अतिथिसत्कारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अथ चतुर्षु ऋणेषु मनुष्यऋणं तथा पञ्चमहायज्ञेषु मनुष्ययज्ञः इति सङ्कल्पनाद्वयेन अतिथिसत्कारः निर्दिश्यते । भारतीयजीवनरचनायाम् आतिथ्यधर्मस्य वैशिष्ट्यपूर्णं गरिमायुतं च स्थानं वर्तते । अतः तन्मर्मग्रहणार्थं विषयोऽयं सविशेषं पर्यालोचनम् अर्हति ।

इतिहासः[सम्पादयतु]

वेदकालात् आधुनिककाव्यनाटकादिसंस्कृतसाहित्यपर्यन्तं समग्रग्रन्थेषु एकमेव समानं किमपि संस्कृतिनिदर्शकं सूत्रम् अनुस्यूतं वर्तते इति यदि वयं दर्शयितुं पारयामः तर्हि अस्माकम् इयं संस्कृतिः धारावाहिकरूपेण अखण्डम् अविच्छिन्नम् आ प्राचीनकालात् अद्ययावत् प्रवहति इति सुप्रतिष्ठितं भवेत् । तादृशं सूत्रम् आतिथ्यधर्मरूपेण अवतिष्ठते इति विगतसन्देहधिया वक्तुं शक्यते । आतिथ्यधर्मस्य माहात्म्यम् ऋग्वेदपूर्वकालेऽपि सुप्रतिष्ठितम् आसीत् इति दृष्टिपथमायाति । पश्चात् समस्तवैदिकसाहित्येऽपि तस्य महिमा अप्रतिहतम् अक्षुण्णो गोचरीभवति । कल्पसूत्रेषु एवं स्मृतिषु वैदिकवाङ्मयात् मार्गदर्शनं प्राप्य शास्त्रकारैः विस्तृतविधिनिषेधान् निर्माय आतिथ्यस्य नीतिः रीतिश्च सामग्र्येण निर्धारिते इति नयनसरणिम् आपतति । तदनन्तरं दृष्टान्ताख्यानपरिप्लुतेषु रामायण-महाभारतपुराणादिषु तथा काव्यनाटकादिसंस्कृतसाहित्य ग्रन्थेषु अतिथिसत्कारस्य प्रत्यक्षव्यवहारः कीदृशः आसीत् इति लोचनगोचरो भवति ।

अतिथिसत्कारः

उद्देश्यम्[सम्पादयतु]

यदा छात्रः विद्याध्ययनं विधिवत् समाप्य स्वगृहं प्रतिनिवर्तितुम् उद्यतो भवति तदा भाविजीवनम् उद्दिश्य यः कर्तव्योपदेशः तस्मै दीयते तत्र जन्मदातुमातृपित्रोः तथा विद्यादातुः आचार्यस्य पूजनानन्तरं समष्टेः प्रतिनिधिरुपेण 'अतिथिदेवो भव' इति अतिथेः पूजनम् उपदिश्यते । अत सातत्यगमने (भ्वा. प.) ऋतन्यञ्जि (उ ४-२) इति इथिन् प्रत्ययः इत्येवंरीत्या अतिथिशब्दः व्युत्पन्नो भवति । धर्मसंकल्पना भारतीयानां प्राणभूतं जीवननियामकं तत्त्वम् इति तु विश्रुतमेव । अथ धर्मतत्त्वस्य क्रियान्वयनार्थं ग्रामात् ग्रामं गत्वा जनसाधारणेषु सञ्चारं कृत्वा धर्मोपदेशपुरः सरं ते प्रबोधयितव्याः इत्यनेन हेतुना स्वीकृतभ्रमणव्रतः एव अतिथिः इति तदानीन्तनाः मन्यन्ते स्म इति प्रतीयते । 'अध्वनीनोऽतिथिर्ज्ञेयः’ इति स्मृतिवचनात्, तथा एकरात्रिमात्र-निवासस्य निर्देशात् एतादृशः भ्रमणपरः जनसेवातत्परः एव अतिथिः इति सुपुष्टं तिष्ठति । एतादृशः अतिथिः समष्टेः याथार्थ्येन प्रतिनिधिः भवितुम् अर्हति इत्यत्र न संशीतिः ।


सत्कारपद्धतयः[सम्पादयतु]

एतादृशस्य अतिथेः सत्कारार्थं नानाविधाः उपचाराः धर्मसूत्रस्मृत्यादिग्रन्थेषु विहिताः दृश्यन्ते । तत्र सम्मानप्रदर्शनार्थं प्रत्युथान-अभिवादनादयः श्रमापनोदनार्थम् आसन- पादप्रक्षालन-भोजन- शयानादयः, तथा पुनः आदर प्रदर्शनार्थम् उपासनम्, अनुव्रजनम् इत्यादयः उपचाराः उपदिष्टाः । तथा अश्वादिचालितानि रथादिवाहनानि तथा सर्वसुखसाधनोपेतानि पान्थसदनानि अकिंचनस्य धर्मप्रचारकस्य कृते उपयुक्तानि नासन् । तथैव तादृशस्य अतिथेः पादचारिणः कृते खाद्यपदार्थानां शय्याद्रव्याणां वा स्कन्धेन वहनमपि न सुखकरम् आसीत् इति स्पष्टमेव । सर्वम् एतत् मनसि कृत्वा एतादृशानां समाजसेवकानां कृते एव विविधोपचाराः उपदिष्टाः शास्त्रकारैः इति गम्यते । मानधनानां तेषां कृते आनृशंस्यार्थं दयाप्रेरितः स्वागतव्यवहारः नैव रुचये स्यात् इति स्पष्टमेव । अतः आतिथेयाः भोजनादिप्रबन्धेन न अतिथिम् उपकुर्वन्ति प्रत्युत अतिथेः आगमनेन आतिथेयः सम्मानितो भवति इत्येतादृशं भावं प्रकटयितुमेव आदरप्रदर्शकाः उपचाराः उपदिष्टाः दृश्यन्ते ।

