श्रीहर्षः
श्रीहर्षः स्वसमयस्य प्रकृष्टपण्डितो महाकविः कान्यकुब्जेश्वरस्य गहडवालवंश्यस्य गोविन्दचन्द्रप्रपौत्रस्य विजयचन्द्रपुत्रस्य जयचन्द्रस्य १२२५-१२५२ मितवैक्रमाब्दानभितः शासतः सभापण्डित असीदिति तस्यैव कथनम् - 'ताम्बूलद्वैतर्यमासतञ्च लभते यः कान्यकुब्जेश्वरात्' इति। तदा काशीषु कान्यकुब्जेषु च गढवालवंश्यानां नृपाणां शासनमासीत् । तस्य शासनकालः ११६१ मितवैक्रमादाब्दतः १२१२ यावदासीत् । तदनु तस्यात्मजो विजयचन्द्रः १२१२ तः १२२५ यावत् तस्य पुत्रो जयचन्द्रः १२२५ तः १२५२ मितवैक्रमाब्दान् यावत् काशी-कान्यकुब्जांश्च अशासतामित्यैतिहासिकानां मतम् । श्रीहर्षस्य पिता हीरो गोविन्दचन्द्रस्य सभापण्डित आसीत्, श्रीहर्षश्च प्रथमं विजयचन्द्रस्य तदनु जयचन्द्रस्य च सभापण्डित आसीत्।
कथ्यते श्रीहर्षस्य पिता हीरो गोविन्दचन्द्रस्य सभाध्यक्ष आसीत् । एकदा स नैयायिकेन उदयनाचार्येण वादाहवे पराजितः सन् तेनावस्तदेन खिन्नमनाः अकाले एव पञ्चत्वं गतः । तदा श्रीहर्षो बाल एवासीत् । म्रियमाणः पिता बालमपि स्वपुत्रं स्वप्रतिपक्षिपराजयेन तं सन्तोषयितुमुपदिष्टवान् । तमेवोपदेशं हृदि कृत्वा सरस्वती सेवायां सततसंलग्नः श्रीहर्षः काले स्वपितुः प्रतिपक्षिणमुदयनाचार्यं वादाहवे पराजित्य स्वेर्गतं पितरमप्रीणत् । तदा विजयचन्द्रः सत्तासीनः आसीत्। तस्य विद्वत्तया सोऽतीव्रप्रभावितोऽभवत् । तत्प्रस्तुतं पद्यमित्थं स्मर्यते राजसभायाम् -
गोविन्दनन्दनतया च वपुःश्रिया च, मास्मिन्नृपे कुरुत कामधिय तरुण्यः।
अस्त्रीकरोति जगतां विजये स्मरः स्त्रीरस्त्रीजनः पुनरनेन विधीयते स्त्रीः ।। इति ।
अस्यैव विजयचन्द्रस्य प्रशंसायां श्रीहर्षः विजयप्रशस्तिनामकं ग्रन्थं प्रणीतवान् । विजयचन्द्र एव स्वजीवनोत्तरार्द्धं कान्यकुब्जेऽयापयत् । तेनैव सह श्रीहर्षोऽपि वाराणसीतः कान्यकुब्जमगात् । एतत्पूर्वमेव तेन खण्डनखण्डखाद्याख्यो ग्रन्थः प्रणीत आसीत् । श्रीहर्षेण विद्याऽध्ययनकाले विशेषतो न्यायदर्शनाध्ययनाय कानिचिद्वर्षाणि वङ्गदेशे यापितानि । तदा स वङ्गेश्वरेणार्थादिनानुगृहीत आसीत् । तदर्थं प्रत्युपकारसमर्पणाय स गौडोवींशकुलप्रशस्तिसंज्ञकं ग्रन्थं प्रणीतवानासीत् । एवमेव कस्यचिदन्यस्यापि तथाकरणाय हिन्दप्रशस्तिसंज्ञको ग्रन्थोऽप्यनेन प्राणायि । १२२५ मितवैक्रमाब्दे विजयचन्द्रः स्वर्गतः । तदनु लब्धराज्यो जयचन्द्रोऽपि श्रीहर्षं तथैव सममानयत् । सोऽपि तत्प्रशंसतामेव नवसाहसाङ्कचरितचम्पूं प्राणयत् । जयचन्द्रोऽपि धारानगरीशभोज इव नवसाहसाङ्कोपाधि धृतवानासीत् । एवमेव अर्णवर्णनं, शिवशक्तिसिद्धिः, स्थैर्यविचारणप्रकरणं, ईश्वराभिसन्धिः, द्विरूपकोशश्च तत्प्रणीता इतरे ग्रन्थाः।
स्वकाव्यविषये कविः स्वयमेव कथयति -
ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासो प्रयत्नान्मया
प्राज्ञम्मन्यमनी हठेन पठितो माऽस्मिन् खलः खेलतु ।
श्रद्धाराद्धगुरुः श्लथीकृतदृढग्रन्थिः समासादय-
स्त्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ॥ इति ।
तदेतत् -
आदौ कविः कालिदासोऽश्वघोषस्तु ततः परम्।
ततः कुमारदासोऽथ भारविर्भट्टिरेव च ।।
माघो रत्नाकरः सिद्धो हरिश्चन्द्रस्तथैव च।
कविराजश्व श्रीहर्षः प्रख्याताः कवयो दश ।। इति कविदशकं व्याख्यातम्।
परिचयः
[सम्पादयतु]‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। पञ्चमहाकाव्येषु अन्यतमस्य नैषधीयचरितस्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
- श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
- श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
- तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
- काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।
श्रीहर्षः कन्याकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् । विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते । तस्य पिता श्रीहरिः । माता मामल्लदेवी । श्रीहर्षः द्वादशशतके आसीत् । तर्कव्याकरणवेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः । सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म ।
नायं राजा हर्षवर्धनः।
तेन रचितं महाकाव्यम्
[सम्पादयतु]श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् । नलदमयन्त्योः कथा अत्र वर्णिता अस्ति । श्रीहर्षस्य भाषा अत्यन्तं प्रौढा । शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते ।
अन्ये ग्रन्थाः
[सम्पादयतु]श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते । ते -
- खण्डनखाद्यम्
- अर्णववर्णनम्
- गौडोर्विकुलप्रशस्तिः चण्डीप्रशस्तिश्च
- शिवभक्तिसिद्धिः
- साहसाङ्कचरितचम्पू
परन्तु ते सर्वे न उपलभ्यन्ते । खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते । तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते ।