निदर्शनालङ्कारः
दिखावट
(Nidarshanalankara इत्यस्मात् पुनर्निर्दिष्टम्)
लक्षणश्लोकः
[सम्पादयतु]- वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
- यद्दारुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥
विवरणम्
[सम्पादयतु]अत्र दातृपुरुषसौम्यत्वस्य उपमेयत्वस्य उपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्य उपमानवाक्यार्थस्य यत्तद्भ्यामैक्यारोपः ।
उदाहरणान्तरम्
[सम्पादयतु]- अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
- स्थलेऽब्जमवरोपितं सुचितमूषरे वर्षितम् ।
- श्वपुच्छमवनामितं वधिरकर्णजापः कृतो
- धृतोऽन्धमुखदर्पणो यदबुधोजनसेवितः ॥
अत्र बुधजनसेवायाः अरण्यरोदनादीनां च यत्तद्भ्यामैक्यारोपः ।