नवनीतम्
दिखावट
दुग्धस्य आतञ्चनं कृत्वा यदा दधि भवति तदा दध्नः मथनं करणीयम् । सम्यक् मथनस्य अनन्तरं यत् द्रवरूपं प्राप्यते तत् तक्रम् इति उच्यते । यत् घनरूपं प्राप्यते तत् एव नवनीतम् । आङ्ग्लभाषायाम् अस्य नाम Butter इति । मथनानुक्षणं प्राप्तं नवनीतम् अत्यन्तं प्रशस्तम् आहारत्वेन । पुरातनं नवनीतं श्रोतान् अवरुणद्धि इति कारणात् आहारत्वेन तस्य उपयोगः निषिद्धः इति उच्यते । एतत् नवनीतम् अत्यन्तं मृदु । अतः एव शिशूनां चर्म नवनीतम् इव अस्ति इति वदन्ति । दध्न: मथनेन लब्धं नवनीतं वातपैत्तिकविकारशामकं भवति । मस्तिष्कदौर्बल्य - मूर्छा - भ्रमादिरोगेषु लाभकारि भवति । नवनीतं दृष्टिशक्तिं च वर्धयति ।
आयुर्वेदस्य अनुसारम् अस्य नवनीतस्य स्वभावः
[सम्पादयतु]नवनीतं पचनार्थं लघु । रुचिः अस्य कषायमिश्रित-आम्ला । नवनीतं बुद्धिवर्धकं जीर्णशक्तिवर्धकं च ।
- “नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुर-
- कषायम् ईषत् आम्लं शीतलं मेध्यं दीपनं हृद्यम् ॥
- संग्रा हि पित्तानिहरं वृष्यम् अनिदाहि क्षय-कास-श्वास-
- व्रण-अर्श-अर्धितापहं गुरु कफ-मेधो-विवर्धनं
- बलकरं बृंहणं शोषघ्नं विशेषतो बालानां प्रशस्यते ॥“ (सुश्रुत.सू.)
- १. नवनीतं पचनार्थं लघु इति कारणात् न्यूना जीर्णशक्तिः अस्ति चेत् अपि सेवनयोग्यम् एव ।
- २. नवनीतं ज्वलनं, व्रणं, मूलव्याधिम्, अर्धाङ्गवातं च शमयति ।
- ३. नवनीतं हृदयार्थम् उत्तमम् । वातं पित्तं च जयति ।
- ४. नवनीतं कफं वर्धयति इति कारणात् कफप्रकृतियुक्ताः मितप्रमाणेन उपयोगं कुर्युः ।
- ५. नवनीतं बलं, मेधस्, शरीरस्य भारं च वर्धयति । अतः प्रतिदिनम् उपयोक्तुं योग्यम् ।
- ६. नवनीतं बुद्धिशक्तिं जीर्णशक्तिं च वर्धयति । तस्मात् न्यूनजीर्णशक्तियुक्ताः सेवेरन् ।
- ७. नवनीतं विशेषरूपेण शुष्कचर्मयुक्ताः, वातरोगिणः, असमीचीन मलप्रवृत्तियुक्ताः च आहारत्वेन बाह्यरूपेण वा उपयोक्तम् अर्हन्ति ।
- ८. निद्राहीनतायां सत्यां नवनीतं शिरसः मध्यभागे लेपयन्ति ।
- ९. मुखे पिटकाः जायन्ते चेत् नवनीतेन सह जीरिकायाः चूर्णं योजयित्वा लेपयेयुः ।
- १०. शुष्कचर्मयुक्ताः क्षीरमथनात् प्राप्तं नवनीतं बाह्यरूपेण लेपयितुम् अर्हन्ति ।
- ११. मन्दाग्निः अस्ति चेत्, बहुकालतः पीनसः अस्ति चेत्, अतिस्थौल्यम् अस्ति चेत् नवनीतं न उपयोक्तव्यम् ।
- १२. पादे जातानां विच्छेदानाम् अपि नवनीतं बाह्यरूपेण लेपनं शक्यते ।
- १३. तदानीमेव जातस्य शिशोः मातृक्षीरस्य अभावे द्वित्राणि दिनानि यावत् नवनीतम् एव अल्पेन प्रमाणेन दातव्यम् इति वदन्ति शास्त्रकाराः ।
- १४. क्षीरस्य मथनात् प्राप्तं नवनीतम् अत्यन्तम् उत्कृष्टम् । एतत् नवनीतं रोगहरं, रुचिकरं, शरीरस्य पुष्टिकरं, नेत्रस्य हितकरं च ।
- १५. मण्डः अपि नवनीतगुणयुक्तः एव । (क्षीरम् उष्णीकृत्य तथैव त्यक्तं चेत् किञ्चित् कालानन्तरं क्षीरस्य उपरि कश्चन घनः पदार्थः सङ्गृहीतः भवति । सः एव मण्डः इति उच्यते ।) अतः तमपि अत्रैव योजयितुं शक्यते ।
- १६. मण्डः वातहरः, तृप्तिकरः, बलकरः, रुचिकरः, रक्तप्रसादकः, पचनार्थं जडः च ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Manufacture of butter, The University of Guelph
- "Butter" Archived २००७-०३-२३ at the Wayback Machine, Food Resource, College of Health and Human Sciences, Oregon State University, 20 February 2007. – FAQ, links, and extensive bibliography of food science articles on butter.
- Cork Butter Museum: the story of Ireland’s most important food export and the world’s largest butter market
- Virtual Museum Exhibit on Milk, Cream & Butter