सामग्री पर जाएँ

झालावाडमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Jhalawar district इत्यस्मात् पुनर्निर्दिष्टम्)
झालावाडमण्डलम्
मण्डलम्
राजस्थानराज्ये झालावाडमण्डलम्
राजस्थानराज्ये झालावाडमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ६,९२८ km
Population
 (२००१)
  Total १४,११,३२७
Website http://jhalawar.nic.in

झालावाडमण्डलं (हिन्दी: झालावाड़ जिला, आङ्ग्ल: Jhalawar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति झालावाडनामकं नगरम् ।

भौगोलिकम्

[सम्पादयतु]

झालावाडमण्डलस्य विस्तारः ६९२८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे, पश्चिमे, दक्षिणे मध्यप्रदेशराज्यम्, उत्तरे कोटामण्डलं, बाडमेरमण्डलं च अस्ति । अस्मिन् मण्डले ८० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले काली सिन्ध इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं झालावाडमण्डलस्य जनसङ्ख्या १४,११,३२७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ६२.१३ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि-

  • झालावाड
  • अकलेर
  • भवानी मण्डी
  • पिरावा
  • खानपुर
  • मनोहर टाण

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • झालावाड किला
  • भवानी नाट्यशाला
  • चन्द्रबाग मन्दिरम्
  • गग्रोन किला
  • झल्रपाटन
  • रता देवी मन्दिरम्
  • चान्दकेरी जैनमन्दिरम्
  • जयगढ किला
  • सिटी पैलेस
  • रामबाग विशिप

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=झालावाडमण्डलम्&oldid=464754" इत्यस्माद् प्रतिप्राप्तम्