् महाविद्यालये मेघनादस्य सहपाठिनः कालान्तरे प्रख्यातप्राध्यापकाः अभूवन् । तेषु सत्येन्द्र बोस, निखल रञ्जन सेन, जे सी घोष, जे एन् मुकर्जी इत्येते अन्तर्भवन्ति । प्रशान्त चन्द्र महालनबीस, नील रतन धर इत्येतौ मेघनादस्य ज्येष्ठसहपाठिनौ आस्ताम् । शरत् चन्द्र बोस इत्येषः मेघनादस्य सहपाठी आसीत् । नेताजी सुभाष चन्द्र बसु इत्यस्मात् महाभागात् मेघनादः वर्षत्रयात् प्राच्यः आसीत् । १९१५ तमे वर्षे कोलकाता-विश्वविद्यालयात् गणितविषयम् अधिकृत्य एम् एस् सी इत्येषः उपाधिः अर्जितः मेघनादेन । एम् एस् सी इत्यस्य परीक्षायाम् अपि प्रप्रथमश्रेण्या मेघनादः उत्तीर्णः अभवत् । तस्मिन् वर्षेऽपि मेघनादः आविश्वविद्यालयं द्वितीयस्थानं प्रापत् ।
मेघनादः यदा कोलकाता-विश्वविद्यालये पठति स्म, तदा अनेके विश्विविख्याताः जनाः तस्य अध्यापकाः आसन् । तेषु जगदीशचन्द्र बसु, प्रफुल्लचन्द्र राय, डी एन् मल्लिक इत्येते अन्तर्भवन्ति । परिवारस्य आर्थिकस्थितेः निर्बलतायाः कारणेन विश्वविद्यालयात् शिक्षां प्राप्य निर्गतः मेघनादः वृत्त्योपार्जनाय निर्णयम् अकरोत् ।
वृत्तिः
[सम्पादयतु]उच्चशिक्षणं प्राप्य निर्गतः मेघनादः यदा वृत्त्युपार्जनाय उचितं स्थानम् अन्विषन् आसीत्, तदा तस्य ध्याने भारतीयवित्तसेवायाः (Indian Finance Service) परीक्षा आगता । परन्तु क्रान्तिकारिभिः मेघनादस्य सम्बन्धत्वा आङ्ग्लसर्वकारेण भारतीयवित्तसेवायाः परीक्षायै मेघनादाय अनुमतिः न प्रदत्ता । मेघनादस्य यैः क्रान्तिकारिभिः निकटतमसम्बन्धः आसीत्, तेषु मुख्यौ डॉ. राजेन्द्र प्रसाद, नेताजी सुभाषचन्द्र बसु इत्येतौ आस्ताम् । आङ्ग्लसर्वकारस्य दमनेन अप्रभावितः मेघनादः कोलकाता-महानगरस्य भवानीपुराख्यं क्षेत्रं बालकान् पाठयितुं गच्छति स्म । तस्मात् विशेषवर्गात् (tuition) धनोपार्जनं कृत्वा मेघनादः परिवारपोषणम् आरभत । विशेषवर्गात् अधिकधनस्योपार्जनं न भवति स्म, अतः धनं रक्षितुं प्रतिदिनं मेघनादः पद्भ्यां, द्विचक्रिकया वा पाठयितुं गच्छति स्म । एकवर्षं यावत् सः विशेषवर्गमाध्यमे (Tuition) धनोपार्जनम् अकरोत् ।
कोलकाताविश्वविद्यालये
[सम्पादयतु]१९१६ तमे वर्षे कोलकाता-विश्वविद्यालयस्य उपकुलपतिः प्रो. आशुतोष मुकर्जी इत्येषः गणितविभागस्य प्रवक्तृत्वेन मेघनादस्य नियुक्तम् अकरोत् । परन्तु गणितविभागस्य अध्यक्षेण सह (प्रो. गणेशप्रसाद) मेघनादस्य सम्बन्धः सामान्यः नासीत्, अतः उपकुलपतिः मेघनादस्य स्थानान्तरं भौतिकीविभागे अकरोत् । भौतिकीस्नातकः मेघनादः अविरतपरिश्रमेण स्नातकोत्तरछात्रान् पाठयित्वा शीघ्रं हि भौतिकीविषयस्य उत्तमाध्यापकत्वेन ख्यातः अभवत् । भौतिकीविषयस्य प्राध्यापकत्वेन मेघनादेन भौतिकीविषये अधिकं संशोधनम् आरब्धम् । जर्मनभाषायाः ज्ञाता मेघनादः ऐन्स्टैन् इत्यस्य आपेक्षिकतायाः विशिष्टसिद्धान्तः (Spezielle Relativitätstheorie or special theory of relativity) इत्येतस्य विषयस्य अध्ययनम् अकरोत् । ततः सत्येन्द्र-महोदयेन (सत्येन्द्र बोस) सह मिलित्वा तं सिद्धान्तम् आङ्ग्लभाषया अनूद्य प्रकाशयत् । आपेक्षिकतायाः विशिष्टसिद्धान्तः इत्येतस्य विषयस्य आङ्ग्लानुवादः प्रप्रथमं १९१९ तमे वर्षे कोलकाता-विश्वविद्यालेन प्रकाशितः [६]।
संशोधनक्षेत्रे
[सम्पादयतु]भौतिकीविषयस्य योग्यरीत्या अध्यापनस्य प्रयासं कर्तुं मेघनादः संशोधनस्य रसिकः अभवत् । भौतिकीविषयस्य विभिन्नविषयाणाम् अध्ययनं कुर्वन् चतुर्विंशतिवर्षीयः मेघनादः १९१७ तमे वर्षे “मैक्सवेल स्ट्रेसेज्” इत्येतस्मिन् विषये शोधपत्रम् अलिखत् । ‘फिलॉसॉफिकल मैगजीन’ इत्याख्यायां विज्ञानक्षेत्रस्य सर्वोच्चपत्रिकायां तच्छोधपत्रं प्राकाशितम् । शोधपत्रप्रकाशनानन्तरं तु मेघनादस्य ज्ञानं विश्वव्याप्तम् अभवत् । ततः मेघनादः सूक्ष्मग्राह्युपकरणस्य निर्माणम् अकरोत् । तस्य सूक्ष्मग्राह्युपकरणस्य प्रयोगावसरे मेघनादः असिद्धयत् यत्, यदा प्रकाशः कस्मिँश्चित् सूक्ष्मवस्तूनि पतति, तदा तस्मिन् वस्तूनि भारः भवति इति । मेघनादः तं भारम् अमापयत् । तस्य प्रयोगेण प्रकाशभारसिद्धान्तः सिद्धः अभवत् । ततः मेघनादेन विकिरणभारस्य विद्युदीयाकर्षणसिद्धान्तस्योपरि (On Radiation-Pressure and the Quantum Theory) शोधप्रबन्धः लिखितः [७] । मेघनादस्य प्रकाशभारसिद्धान्तस्य, विद्युदीयाकर्षणसिद्धान्तस्य च कार्येण सर्वेऽपि विज्ञानिनः मुग्धाः अभूवन् । १९१८ तमे वर्षे कोलकाता-विश्वविद्यालयः मेघनादाय डी. एस्. सी. इति उपाधिम् अयच्छत् । तस्मिन् समये मेघनादः पञ्चविंशतिवर्षीयः आसीत् ।
१९१९ तमे वर्षे मेघनादः कोलकाता-विश्विद्यालयात् ‘प्रेमचन्द रायचन्द’-छात्रवृत्तिं, गुरुप्रसन्नपर्यटनस्य फैलोशिप् च प्रापत् । फैलोशिप्, छात्रवृत्तिश्च मेघनादेन ‘हारवर्ड् क्लासिफिकेशन् ऑफ् स्ट्रेलर् स्प्रेक्ट्रा’ इत्यस्मिन् विषये शोधप्रबन्धं लिखित्वा अर्जिता । छात्रवृत्तिं प्राप्य सः १९१९ तमस्य वर्षस्य अन्तिमेषु मासेषु यूरोप-देशम् अगच्छत् । यस्मिन् पोते सः यात्रां कुर्वन् आसीत्, तस्मिन्नेव पोते अपरः भारतीयवैज्ञानिकः, आचार्यश्च प्रफुल्लचन्द राय इत्येषः महोदयः यात्रां कुर्वन् आसीत् । यात्रां समाप्य यदा मेघनादः यूरोप-देशं प्रापत्, तदा तस्य स्नेहमयाख्यस्य मित्रस्य परामर्शानुसारं सः इम्पीरियल्-महाविद्यालस्य प्राध्यापकेन फाउलर-महोदयेन सह मन्त्रणाम् अकरोत् । फाउलर्-महोदयः वर्णक्रमिकी-विषयस्य प्रख्यातः वैज्ञानिकः आसीत् । मेघनादः विभिन्नेषु विषयेषु फाउलर्-महोदयेन सह, जे जे टाम्सन्-महोदयेन सह (कैम्ब्रिज-विश्वविद्यालयस्य प्राध्यापकः), प्रो. नेर्न्स्ट-महोदयेन सह (जर्मनी-देशे प्राध्यापकः) च विचारविमर्शम् अकरोत् ।
“मैक्सवेल स्ट्रेसेज्” इत्येस्मिन् विषये मेघनादेन शोधपत्रं प्राकाशितम् । ततः वर्षद्वयाभ्यान्तरे एव मेघनादेन ‘तापीयावेशः’ (विद्युत द्वारा कणों को अविष्ट करने की क्रिया, Ionization) इत्यस्मिन् विषये गहनं संशोधनं कृतम् । मेघनादेन साधितं यत्, सूर्ये वायूनां परमाणुषु असाधारणोष्मा, असाधारणभारश्च भवति, तेन ऊष्मा-भारौ आवेशितौ भवतः । सः प्रक्रमः (Process) तापीयावेशः उच्यते । स्वसंशोधनस्य आधारेण मेघनादः तन्तौ तत्त्वानाम् उपस्थितिं ज्ञातुं मार्गं प्रादर्शयत् । १९२० तमे वर्षे मेघनादस्य ‘तापीयावेशसिद्धान्तः’ लन्दन-महानगरस्य ‘फिलॉसॉफिकल मैगजीन’ मध्ये प्रकाशितः । मेघनादस्य सः सिद्धान्तः अद्य Saha ionization equation इति प्रसिद्धः अस्ति ।
१९२१ तमे वर्षे कोलकाता-विश्वविद्यालयस्य उपकुलपतिः आशुतोष-महोदयः मेघनादाय एकं पत्रम् अलिखत् । तस्मिन् पत्रे सः उदलिखत्, भवान् भारतं प्रत्यागत्य पुनः कोलकाता-विश्वविद्यालये भौतिकीं पाठयतु इति । भवतः कृते विश्वविद्यालये संशोधनस्यापि व्यवस्था कृता इत्यपि तस्मिन् पत्रे लिखितम् आसीत् । उपकुलपतिना सम्मानितः मेघनादः कोलकाता-महाविद्यालयस्य भौतिकप्राध्यापकत्वेन वर्षद्वयं कार्यम् अकरोत् ।
अलीगढविश्वविद्यालयः, बनारसविश्वविद्यालयः च मेघनादं स्वप्रयोगशालायां नियुक्तं कर्तुं सज्जः आसीत् । परन्तु कोलकाता-विश्वविद्याले अधिकसाधनानाम् अभावं दृष्ट्वा मेघनादः कालोकता-महाविद्यालये एव अविरतं कार्यम् अकरोत् । भारतीयवातावरणविज्ञानविभागस्य निदेशकः सर गिलबर्ट् वाकर् इत्येषोऽपि कोडाईकनाल-वेधशालायां सूर्यरङ्गावल्याः (Sun’s Spectrum) विषये संशोधनं कर्तुं मेघनादं न्यवेदयत् । परन्तु अधिकवेचनस्य, अधिकसुविधायाः च लोभं त्यक्त्वा मेघनादः आङ्ग्लसर्वकारीयपदं नाङ्ग्यकरोत् ।
इलाहाबादविश्वविद्यालये
