सामग्री पर जाएँ

कल्पना चावला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कल्पना चावला
NASA Astronaut
जन्म 17 March 1962
Karnal, Haryana, India
मरणम् १ २००३(२००३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०१) (आयुः ४०)
Aboard Space Shuttle Columbia over Texas, U.S.
पूर्ववृत्तिः Research Scientist
समयावधिः 31 days, 14 hours, 54 minutes
चयनम् 1994 NASA Group
अभियानानि STS-87, STS-107
अभियानचिह्नम्
प्रशस्तयः Congressional Space Medal of Honor

कल्पना चावला(हिन्दी: कल्पना चावला, आङ्ग्ल: kalpana chavala )  इत्यस्याः भारतीयायाः प्रथमायाः अवकाशयात्रिमहिलायाः जीवनं अन्याभिः महिलाभिः स्वल्पम् अपि भिन्नं नासीत् । किन्तु सा बहुसङ्घर्षम् अकरोत् । अनेकान् अवरोधान् अवतीर्य स्वविकासम् अकरोत्, देशस्य कीर्तिं च प्रासारयत् । कल्पनायाः पठनकाले तस्याः पितरौ प्राचीनविचारयुतौ आस्ताम् । अतः तां गृहस्य निकटतमायां शालायां प्रैषयताम् । शाला कीदृशी अपि स्यात् पठितुम् इच्छुकस्य विद्यार्थिनः महत्त्वं भवति इति कल्पना अमन्यत । यः कोऽपि पठितुम् इच्छति वा किमपि कर्तुम् इच्छति तस्मै अवरोधाः बाधकाः न भवन्ति इति अपि कल्पना अमन्यत । पठनकाले इयं अवकाशयात्रां करिष्यति इति केनापि विचारितं नासीत् । करनाल-नामके लघुग्रामे जाता कल्पना अवकाशयाने उपविश्य अवकाशयात्रां कृतवती इति सामान्या सिद्धिः तु नास्ति । दौर्भाग्येन अन्तिमयात्रायां प्रत्यागमनकाले कोलम्बिया-यानं नष्टं, तत्र सा मृता ।

जन्म परिवारश्च

[सम्पादयतु]

१९६१ तमस्य वर्षेस्य जुलाई-मासस्य प्रथमे (१) दिनाङ्के हरियाणाराज्यस्य करनाल-ग्रामे तस्याः जन्म अभवत् । तस्याः पितुः नाम बनारसीलाल चावला, मातुः नाम सजोगता खरबन्दा इति च आसीत् । बनारसीलाल इत्यस्य चतस्रः सन्ततिः आसन् । कल्पना, सुनीता, दिया इति तिस्रः पुत्र्यः आसन् । सञ्जयः इति एकः पुत्रः आसीत् । चावला-परिवारः सुखी, सम्पन्नः च आसीत् । पिता बनारसीलाल इत्यस्य चक्राणाम् (टायर्) उत्पादनस्य उद्योगः आसीत् । सः तस्मात् बहुधनम् अर्जति स्म । १९४७ तमे वर्षे भारतस्य विभाजनम् अभवत् । तदनन्तरम् अपि चावला-परिवारः भारतस्य करनाल-ग्रामे निवासम् अकरोत् । बनारसीलाल हिन्दु-मुस्लिम्-जनानां अतिकठोरैः साम्प्रदायिकहिंसादिभिः प्रसङ्गैः अनुभवं प्राप्तवान् । अतः अन्यासां समस्यानां मार्गस्य अन्वेषणं तस्य कृते सरलम् आसीत् ।

बाल्यं शिक्षणं च

[सम्पादयतु]

