दानम्
दिखावट
दानं भारतीयसमाजस्य प्रमुखाङ्गत्वेन अङ्गीक्रियते। तस्मिन् समाजे दानस्य आतिथ्यस्य च प्रतिष्ठाऽऽसीत् । यो नरः देवान्, पितृन्, अतिथीन् च दानेन न तृप्तमकरोत्, सः पुरुषः ‘अनद्धा' ‘अनृतम्’ कथ्यते।
‘क अनद्धा पुरुष इति ? न देवान्, न पितृन्, न मनुष्यान् इति'[१]
सायंकाले समागतस्य अतिथेः केनापि प्रकारेण निराकरणं न कर्त्तव्यमिति।
‘यदा वै अतिथि परिवेविषत्यापीन इव वै स तर्हि भवति' ।[२]
यः पुरुषः अतिथिसेवां करोति, स वै पीनो भवति, प्रसन्नो भवति च। तस्मिन् काले आतिथ्यः यज्ञस्य शिर अासीत् । अतिथिपूजनं तदा यज्ञपूजनमिवासीत् ।
‘शिरो वा एतद् यज्ञस्य यद् आतिथ्यम् ॥'[३]