[सम्पादयतु]१९२३ तमे वर्षे कोलकाता-विश्वविद्यालयं त्यक्त्वा मेघनादः इलाहाबाद-विश्वविद्यालये भौतिकीविभागाध्यक्षस्य पदम् अगृह्णात् । तत्पदं सः पञ्चदश वर्षाणि स्वगौरवं व्यभूषयत् । इलाहाबाद-विश्वविद्यालये विद्युत्समस्या, प्रयोगशालासमस्या, उपकरणसमस्या, ऊष्णजलवायुसमस्या च आसीत् । यद्यपि इलाहाबाद-विश्विद्यालये तादृश्यः अनेकाः समस्याः आसन्, तथापि मेघनादस्य अध्यक्षतायां तस्य विश्वविद्यालयस्य भौतिकीविभागः अत्युन्नतिम् अकरोत् । मेघनादस्य काले इलाहाबाद-विश्वविद्यालयस्य प्रयोगशाला विश्वविख्याता आसीत् ।
१९२७ तमे वर्षे इटली-देशस्य महानतमस्य वैज्ञानिकस्य वोल्टा इत्यस्य जन्मशताब्द्यां डॉ. मेघनादः उपस्थितः । ततः १९३३ तमे वर्षे अमेरिका-देशस्य हार्वर्ड-विश्वविद्यालयस्य शताब्दी-समारम्भेऽपि मेघनादः ससम्मानम् उपस्थितः । इलाहाबाद-प्रयोगशालायाः आर्थिकस्थितिः अपि निर्बला आसीत् । १९२७ तमे वर्षे डॉ. मेघनादः ‘रॉयल् सोसाइटी’ इत्याख्यायाः संस्थायाः फैलो (एफ् आर् एस्) इति चितः । डॉ. मेघनादाय अभिनन्दनं पाठयितुम् उत्तरप्रदेशराज्यस्य राज्यपालः सर विलियम् मॉरिस् इत्येषः किञ्चन पत्रम् अलिखत् । राज्यपालं प्रत्युत्तरं लिखन् मेघनादः स्वार्थिकाऽक्षमतायाः उल्लेखम् अकरोत् । अतः सर् विलियम् मॉरिस् इत्येषः मेघनादाय पञ्च सहस्ररूप्यकाणि प्रैषयत् । ततः १९३५ तमे वर्षे रॉयल् सोसाइटी इत्येषा संस्था अपि मेघनादस्य द्वि सहस्ररूप्यकाणां साहाय्यम् अकरोत् । तेन धनेन डॉ. मेघनादः तापीयावेशक्षेत्रे संशोधनम् अकुर्वन् । ततः सः आयनमण्डलक्षेत्रेऽपि संशोधनमारभत । डॉ. मेघनादस्य आध्यक्ष्ये इलाहाबाद-विश्वविद्यालयस्य भौतिकीविभागात् अनेके योग्याः संशोधकाः संशोधनम् अकुर्वन् । तेषु संशोधकेषु डॉ. गोविन्दराम तोषनीवाल, डॉ. रामनिवास राय, डॉ. कल्याण बक्श माथुर, डॉ. रामरत्न वाजपेयी इत्यादयः महत्त्वपूर्णानि अनुसंधानानि अकुर्वन् ।
डॉ. मेधनादः १९३४ तमे वर्षे भारतीयविज्ञानकॉङ्ग्रेस-संस्थायाः अध्यक्षत्वेन निर्वाचितः । १९३७-३८ तमे वर्षे सः राष्ट्रियविज्ञानसंस्थानस्य अध्यक्षत्वेन नियुक्तः । १९३६ तमे वर्षे ‘कार्नेगी टैवलिंग फैलोशिप’ इत्येतत् अपि डॉ. मेघनादः प्रापत् ।
पुनः कोलकाता-विश्वविद्यालये नियुक्तः
[सम्पादयतु]पञ्चदश वर्षाणि इलाहाबाद-विश्वविद्यालये कार्यं कृत्वा १९३८ तमे वर्षे डॉ. मेघनादः कोलकाता-विश्वविद्यालये भौतिकी-प्राध्यापकत्वेन नियुक्तः अभवत् । सः भौतिक्याः तारकनाथ-पालित-पीठिकायाम् आरूढः अभवत् । इलाहाबाद-विश्वविद्यालयं त्यक्त्वा कोलकाता-विश्वविद्यालये नियुक्तः डॉ. मेघनादः मध्ये जर्मनीविज्ञान-अकादमी-संस्थायाः सदस्यः अभवत् । कोलकाता-विश्वविद्यालये पुनर्नियुक्तः डॉ. मेघनादः स्वसंशोधनस्य दिशाम् एव पूर्णतया पर्यवर्तयत् ।
डॉ. मेघनादः परमाणुविज्ञानक्षेत्रे यत् नाभिकीयभौतिकीत्वेन प्रसिद्धम् अस्ति, तस्मिन् विषये स्वानुसन्धानम् आरभत । विश्वविद्यालये अन्तरिक्षकिरणानुसन्धानप्रयोगशलां निर्मिय डॉ. मेघनादः परमाण्वनुसन्धानस्य प्रप्रथमं सोपानं पूर्णम् अकरोत् । डॉ. मेघनादः स्वछात्रौ दार्जिलिंग-प्रदेशस्य २१०० मी. उन्नतं पर्वतम् अन्तरिक्षकिरणमापनाय प्रैषयत् । तौ छात्रौ डॉ. एन् दासगुप्त, पी सी भट्टाचार्य च आस्ताम् । नाभिकीयभौतिकीक्षेत्रे अनुसन्धानाय आवश्यकं ‘साइक्लोट्रॉन्’ इत्यस्य स्थापनायै जवाहरलाला नेहरू इत्येषः, कोलकाता-विश्वविद्यालयः, केचन उद्योगपतयः, टाटा एण्ड सन्स्-संस्था इत्यादयः डॉ. मेघनादस्य आर्थिकसाहाय्यम् अकुर्वन् । साइक्लोट्रॉन् (Cyclotron) इत्यस्य स्थापनायै डॉ. नागचौधरी, बी एम् बनर्जी, डॉ. अजीतकुमार साहा, कमलेश राय इत्यादयः नवयुवानः डॉ. मेघनादस्य साहाय्यम् अकुर्वन् ।