कल्पनायाः जन्मसमये परिवारस्य आर्थिकी स्थितिः समीचीना आसीत् । करनाल-ग्रामे बालिकाभ्यः शिक्षाप्रदानं स्वल्पम् एव भवति स्म । 50 विद्यार्थिनां कक्षे द्वे वा तिस्रः एव बालिकाः भवन्ति स्म । कल्पनायाः वर्गेऽपि तथैव आसीत् । पिता तां पठितुं गृहस्य समीपवर्तिन्यां टागोर बालनिकेतन नामिकायां शालायां प्रैषयत् । इयं शाला गृहस्य निकटा आसीत् इति कारणं विहाय तस्याः शालायाः अपरं किमपि वैशिष्ट्यं नासीत् । तथापि कल्पना वर्गे १ तः ५ क्रमेषु एकं क्रमं प्राप्नोति स्म । कल्पना प्रारम्भादेव कल्पनाशीला आसीत् । चित्रस्य वर्गे विमानस्य चित्रस्य चित्रणं तस्यै रोचते स्म । तस्याः बाल्यकालस्य मित्रं डेझी चावला इति आसीत् । उभयोः स्वभावे असमानतायां सत्यामपि प्रगाढा मित्रता आसीत् । कल्पनायाः अमेरिका-देशे गमनं यावत् तयोः मित्रता आसीत् । करनाल-ग्रामे स्वस्याः प्रारम्भिकम् अध्ययनं समाप्य सा पञ्जाबराज्यस्य एन्जिनियरिङ्ग् महाविद्यालये एरोस्पेस्-विषये पठनं कर्तुम् अविचारयत् । अयं महाविद्यालयः चण्डीगढ-नगरे अस्ति । चण्डीगढ-नगरं गुजरातराज्यस्य गांधीनगरवत् आयोजनपूर्वकं निर्मितं सेक्टर् इत्येतेषु विभाजितं सुन्दरं नगरम् अस्ति । तत्र १४ महाविद्यालयाः सन्ति । तत्र चिकित्सासंशोधनस्य महत्त्वपूर्णं केन्द्रम् अस्ति । एभिः कारणैः पठितुम् इच्छुकेभ्यः छात्रवासस्य व्यवस्था समीचीना अस्ति । यदा कल्पना स्वज्येष्ठभ्रात्रा सञ्जयेन सह चण्डीगढ-नगरं गता तदा महाविद्यालयस्य नगरस्य च वातावरणं तस्यै अरोचत । तदानीं पठनस्य एतादृशं मुक्तं वातावरणम् अन्यत्र कुत्रापि न प्राप्यते स्म ।

कठिनस्य एरोनॉटिकल् विषयस्य चयनम्

[सम्पादयतु]

कल्पनायाः सर्वाधिका रुचिः एरोनॉटिकल् एन्जिनियरिङ्ग् इत्यस्मीन् आसीत् । बाल्यादेव सा फ्लाइट् एन्जिनियर् भवितुम् इच्छति स्म । अतः अयं विषयः तस्यै सर्वाधिकः रुचिकरः आसीत् । किन्तुः प्रायः विद्यार्थिनः एन्जिनियरिङ्ग्-क्षेत्रे सिविल्, इलेक्ट्रिकल्, मेकॅनिकल् त्रिषु एकं स्वीकृत्य पठन्ति स्म । एतेषु क्षेत्रेषु झटिति वृत्त्यर्जनं भवति स्म । अतः एरोनॉटिकल् इत्यस्य कृते विद्यार्थिनः उत्साहिताः नासन् । एतस्मात् कारणादेव एरोनॉटिकल् विषयस्य कक्षापि लघ्वी आसीत् । तदानीं कार्यरतः आचार्यः कल्पनायाः शैक्षणिकेन जीवनेन बहुप्रभावितः आसीत् । अतः सः कल्पनां एरोनॉटिकल् शाखां त्यक्त्वा अन्यशाखायां गन्तुं प्रेरयति स्म । किन्तु कल्पना स्वविचारान् प्रकटयन्ती एरोनॉटिकल् विषयं न त्यक्तवती । कतिचित्वर्षान्ते यदा कल्पना नासा-संस्थायां फ्लाइट् एन्जिनियर् उद्योगं प्राप्तवती, तदा रसेन सह वृत्त्यर्थम् अपि तस्याः निर्णयः योग्यः आसीत् इति सर्वैः ज्ञातम् ।

ज्येष्ठभ्राता अनुत्तीर्णः कल्पना उत्तीर्णा

[सम्पादयतु]

