जूनागढ
जुनागढ જૂનાગઢ | |
|---|---|
|
नगरम् | |
|
| |
| देशः | भारतम् |
| राज्यम् | गुजरातराज्यम् |
| मण्डलम् | जुनागढ |
| Government | |
| • Body | Junagadh Municipal Corporation |
| • Mayor | Mr. Lakhabhai Parmar |
| • Municipal Commissioner | Ms. Vipra Bhal |
| • Member of Legislative Assembly | Mr. Mahendra Mashru |
| Area | |
| • Total | ५९ km२ |
| Elevation | १०७ m |
| Population (2011) | |
| • Total | ३,२०,२५० |
| • Density | ५,४००/km२ |
| भाषाः | |
| • अधिकृताः | गुजराती, हिन्दी, आङ्ग्लभाषा |
| Time zone | UTC+5:30 (IST) |
| पिन् |
362 00X |
| Telephone code | 0285 |
| Vehicle registration | GJ-11 |
| Civic agency | Junagadh Municipal Corporation |
| Website | www.junagadhmunicipal.org |


गुजरातराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति जुनागढमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति जुनागढ (गुजराती: જુનાગઢ, आङ्ग्ल: Junagadh) इति नगरम् ।
इतिहासः
[सम्पादयतु]अस्य नगरस्य ऐतिहासिकं महत्वं वर्तते । प्रख्यातस्य भक्तवर्यस्य श्रीनरसिंहमहेतामहोदयस्य प्रदेशः अयम् । इतिहासे गिरनार, देवगिरिः इत्यादिभिः नामभिः प्रसिद्धमासीत् इदं नगरम् । गान्धेः अतिप्रियं 'वैष्णवजनतो'गीतं श्रीनरसिंहमहेतामहोदयेन लिखितमस्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]जैनानां पुण्यक्षेत्रमिदं रेवतिगिरिः इति प्रख्यातम् । मौर्यराजस्य अशोकस्य कालतः अपि जुनागढनगरं ख्यातमस्ति । अत्र अनेकानि मुसल्मानप्रार्थनामन्दिराणि सन्ति । तानि जामीमसीदि, नूरिषहस्मारकं, आदिचादि इत्यादीनि । अत्र समीपे १५०० वर्षप्राचीनाः बौद्धगुहाः सन्ति । जुनागढ-मृगालयः, सकरबाग्-सङ्ग्रहालयः, दरबारसङ्ग्रहालयः च दर्शनीयानि सन्ति । अत्र विद्यमानानि दीपगुच्छानि, किरीटानि, शिबिकाः च अतीव सुन्दराणि सन्ति । भगवान् दत्तात्रेयः शिखरे अदृश्यरूपेण वसति इति वदन्ति । गिरनारगिरिदेवालयस्य मार्गे क्रिस्तपूर्वतनस्य २५० वर्षीयप्राचीनं अशोकचक्रवर्तिनः शासनमस्ति । आहत्य अत्र १४ शासनानि सन्ति । रुद्रधाम्नि अपि मौर्यराजेन स्कन्दगुप्तेन निर्मितं शासनम् अस्ति । जुनागढतः ४ कि.मी दूरे एतानि शासनानि सन्ति । गिरनारपर्वते दामोदरकुण्डः इति किञ्चन तीर्थम् अस्ति । पर्वतारोहणाय १०,००० सोपानानि शिलाभिः निर्मितानि सन्ति । अमृतशिलानिर्मिताः ५ जैनदेवालयाः अत्र सन्ति । तेषु नेमिनाथदेवालयः अतिविशालः अस्ति । कृष्णशिलया नेमिनाथमूर्तिः निर्मिता अस्ति । मल्लिनाथदेवालयः तु त्रिवलिदेवालयः अस्ति । गिरिशिखरे अम्बामातादेवालयः अपि अस्ति । नवविवाहिताः सुखजीवनाय तत्र गत्वा देवीं प्रार्थयन्ति ।