साइक्लोट्रॉन् (Cyclotron) इत्यस्मात् रेडियो-कैल्शियम्, रेडियो-फास्फोरस् इत्यादीनां कृत्रिमतत्त्वानां निर्माणं शक्यते । तानि कृत्रिमतत्त्वानि चिकित्साक्षेत्रे उपयुज्यन्ते । डॉ. मेघनादस्य आग्रहेण ‘इण्डियन् स्कूल ऑफ् ट्रापिकल मिडिसन्’ इत्येषा संस्था स्वरोगिणः डॉ. मेघनादस्य प्रयोगशालां प्रेषयति स्म । साइक्लोट्रॉन् इत्यस्य संशोधनस्य कृते शक्तिशालिसूक्ष्मदर्शिणः अपि आवश्यकता अनुभूता डॉ. मेघनादेन । यतो हि एतादृशे संशोधने तत्त्वानि कैंसर, ल्यूकोमिया, ट्यूमर इत्यादिभिः रोगैः ग्रस्तानि अपि भवन्ति स्म । तादृशैः तत्त्वैः युक्तानां रोगिणां शरीरे रक्तपरिवर्तनं, जीवाणूनां जन्म च भवति । रक्ते जायमानं परिवर्तनं, जीवाणूनाम् अभ्यासः च शक्तिशालिसूक्ष्मदर्शिना एव ज्ञातुं शक्यते ।
एकलक्षरूप्यकमूल्यात्मकं तत् इलेट्रॉन्-सूक्ष्मदर्शियन्त्रं भारते कुत्रापि उपलब्धं नासीत् । तथा च भारते कोऽपि तादृशं यन्त्रं सञ्चालयितुम् अपि न जानाति स्म । परन्तु डॉ. मेघनादेन तस्य यन्त्रस्य क्रयणनिश्चयः कृतः । यन्त्रं क्रेतुं डॉ. मेघनादस्य साहाय्यं केन्द्रसर्वकारः, वङ्गसर्वकारः, उद्योगपतयः इत्यादयः अकुर्वन् । १९४५ तमे वर्षे डॉ. एन् दासगुप्त इत्येनम् अमेरिका-देशं सम्प्रेष्य स्टैनफोर्ड-विश्वविद्यालयस्य मार्टेन इत्याख्यस्य प्राध्यापकस्य साहाय्येन डॉ. मेघनादः इलेक्ट्रॉन्-सूक्ष्मदर्शियन्त्रस्य परिकल्पनां निर्मापितवान् । तथा च तस्य यन्त्रस्य अनेके अवयवाः तस्मिन् स्टैनफोर्ड-विश्वविद्यालये एव निर्मापितानि । प्रयोगशालायाः कार्येण सह डॉ. मेघनादः सर्वकारीयकार्येषु अपि सँल्लग्नः आसीत् । १९४९ तमे वर्षे डॉ. सर्वपल्ली राधाकृष्णन्-महोदयस्य अध्यक्षतायां निर्मितस्य विश्वविद्यालयायोगस्यापि सः सदस्यः आसीत् ।
डॉ. मेघनादस्य प्रयासाः १९५० तमे वर्षे फलीभूताः । १९५० तमे वर्षे कोलकाता-विश्वविद्यालयस्य ‘यूनिवर्सिटी कॉलेज् ऑफ् साइंस्’ इत्यस्यां संस्थायां ‘इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’ इत्यस्याः संस्थायाः स्थापना अभवत् । ततः तस्याः संस्थायाः नाम परिवर्तितं सत् ‘साहा इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’ इत्येयत् अभवत् । तस्याः संस्थायाः विधिवदुद्घाटनं १९५० तमस्य वर्षस्य जनवरी-मासस्य एकादशे (११/१/१९५०) दिनाङ्के अभवत् । ‘साहा इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’-संस्थायाः उद्घाटनं नॉबेल-पुरस्कारविजेत्री आइरीन् जोलियो क्यूरी इत्येषा अकरोत् । डॉ. मेघनादः आजीवनं तस्याः संस्थायाः अवैतनिकनिदेशकपदं व्यभूषयत् । ततः तेन नाभिकीयभौतिकी-न्यूट्रॉन्-भौतिकी-नाभिकीयरसायन-कण-त्वरित्रादिक्षेत्रेषु गभीरानुसन्धानं प्रारब्धम् । तेन सह स्नातकोत्तस्य अध्ययनाध्यापनं च प्रारब्धम् । एवं डॉ. मेघनादेन द्वयोः अदम्यविभागयोः स्थापना कृता । प्रथमः नाभिकीयभौतिकी, अपरः जीवभौतिकी च ।
१९५२ तः १९५६ पर्यन्तं कोलकाता-विश्वविद्यालये भौतिक्या निवृत्तप्राध्यापकत्वेन कार्यम् अकरोत् । १९५०-१९५६ इंस्टीट्यूट ऑफ् न्यूक्लियर् फिजिक्स्-संस्थायाः संस्थापकस्य, निदेशकस्य च पदे आसीत् । १९५५-१९५६ मध्ये ‘इण्डियन् एसोसिएशन् फॉर् द कल्टीवेशन् ऑफ् साइंस’ इत्यस्याः संस्थायाः निदेशकः आसीत् ।
संशोधनानि, कार्याणि च
[सम्पादयतु]डॉ. मेघनादः संशोधनक्षेत्रे अनेकानि कार्याणि अकरोत् । तेषां कार्याणाम् अन्तर्गततया मेघनादस्य मतानि, विचाराः, अन्यजनैः सम्पर्काः च आसन् । तस्य प्रसिद्धेः कारणेन तस्य जीवनस्य अनेके प्रसङ्गाः उपलभ्यन्ते ।
ताराकीयवर्णक्रमः