कल्पना इत्यस्याः ज्येष्ठभ्राता सञ्जयः अपि व्यावसायिकत्वेन विमानचालकः भवितुम् इच्छति स्म । कल्पनासञ्जयौ एकत्र एव निवसतः । अतः परस्परं मार्गदर्शकौ प्रेरणास्रोतौ च आस्ताम् । यदा भ्रात्रा पित्रोः समक्षम् अहम् अपि विमानचालकः भवितुम् इच्छामि इति उक्तं, तदा कल्पनया सर्वाधिकः आनन्दः अनुभूतः । स्वभविष्यनिर्माणे भ्रातुः साहाय्यं प्राप्यते चेत् चिन्ता एव न भवति । किन्तु शारीरिकपरीक्षणान्ते चिकित्सकः सञ्जयः विमानचालकः भवितुम् अक्षमः इति अवदत् । अतः कल्पना दुःखी अभवत् । पिता तस्यै अपि अवसरं न प्रदास्यति इति च अविचारयत् । किन्तु पितरौ पुत्रीपुत्राभ्यां सह असमानं व्यवहारं कुर्यातां तादृशौ क्रूरौ न आस्ताम् । सञ्जयः स्ववंशीयम् उद्योगं स्वीकृर्यात् इति पितरौ पूर्वतः एव इच्छतः । अतः कल्पनायाः पठनविषये ताभ्यां सम्मतिः प्रदत्ता ।

उच्चाभ्यासः

[सम्पादयतु]

चण्डीगढ-नगरस्य एन्जिनियरिङ्ग् महाविद्यालये अभ्यासावसरः तस्याः जीवनस्य सर्वाधिकः कठिनः कालः आसीत् । साफल्यस्य द्वारं दूरमासीत् किन्तु तस्य प्रारम्भः ततः एव अभवत् । तत्र प्रवेशे सति कल्पनायाः विकासः अभवत् । तया स्वरीत्या एव प्रगतिः करणीया, मार्गदर्शनं प्रोत्साहनं च स्वतः एव प्राप्तव्यम् इत्येतत् सा जानाति स्म । तथापि स्वजीवनस्य लक्ष्यं प्रति इदं सर्वं सरलम् भाति स्म । सा सर्वं शीघ्रम् अवगच्छति स्म । कल्पनायाः प्रसन्नेन वदनेन शिक्षकगणः विद्यार्थिनः अपि प्रसन्नाः भवन्ति स्म । शिक्षकाः कल्पनाम् अनुशासनपालनकर्री , परिश्रमा, निष्ठायुक्ता च अमन्यन्त । १९८२ तमे वर्षे चण्डीगढ-नगरस्य एन्जिनियरिङ्ग् महाविद्यालयात् कल्पना एरोनॉटिकल् विषये स्नातकपदवीं प्राप्तवती । कल्पना हरियाणाराज्यस्य प्रथमा महिला आसीत् या महाविद्यालये प्रथमे वर्गे उत्तीर्णा । महाविद्यालयस्य नित्यप्रवृत्तीनां प्रचाराय कल्पना सरसं सामयिकस्य सम्पादनकार्यं करोति स्म ।

पठनाय विदेशगमनम्

[सम्पादयतु]

विकासाय मुक्तवातावरणस्य यादृशी परिस्थितिः यूरोप-खण्डे अमेरिका-देशे च अस्ति तादृशी भारते नास्ति । साम्प्रतमपि वयं मानवविकासस्य प्राथमिके विभागे एव स्मः । भारतस्य प्रतिभायुक्ताः विभूतयः इङ्ग्लेण्ड-देशे अमेरिका-देशे एव विकसिताः । इतिहासः तस्य साक्षी अस्ति । कल्पनायाः विषयेऽपि तथैव अस्ति । १९८२ तमे वर्षे कल्पना अमेरिका-देशं गतवती । तत्र वर्षद्वयम् अधीत्य १९८६ तमे वर्षे टेक्सास् विश्वविद्यालयात् एरोस्पेस् विषये विज्ञाननिष्णातात्वेन अनुस्नातकस्य (मास्टर्स्) पदवीम् अयात् । १९८८ तमे वर्षे कोलराडो विश्वविद्यालयात् एरोस्पेस् विषये पी.एच्.डी. इति पदवीं च प्राप्तवती । कल्पनया न केवलं शाब्दे (थियरी) अपि तु विमानोड्डयनादिषु आनुभविकेषु कार्येषु अपि निपुणता प्राप्ता । सा शरीरेण मनसा च दृढा आसीत् । सामान्यतया महिलाः अधिक- एन्जिन्-युक्तानि विमानानि न चालयन्ति । किन्तु कल्पना विमानानि, ग्लाइडर्स्, व्यवसायिकविमानानि च चालयितुम् अनुज्ञापत्रमपि (license) प्राप्तवती ।