[सम्पादयतु]रदरफोर्ड्, बोर इत्येतयोः सिद्धान्तयोः उपयोगं कृत्वा तारकीयवर्णक्रमाणां भेदं ज्ञातुं प्रप्रथमः प्रयासः डॉ. मेघनादेन कृतः । ताराणां वर्णक्रमाणां स्रोतसां प्राकृतिकस्पष्टीकरणं प्रस्तुत्य तस्य विषयस्य जटिलताम् अपाकरोत् सः । अनेकेषां वैज्ञानिकानां मते तारकीयवर्णक्रमक्षेत्रे डॉ. मेघनादस्य संशोधनं मौलिकं, स्वाभाविकं च आसीत् । ऊष्णपदार्थानां शनैः शनैः जायमानायाः विभाजनप्रक्रियायाः स्मरणं कृत्वा पदार्थः वायुत्वेन परिवर्तितः भवति । तस्य वायोः अणवः पदार्थत्वेन परिणमन्ति । ततः ते अणवः क्रमेण घटकतत्त्वेषु, अणुतत्त्वेषु, परमाणुतत्तवेषु च परिणमन्ति । अतः डॉ. मेघनादः अवदत्, "अधिके तापमाने ६००० ° उत तस्मात् अधिके तापमाने यदि तारा भवति, तर्हि तारायाः अनेके घटकपरमाणवः स्वबाह्योपग्रहीयविद्युदणुं (इलैक्टॉन्) त्यजति" इति । डॉ. मेघनादस्य मौलिकसंशोधनं तस्मै अन्ताराष्ट्रियख्यातिम् अयच्छत् । तस्य सिद्धान्तः 'नक्षत्राणां रश्मिचित्राणां भौतिकसिद्धान्तः' इति प्रसिद्धः ।
तापगतिकीयनियमाः, गतिजसिद्धान्तश्च
[सम्पादयतु]अग्रे विविधवायूनां गतिजसिद्धान्तानां, तापगतिकीयसिद्धान्तानां च विविधवायुषु परीक्षणं कर्तुम् इच्छति स्म डॉ. मेधनादः । इलेक्टॉन्-आयन-परमाणूनां वायुमिश्रितेषु गतिजसिद्धान्तेषु सङ्ख्यात्मकसूत्राणां प्रयोगं कृत्वा मेघनादः प्रामाणयत्, "यस्य कस्यापि तत्त्वस्य परमाणूनां खण्डनम् उत आवेशीकरणम् उच्चतापमानादेव न, अपि तु निम्नभारेणापि शक्यम् अस्ति । यावत् पर्यन्तं कस्यचित् परमाणोः विभाजनस्य, पुनर्मिलनस्य च गतिः सन्तुलिता न भवति, तावत् उच्चतापमाने उत उच्चभारे कस्यचित् परमाणोः इलैकट्रॉन् इत्यस्य, खण्डितभागानां च विभाजनप्रक्रिया स्वतः सातत्येन प्रचलति" इति । उक्तविषयस्य सिद्धये डॉ. मेघनादस्य समीकरणम् एकमात्रं गणितीकरणम् आसीत् । तस्य सिद्धान्तेन कस्यचित् तारकीयवायुमण्डले आवेशीकरणस्य गणनां कर्तुं शक्यते । डॉ. मेघनादः प्रप्रथमवारं कस्यचित् तारकस्य, परमाणोः च गहनसम्बन्धम् उपास्थापयत् । डॉ. मेघनादस्य स एव सिद्धान्तः ताराभौतिक्याः आधारः अभवत् ।
सामान्यपरिप्रक्ष्ये डॉ. मेघनादस्य तारा-परमाण्वोः सिद्धान्तः मनुष्यजीवनस्य कृते अनुपयोगी प्रतिभाति । परन्तु आवेशीकरणस्य सिद्धान्तः अस्माकं नित्य-नैमित्तिककार्येषु अत्यधिकोपयोगी अस्ति । यथा – रेडिया-तरङ्गाणां प्रेक्षणं, ज्वालामूखिनां संवहनं, विस्फोटकप्रतिक्रियाणां निर्माणम् इत्यादिषु ।
ज्योतिभौतिकविज्ञानम्
[सम्पादयतु]१९३८ तमे वर्षे डॉ. मेघनादः कोलकाता-विश्वविद्यालयस्य 'बोस रिसर्च इंस्टीट्यूट्'-संस्थायाः निदेशकः अभवत् । तस्मिन् पदे आसीनः सन् सः अनेकान् आविष्कारान् अकरोत् । तेषु मुख्याः १. तापमानसिद्धान्तः २. नॉपजन ३. वर्णपटविज्ञानम् ४. परमाणोः रचना ५. 'डाइरेक्' इत्यस्य परमाणुसिद्धान्तः । उक्ताध्ययनैः डॉ. मेघनादः ज्योतिभौतिकविज्ञानक्षेत्रे अनेकानि संशोधनानि अकरोत् । तस्य सर्वं संशोधनं मौलिकम् आसीत् । ज्योतिर्भौतिकविज्ञाने आकाशीय-पिण्डानां भौतिकावस्थितिः, प्रकाशः, तापक्रमः, वायुमण्डलरचना इत्यादयः डॉ. मेघनादस्य अध्ययनविषयाः आसन् ।
नदीसमस्यायाः व्याख्या
[सम्पादयतु]भारतीयनदीनां समस्याः परिहर्तुं डॉ मेघनादेन अनेके उपायाः निर्दिष्टाः । १९१३ तमे वर्षे वङ्गप्रदेशस्य दामोदरनद्यां भयङ्करे आप्लवे (flood) जाते, डॉ मेघनादेन अनेकेषां शिबिराणाम् आयोजनं कृतम् आसीत् । ततः १९२३ तमे वर्षे वङ्गप्रदेशस्य उत्तरदिग्भागेऽपि आप्लवे सञ्जाते डॉ मेघनादः शिबिराणाम् आयोजनम् अकरोत् । तेषु वर्षेषु तस्य यः अनुभवः आसीत्, तस्य आधारेण स्वसंशोधनं कृत्वा डॉ. मेघनादः 'मॉर्डन् रिव्यू' इत्यादिषु समाचरापत्रेषु लेखान् अपि अलखित् । १९१३ तः १९४० पर्यन्तं डॉ. मेघनादेन नदीसमस्यानां यत् किमपि संशोधनं कृतम् आसीत्, तेन आधारेण तेन नदीसमस्यानां काचित् व्याख्या उपस्थापिता ।