नासा-संस्थायां प्रवेशः

[सम्पादयतु]
कार्यरता कल्पना चावला

नासा अमेरिका-देशस्य अवकाशसंशोधनस्य संस्था अस्ति । तस्याः सम्पूर्णं नाम नॅशनल् एरोनॉटिक्स् ऍण्ड् स्पेस् ऍड्मिनिस्ट्रेशन् इत्यस्ति । नासा-संस्थया सह कल्पनायाः सम्पर्कः व्यवहारश्च आसीत् । अतः सा १९८८ तमे वर्षे नासा एइम्स् संशोधनकेन्द्रे वृत्तिं प्राप्तवती । उपाध्यक्षपदे कार्यरतायाः कल्पनायाः कार्यशैली सर्वेभ्यः रुचिकरा अभवत् । १९९५ तमे वर्षे १५ अन्तरिक्षयात्रिणां गणे कल्पनायाः चयनम् अभवत् । जॉन्सन् स्पेस् सेन्टर् इत्यत्र अन्तरिक्षप्रवासाय तया वर्षद्वयं दृढं प्रशिक्षणं प्राप्तम् । अन्तरिक्षस्य तकनिकी-विषयाणां निष्णातात्वेन कल्पनायाः चयनम् अभवत् । अतः रोबोटिक् उपकरणानां विकासः, अवकाशयानस्य (स्पेस् शटल्) नियन्त्रणार्थं सोफ्टवेर्-विकासः, शटल् एवियोनिक्स् इत्यस्य प्रयोगशालायां परीक्षणम् इत्यादीनां निर्वहणं तस्याः मुख्यं दायित्वम् आसीत् ।

अन्तरिक्षे उड्डयनम्

[सम्पादयतु]

सा एइम्स् संशोधनकेन्द्रे कार्यं कृत्वा केनडी-अवकाशकेन्द्रे प्रशिक्षणं च प्रापत् । अतः कल्पनया १९९७ तमस्य वर्षस्य नवम्बर-मासस्य ११ दिनाङ्कात् १९९७ तमस्य वर्षस्य दिसम्बर-मासस्य ५ दिनाङ्कं यावत् २५ दिवसात्मकः अन्तरिक्षप्रवासः कृतः । एस्.टी.एस्.-८७ कोलम्बिया-याने उपविश्य कल्पना गुरुत्वाकर्षणबलस्य अभ्यासम् अकरोत् । तदनन्तरं गुरुत्वाकर्षणबलेन विना भौतिककार्याणि कर्तुं कियन्तः असुविधाः भवन्ति तस्य विषये संशोधनम् अकरोत् । तत् ज्ञानम् अन्तरिक्षयात्रायै उपयोगी आसीत् । कल्पना अवकाशस्य प्रथमे उड्डयने ३७६ घण्टाः ३४ निमेषाः यावत् अवकाशयाने (space shuttle) स्थित्वा पृथिव्याः २५२ वारं परिभ्रमणम् अकरोत् । इत्थम् अन्तरिक्षयात्रायां भारतस्य प्रथमा महिला कल्पना चावला आसीत् । अन्तरिक्षगतेषु भारतीयेषु द्वितीया आसीत् । अवकाशयात्रायां प्रथमः तु राकेश शर्मा अस्ति येन १९८४ तमे वर्षे सोवियत्-सङ्घस्य अन्तरिक्षयानेन अवकाशयात्रा कृता आसीत् ।

दोषारोपणं निवारणं च

[सम्पादयतु]

प्रथमा अन्तरिक्षयात्रा सफला न अभवत् । निष्फलतायाः कारणं कल्पना इति सर्वैः उक्तम् । किन्तु नासा-संस्थायाः मूल्याङ्कनेन ज्ञातं पृथिवीतः जायमाने अन्तरिक्षयानस्य सञ्चालने एव दोषः आसीत् कल्पना तु निर्दोषा इति सिद्धम् अभवत् । ततः परं नासा इत्यस्मिन् कल्पनायाः बहुमानम् अभवत् । नासा-संस्थायां कल्पना अनेकेषु तान्त्रिकेषु पदेषु कार्याणि कर्तुम् अवसरं च प्राप्तवती ।

पुनः अवकाशयात्रा

[सम्पादयतु]

कापि विज्ञानसंस्था एकं परीक्षणं कृत्वा श्रान्ता न भवति । यदि परीक्षणं निष्फलं भवति तर्हि पुनः प्रयोगः कर्तव्यः, सफलं भवति चेत् प्रगतिः कर्तव्या इति विज्ञानसंस्थायाः मन्त्रः अस्ति । नासा-संस्थायाः मुख्यं कार्यम् अन्तरिक्षसंशोधनम् एव अस्ति । अतः अवकाशे यानप्रेषणस्य कार्यक्रमस्तु पुनः पुनः आयोज्यते । २००० तमे वर्षे एस्.टी.एस् १०७ नियोगस्य (मिशन्) अन्तर्गतं कोलम्बिया इति अवकाशयानम् अन्तरिक्षं प्रेषितुं नासा-संस्थया विचारितम् । तस्मिन् अपि कल्पनायाः अवकाशयात्रीत्वेन चयनम् अभवत् । कल्पनायै अयं द्वितीयः अवसरः आसीत् । अनेन ज्ञायते कल्पनायाः उत्साहः, योग्यता च कीदृशी आसीत् इति । कोलम्बिया एस्.टी.एस् १०७ नियोगः पुनः पुनः विलम्बितः । अन्ततो गत्वा २००३ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के कोलम्बिया एस्.टी.एस् १०७ यानम् अवकाशयात्रायै निर्गतम् । तदानीं यात्रायाः आशयः लघुगुरुत्वप्रयोगः, अन्तरिक्षविज्ञानस्य विकासः, अन्तरिक्षयात्रिणां स्वास्थ्यं कया रीत्या सुरक्षितं भवेत् तस्य संशोधनस्य च आसीत् ।

कल्पनायाः सहयात्रिणः

[सम्पादयतु]

२००३ वर्षस्य नासा-संस्थायाः अवकाशनियोगे (Space Mission) कल्पनया सह कमाण्डर् रिस्क डी. हसबन्ड्, पायलट् विलयम् सी. मेक्कुलम् , पेलोड् कमाण्डर् माइकल् पी. ऍण्डर्सन्, मिशन स्पेशलिस्ट् डेविड् एम्. ब्राउन्, लोरेन् क्लार्क्, एलान् रामन् च आसन् ।

कोलम्बिया-अवकाशयानस्य समीकरणम्

[सम्पादयतु]

१५ दिनानि अन्तरिक्षे स्थित्वा ८० वैज्ञानिकैः प्रयोगाः पूर्णाः कर्तव्याः इति नियोगः (Mission) आसीत् । इयम् अवकाशयात्रा कोलम्बिया-अवकाशयानस्य २८ तमा यात्रा आसीत् । सामान्यतया १०० यात्राः कर्तुं सक्षमं कोलम्बिया-यानं पुरातनं तु नासीत् तथापि ७ कोटि डोलर् व्ययं कृत्वा कोलम्बिया-अवकाशयानं पुनः सज्जीकृतम् । तकनिकी-दोषान् अपाकर्तुं वर्षद्वयम् अभवत् । दोषाणाम् अपाकरणानन्तरम् एस्.टी.एस्.-१०७ यानम् अभियानाय प्रेषितम् ।

कोलम्बिया-यानस्य विस्फोटः

[सम्पादयतु]

१ कोटि कि.मी. अन्तरिक्षप्रवासं कृत्वा अनैकैः संशोधनभण्डारैः कोलम्बिया-यानं पृथ्वीं प्रति आगच्छत् आसीत् । यदा अवकाशयानम् अन्तरिक्षात् वायुमण्डलं प्रविशति, तदा जीवभयः भवति । तस्य कारणम् अवकाशयानस्य गतिः प्रतिघण्टा २५०० कि.मी. भवति । एतावत्यां गतौ यानं यदा वायुमण्डलं प्रविशति, तदा घर्षणेन ऊर्जायाः उत्पादनं भवति । इयम् ऊर्जा यानं भस्मीकुर्यात् तादृशी ज्वलन्तशीला भवति । इयं घर्षणोर्जा वायोः घनत्वस्य, वायोः कणानां, यानस्य गतेः च उपरि निर्भरा अस्ति । दौर्भाग्यात् वायुमण्डले प्रवेशानन्तरं घर्षणेन २००३ तमस्य वर्षस्य फरवरी-मासस्य १ तमे दिनाङ्के रात्रौ ९ वादने कोलम्बिया-अवकाशयानं २०,३०,००० फीट् औन्नत्ये स्फोटितं सत् उत्तरमध्य-टेक्सास् इत्यत्र पतितम् । स्फोटसमये यानं भ्रमणकक्षातः वातावरणं प्रविश्य केनडी स्पेस् केन्द्रं प्रति गच्छत् आसीत् । यानं पृथ्वीतः केवलं १६ निमेषाः दूरमासीत् । विस्फोटेन यानस्य ७०,००० खण्डानि अभवन् । २००३ तमस्य वर्षस्य अप्रैल-मासस्य १६ दिनाङ्के नासा-संस्था दुर्घटनास्थलात् कोट्यधिकं कि.मी. यावत् अन्वेषणं कृत्वा यानस्य खण्डान् एकत्रितान् अकरोत् । वैज्ञनिकाः मासत्रयस्य परिश्रमान्ते विस्फोटस्य कारणं ज्ञातुं यानस्य खण्डान् संशोधनार्थं फ्लोरिडा-अवकाशकेन्द्रं प्रेषितवन्तः ।