नदीसमस्यानां व्याख्यां कुर्वन् सः उदलिखत्, जर्मनी-अमेरिका-रूस-देशानां वैज्ञानिकप्रयोगशालासु नदीनियन्त्रणसम्बद्धाः प्रयोगाः भवन्ति । तेषां प्रयोगाणाम् आधारेण ते नदीनियन्त्रणस्य कार्यं सुचारुरीत्या कुर्वन्ति । अतः डॉ मेघनादस्य इच्छा आसीत् यत्, भारतेऽपि नदीसंशोधनस्य प्रयोगशालाः भवेयुः इति । तेन नदीसंशोधनशालायाः स्थापनायाः विचाराः अनेकासु पत्रिकासु अपि प्रकाशिताः । तैः लेखैः डॉ मेघनादः सर्वकारस्य ध्यानं नदीप्रयोगशालां प्रति आक्रष्टुम् इच्छति स्म ।
१९४२ तमे वर्षे तस्य प्रयासाः सफलाः अभूवन् । तस्मिन् वर्षे वङ्गप्रदेशे "नद्यनुसन्धानसंस्थान"स्य स्थापना अभवत् । १९४३ तमे वर्षे पुनः दामोदरनद्यां आप्लवे सञ्जाते सति सर्वकारः आप्लवनिवारणयोजनासमितेः अध्यक्षपदे डॉ मेघनादस्य नियुक्तिम् अकरोत् । आप्लवनिवारणसमितेः अध्यक्षो भूत्वा सः दामोदरनदीम् उपलक्ष्य अनेकाः योजनाः अरचयत् । सः अमेरिका-देशस्य 'टेनिसी वैली अथॉरिटी'-संस्थावत् 'दामोदर वैली कॉरपोरेशन्'-संस्थायाः रचनाम् अकरोत् । तस्याः संस्थायाः निरीक्षणे दामोदरनद्याः तटे अनेकेषां योजनानां क्रियान्वयः अभवत् ।
नवीनपञ्चाङ्गस्वीकारः
[सम्पादयतु]डॉ मेघनादः भारतीयज्योतिश्शास्त्रेऽपि रुचिमान् आसीत् । यदा सः जयपुरस्य महाराजा-महाविद्यालयं पाठयितुम् अगच्छत्, तदा सः आविश्वं प्रसिद्धं जन्तरमन्तरवेधशालाम् अपि अगच्छत् । 'कौंसिल ऑफ् साइंटिफिक् एंड इंडस्ट्रियल् रिसर्च'-संस्थायाः आग्रहेण डॉ. मेघनादः १९५२ तमे वर्षे पञ्चाङ्गसंशोधनसमितेः अध्यक्षः अभवत् । वर्षत्रयानन्तरं १९५५ तमे पञ्चाङ्गसंशोधनप्रबन्धः तेन यूनेस्को-संस्थायाः सम्मुखम् उपस्थापितः । तस्मिन् प्रबन्धे डॉ मेघनादेन यत् संशोधनं कृतम् आसीत्, तेन सर्वेऽपि अति प्रसन्नाः आसन् । सः भारतसर्वकाराय अपि काँश्चन परामर्शान् अयच्छत् । ततः भारतसर्वकारेणापि नवीनपञ्चाङ्गस्य स्वीकारः कृतः ।
राजनेता
[सम्पादयतु]बाल्याकालात् निर्धनतायाम् अध्यापितः डॉ मेघनादः स्वसामर्थ्येन अनेकासां संस्थानां संस्थापकः, सहस्थापकः, अध्यक्षः च अभवत् । तस्य ज्ञानेन, कार्यैः च भारतं गर्वान्वितम् आसीत् । १९५२ तमे वर्षे यदा लोकसभायाः निर्दलीयसदस्यत्वेन डॉ मेघनादः निर्वाचने भागम् अवहत्, तदा सः बहुभिः मतैः निर्वाचने विजयी अभवत् । सः कोऽपि राजनेता नासीत्, अपि तु सः सत्तायाः उपयोगं कृत्वा भारते विज्ञानविकासं कर्तुम् इच्छति स्म । अतः तेन संसदि ये केऽपि अंशा उद्घोषिताः, तेषु अधिकाः विज्ञानसम्बद्धाः आसन् । १९५४ तमस्य वर्षस्य मई-मासस्य दशमे (१०/५/१९५४) दिनाङ्के संसदि परमाणूर्जायाः शान्तिपूर्णोपयोगे वादः आरब्धः । डॉ मेघादस्य प्रयासैः तस्य वादस्य आरम्भः आसीत् । डॉ. मेघनादः संसदि बहुधा भारते प्रयोगशालायानाम् आधुनिकीकरणस्य विषयान् उपस्थापयति स्म । यतो हि तस्य मतम् आसीत् यत्, भारतीयप्रयोगशालाः आधुनिकोपकरणैः, पुस्तकालयैः च समृद्धाः स्युः इति ।
विस्थापितेभ्यः कार्यम्
[सम्पादयतु]१९५० तमे पूर्ववङ्गप्रदेशात् विस्थापितानां साहाय्यार्थं डॉ मेघनादः साहाय्यशिबिरस्य निर्माणम् अकरोत् । यद्यपि सः स्वयम् उच्चरक्तचापेन, आंशिकपक्षाघातेन च पीडितः आसीत्, तथापि सः तेषां साहाय्यार्थं गच्छति स्म । सः असमराज्यस्य, त्रिपुराराज्यस्य विस्थापितानाम् अपि साहाय्यार्थं गच्छति स्म ।
१९५६ तमस्य वर्षस्य फरवरी-मासस्य त्रयोदशे (१३/२/१९५६) [९] दिनाङ्के मेघनादः संसदः आयव्ययसत्रे (Budget Session) भागं वोढुं सः देहलीम् अगच्छत् । तत्र तेन विस्थापितानां समस्याः, अनुद्योगितायाः (unemployment), नदीनियन्त्रणस्य च अंशाः चर्चिताः ।
मृत्युः
[सम्पादयतु]१९५६ तमस्य वर्षस्य फरवरी-मासस्य षोडशे (१६/२/१९५६) [९] दिनाङ्के डॉ मेघनादः महत्त्वपूर्णानि प्रलेखनानि (Documents) नीत्वा राष्ट्रपतिभवनं गच्छन् आसीत । परन्तु मार्ग एव सः मूर्छितः अभवत् । मूर्छितं डॉ मेघनादं कश्चन सज्जनः चिकित्सालयम् अनयत् । परन्तु तावता डॉ मेघनादः देहं त्यक्तवान् आसीत् । डॉ मेघनादस्य संस्मरणे विज्ञानक्षेत्रे विशिष्टानुसन्धानकृद्भ्यः प्रतिवर्षं 'डॉ मेघनाद साहा स्मारक'-पुरस्कारः प्रदीयते ।
व्यक्तित्वम्
[सम्पादयतु]यद्यपि डॉ. मेघनादः संशोधनकत्वेन स्वजीवनं समार्पयत्, ताथापि सः आदिनं प्रयोगशालायां स्थित्वा संशोधनं न करोति स्म । सः बर्नाल्, हाल्डेन्, जूलियट् क्यूरी इत्यादिवत् स्वसहयोगिभिः सह स्थित्वा तान् विज्ञानस्य सामाजिकोद्देशान् प्रति कर्तव्यभावं प्रबोधयति स्म । तस्य मतम् आसीत् यत्, स्वतन्त्रभारते वैज्ञानिकानां कार्येण अर्थव्यवस्थाविकासः भवतु । प्रत्येकस्मिन् स्तरे तान्त्रिकज्ञानं व्यापकं स्यात् इति । अत एव सः स्वजीवनस्य अन्तिमेषु वर्षेषु शिक्षा-औद्योगिकीकरण-राष्ट्रियायोजन-नदीयोजना-समाजवाद-कृषि-इत्यादीनां कृते कार्यं कृतवान् । शिक्षादीनां विकासे विज्ञानस्य बाहुल्येन उपयोगः एव तस्य लक्ष्यम् आसीत् । अतः तेन तेषां विषयाणां समस्याः निवारयितुं स्वपूर्णं ध्यानं योजितम् ।
१९३५ तमात् वर्षात् सः 'साइंस् एण्ड कल्चर्'-पत्रिकायां प्रतिमासं विभिन्नानां समाजोपयोगिविषयाणां सम्पादनं करोति स्म । तेषु विषयेषु मुख्यत्वेन देशविकाससम्बद्धाः अंशाः भवन्ति स्म । भारतीयोद्योगपतिभिः, वैदेशिकधनिकैः च यद्धनं भारतात् बहिः गच्छति स्म, तस्य विरोधाय सः स्वपत्रिकासु पौनःपौन्येन लिखति स्म । डॉ. मेघनादः भारते औद्योगिकोन्नतिम् इच्छति स्म, येन भारतीयसमाजः आधुनिकव्यावहारिकविज्ञानेन लाभान्वितः स्यात् । तस्य इच्छा आसीत् यत्, भारतं शीघ्रातिशीघ्रं सुखि, समृद्धं च भवेत् ।
भारतीयानां मार्गदर्शनावसरे सः सोवियतसङ्घस्य उदोहरणं दत्त्वा वदति स्म यत्, यथा सोवियतसङ्घवासिभिः भारतात् अपि अधिकानां समस्यानां प्रतीकारं कृत्वा स्वस्य सामन्तवादी, कृषिप्रधानः च देशः समृद्धः कृतः, तथैव अस्माभिः स्वदेशे करणीयम् । आधुनिकविज्ञानेन, तान्त्रिकसाहाय्येन च निर्धनदेशोऽपि समृद्धः भवितुम् अर्हति इति । अतः डॉ. मेघनादः वैज्ञानिकानां प्रतिभाविकासम् अपि समृद्धभारताय विभिन्नमार्गेषु मुख्यमार्गत्वेन परिगणयति स्म । वैज्ञानिकानां प्रतिभाविकासाय कार्यं कर्तुं सः स्वयम् अपि उत्सुकतापूर्वकं कार्यं करोति स्म । सः जानाति स्म यत्, निर्धनतायाः कारणेन कथं प्रतिभायाः विकासः अवरुणद्धि ? इति । यतो हि सः स्वयं निर्धनतायाः कारणेन अनेकानि कष्टानि असहत ।
स्वबाल्यकालस्य स्मरणं कृत्वा सः तं वैद्यं (डॉ. अनन्तकुमार दास) प्रति स्वकृतज्ञतां प्रदर्शयति स्म, यस्य साहाय्यनेन सः अपठत् । १९३५ तमे वर्षे वैज्ञानिकज्ञानस्य प्रसाराय डॉ. मेघनादेन 'साइंस एण्ड कल्चर्'-पत्रिकायाः आरम्भः कृतः । तस्यां पत्रिकायां सः शताधिकान् लेखान् अलिखत् । तेषु शतष्षु राष्ट्रिययोजना-वैज्ञानिकशिक्षा-उद्योग-भूभौतिकी-आप्लव-अदुष्कालनियन्त्रण-परमाणुभौतिकी-पुरातत्वादीनां स्वानुसन्धानम् अलिखत् । तेषु विषयेषु तस्य असाधारणज्ञानस्य, व्यापकदृष्टेः च पूर्णतया बोधः भवति ।
१९३८ तमे वर्षे भारतीयराष्ट्रियकॉङ्ग्रेस-दलस्य कस्याँञ्चित् सभायां सुभाषचन्द्रस्य भाषणे समाप्ते सति डॉ मेघनादः तं पृष्टवान् । सः अपृच्छत्, किं स्वतन्त्रे भारते पारम्परिकसंसाधनैः कृषिः भविष्यति ? अर्थात् शकटाधारितानां कृषिसाधनानाम् उपयोगेन उत आधुनिकयन्त्राणाम् उपयोगेन कृषिः भविष्यति ? इति । ततः सः स्वमतम् अपि उपास्थापयत्, "यदि भारम् उन्नतिं कर्तुम् इच्छति, तर्हि भारते व्यापकतया विशुद्धं, व्यावहारिकं च अनुसन्धानम् आवश्यकम् । सर्वैः वैज्ञानिकैः मिलित्वा शिक्षायाः, अनुसन्धानस्य च राष्ट्रिययोजना निर्मिय तस्याः क्रियान्वयः करणीयः" इति ।