कल्पनायाः मृत्युः

[सम्पादयतु]

यदा पृथ्वीतः लक्षाधिके औन्नत्ये प्रचण्डः विस्फोटः अभवत्, तदा कोलम्बिया-अवकाशयाने उपविष्टाः कल्पनासहिताः सप्त यात्रिणः अवकाशयात्रायाः अनन्तयात्रां गताः । विस्फोटेन ऊर्जायाः उत्पादनम् अभवत्, अतः यात्रिणां शरीरं भस्मम् अभवत् । कस्यापि यात्रिणः चिह्नम् अपि न प्राप्तम् । सर्वत्र जनाः दुःखाविष्टाः आसन् । जनैः सर्वत्र श्रद्धाञ्जली, शोकाञ्जली च प्रदत्ता । कल्पना चावला दन्तकथा अभवत् । शालासु, महाशालासु विद्यार्थिभिः मौनेन श्रद्धाञ्जली प्रदत्ता । कल्पना चावला स्वस्याः कठोरेण परिश्रमेण महिलाः किमपि कर्तुं शक्नुवन्ति इति सन्देशं दत्तवती ।

मरणोत्तराः पुरस्काराः

[सम्पादयतु]

1. नासा अन्तरिक्षयात्रा पुरस्कारः

2. नासा विशिष्टं सेवापदकम्

3. प्रतिरक्षा विशिष्टं सेवापदकम्

मरणोत्तरं गौरवम्

[सम्पादयतु]

1. टेक्सास् विश्वविद्यालयेन २००५ तमे वर्षे कल्पना चावला इत्यस्याः स्मृतिरूपेण तेजस्विभ्यः विद्यार्थिभ्यः कल्पना चावला शिष्यवृत्तिप्रदानम् आरब्धम् ।

2. २००३ तमस्य वर्षस्य फरवरी-मासस्य पञ्चमे (५) दिनाङ्के भारतस्य प्रधानमन्त्रिणा वातावरणस्य सूचनाप्रदात्रे METSAT उपग्रहाय कल्पना चावला इति नाम प्रदत्तम् ।

3. न्यूयॉर्क्-महानगरे जेक्सन् हाइट्स् क्वीसन् ७४ मार्गस्य नाम ७४ स्ट्रीट् कल्पना चावला मार्ग इति प्रदत्तम् ।

4. भारते कर्णाटकराज्यसर्वकारेण युवमहिलावैज्ञानिकानां प्रोत्साहनार्थं कल्पना चावला पुरस्कारः उद्घोषितः ।

5. पञ्जाबराज्यस्य चण्डीगढ-नगरस्य कल्पनया अधीतस्य एन्जिनियरिङ्ग् महाविद्यालयस्य महिलाछात्रालयाय कल्पना चावला इति नाम प्रदत्तम् ।

6. नासा-संस्थया स्वस्याः सूपर् कम्प्यूटर् इत्यस्मै कल्पना चावला इति नाम प्रदत्तम् ।

7. हरियाणाराज्यसर्वेकारेण कुरुक्षेत्रे यत् तारमण्डलं निर्मितं तस्मै कल्पना चावला तारामण्डलम् इति नाम प्रदत्तम् ।

इत्थं मृत्योः अनन्तरम् अपि स्वकार्येण कल्पना चावला जनमनसि राजते ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कल्पना_चावला&oldid=480103" इत्यस्माद् प्रतिप्राप्तम्