१९३८ तमे वर्षे पण्डितः यदा राष्ट्रिययोजानासमितेः अध्यक्षः आसीत्, तदा ईन्धनस्य, शक्तेः च उपसमित्याध्यक्षः डॉ मेघनादः आसीत् । तस्मिन् काले तेन भारते नदीनां समस्याः गाम्भीर्येण परिलक्षिताः । ततः राष्ट्रियोजनासमितेः सिञ्चनस्य, जलमार्गाणां च उपसमितेः अपि सः अध्यक्षपदं व्यभूषयत् । १९४० तमे वर्षे डॉ मेघनादः डॉ शान्तिस्वरूपस्य अध्यक्षतायां भारतसर्वकारस्य 'कौंसिल ऑफ् साइंटिफिक एण्ड् इंडस्ट्रियल् रिसर्च'-संस्थायां सदस्यः अभवत् । सर्वेषु पदेषु डॉ मेघनादस्य कार्यं भारतविकासस्य लक्ष्यं प्रति सवेगम् आसीत् । तस्य वरदहस्तैः अनेकेषां नवीनानां प्रयोगाणां शिलान्यासः अभवत् । सः विद्यार्थिनः पौनःपुन्येन वदति स्म यत्, "परिश्रमेण कार्यं कुर्वन्तः भवन्तु, प्रतिष्ठां स्वतः प्राप्स्यन्ति" इति ।
प्रसिद्धः ज्योतिश्शास्त्री सर एण्डिक्टन् इत्येषः अवदत्, ज्योतिश्शास्त्रे गैलिलियो इत्यस्मात् अद्य पर्यन्तं ये आविष्काराः अभूवन्, तेषु भारतस्य महतः वैज्ञानिकस्य डॉ मेघनादस्य आविष्काराः अपि महत्त्वपूर्णाः सन्ति इति ।
लिखितानि पुस्तकानि
[सम्पादयतु]- ए ट्रीटीड ऑन् दी थ्योरी ऑफ् रिलिटिविटी
- ऑन् ए फिजीकल थ्योरी ऑफ दी सोलर कोरोना
- ए ट्रीटीज ऑन हीट
- ए ट्रीटीज ऑन् मॉर्डन् फिजिक्स
- माई एक्सपीरियेंस इन रशिया
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ Santimay Chatterjee, Enakshi Chatterjee (1984). Meghnad Saha, scientist with a vision. National Book Trust, India. p. 5. "Even though he later came to be known as an atheist, Saha was well-versed in all religious texts— though his interest in them was purely academic."
- ↑ Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. University of Chicago Press. p. 602. ISBN 9780226019758. "a self-described atheist, saha loved swimming in the river and his devout wife loved the sanctity of the spot. swimming and walking were among the few things they could do together."
- ↑ Eminent scientists published by Scholastic India pvt. Ltd.
- ↑ कुष्णमुरारी लाल श्रीवात्सव (2015). भारतीय वैज्ञानिक. प्रतिभा प्रतिष्ठान, नई दिल्ली. p. 141. ISBN 978-93-83111-68-8.
- ↑ Indian Parliament (1952-57) book
- ↑ https://archive.org/stream/principleofrelat00eins/principleofrelat00eins_djvu.txt
- ↑ http://adsabs.harvard.edu/full/1919ApJ....50..220S
- ↑ http://www.saha.ac.in/web/about-sinp/brief-history
- ↑ ९.० ९.१ कुष्णमुरारी लाल श्रीवात्सव (2015). भारतीय वैज्ञानिक. प्रतिभा प्रतिष्ठान, नई दिल्ली. p. 151. ISBN 978-93-83111-68-8.
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- http://www.iloveindia.com/indian-heroes/meghnad-saha.html
- http://www.vigyanprasar.gov.in/scientists/saha/sahanew.htm
- http://scientistsinformation.blogspot.in/2010/01/meghnad-saha-1893-1956.html
- http://www.importantindia.com/10350/biography-of-meghnad-saha/ Archived २०१६-०३-०४ at the Wayback Machine
- http://www.thefamouspeople.com/profiles/meghnad-saha-5301.php
- http://h2g2.com/entry/A22268351
- डॉ. मेघनादस्य संशोधनपत्रम्
- "डॉ मेघनाद साहा". आह्रियत 2008-05-31.
- जीवनी
- चित्रा रोय द्वारा स्वपितुः विषये लिखितं पुस्तकम् Archived २०११-०७-१३ at the Wayback Machine
- जीवनी Archived २००८-०९-०७ at the Wayback Machine
- ScienceWorld: साहासमीकरणम्
- डॉ मेघनादस्य संशोधनप्रबन्धानां सूचिः