अतिथिसत्कारः

यद्यपि आतिथ्यधर्मस्य मूले एतादृशी संकल्पना आसीत् इत्युक्तम् । तथापि गच्छता कालेन तादृशस्य विशिष्टगुणोपेतस्य अतिथेः स्थाने यः कोऽपि समाजस्य अङ्गभूतः गृहद्वारि आगच्छेत् तर्हि तं देवरुपं मत्वा यथाशक्ति यथाविधि च सेवितव्यः इत्यभवत् नियमः । समाजे जनानां शक्तिबुध्दिकर्तृत्वादीनां निसर्गतः एव वैषम्यात् आपद्गताः निर्धनाः अनाथाः पुरुषाः सन्ति एव । तेषां सर्वेषां ज्ञातिगुणनिर्विशेषम् अन्नपानादिदानेन संसेवनं कर्तव्यमेव इति निर्दिष्टं भवति । सोऽयम् आतिथ्यधर्मः प्राधान्येन गृहस्थानामेव, अन्येषां त्रयाणाम् आश्रमिणाम् अपचमानत्वात् इति तु स्पष्टमेव ।

पाश्चात्त्यानां संपर्कात् पूर्वं प्रायः न्यूनाधिक्येन अयम् अतिथिसत्कारविधिः सर्वत्र भारते परिपाल्यते स्म । जैन बौध्दानां ग्रन्थानाम् आलोडनेन एतदेव गोचरीभवति यद् आतिथ्यधर्मस्य अवश्यकर्तव्यता, तदन्तर्गताः विविधाः उपचाराः, तस्य परिपालनेन् प्राप्यं फलम् इत्यादिषु विषयेषु आश्चर्यकरं साम्यं वर्तते त्रयाणामपि वैदिक-जैन –बौद्धानां मतेषु । एवम् उपासनाभेदेन ग्रन्थप्रामाण्यविषयकवैमत्येन वा संस्कृतिः न भिद्यते इति तथ्यं प्रमाणितं भवति ।

आधुनिकप्रगतपाश्चात्त्यदेशेषु दरिद्रपोषणस्य दायित्वं तावत् स्वीकृतं शासनसंस्थया । तत्र निर्धनानां स्वनिर्वाहं कर्तुम् अक्षमाणां न्यूनतमम् इति कृत्वा उदरभरणाय पर्याप्तं धनं दीयते । भारतीयशास्रकारैः तु भारः एषः विकेन्द्रीकृतः । यः कोऽपि गृहस्थः स्वभोजनात् पूर्वं समन्ततः अवलोकयन् यदि कश्चित् क्षुधितः अन्नार्थी दृष्टिपथं यायात् तर्हि तस्मै भोजनादिकं दत्वा अवश्यमेव तर्पयेत् इत्युपदिष्टम् । तत्रोक्तं 'अतिथिमाकाङ्क्षेत् गोदोहनमात्रम्’ इति । अनेन व्यवहारेण सममेव जनसाधारणान् प्रति भ्रातृभावः ऐक्यभावना च वृध्दिम् उपेयाताम् इति तु स्पष्टमेव । 'तेन त्यक्तेन भुञ्जीथाः’, अथवा 'भुञ्जते ते त्वघं पापा ये पचन्त्यामकारणात्’ इत्यादिवचनानाम् अयमेव तात्पर्यार्थः ।

समाज-ऋणस्य निर्यातने अतिथिसत्कारः नाम अन्यतमः विधिः । स तु प्रतीकरूपः एव । गृहस्थाः यद् धनम् अर्जयन्ति तस्य विनियोगः केवलं स्वस्यैव सुखार्थं नैव कर्तव्यः, अपि तु स्थलकालानुसारं, समाजहितं साधयितुम् अनुष्ठातव्यः इत्येव आतिथ्यतत्त्वं सूचयति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Danny Meyer (2006) Setting the Table : The Transforming Power of Hospitality in Business
  • Christine Jaszay (2006). Ethical Decision-Making in the Hospitality Industry
  • Karen Lieberman & Bruce Nissen (2006). Ethics in the Hospitality And Tourism Industry
  • Rosaleen Duffy and Mick Smith. The Ethics of Tourism Development
  • Conrad Lashley and Alison Morrison. In Search of Hospitality
  • Hospitality: A Social Lens by Conrad Lashley and Alison Morrison
  • The Great Good Place by Ray Oldenburg
  • Customer Service and the Luxury Guest by Paul Ruffino
  • Fustel de Coulanges. The Ancient City: Religion, Laws, and Institutions of Greece and Rome
  • Bolchazy. Hospitality in Antiquity: Livy's Concept of Its Humanizing Force
  • Jacques Derrida (2000). Of Hospitality. Trans. Rachel Bowlby. Stanford: Stanford University Press.
  • Steve Reece (1993). The Stranger's Welcome: Oral Theory and the Aesthetics of the Homeric Hospitality Scene. Ann Arbor: The University of Michigan Press.
  • Mireille Rosello (2001). Postcolonial Hospitality. The Immigrant as Guest. Standford, CA: Stanford University Press.
  • Clifford J. Routes (1999). Travel and Translation in the Late Twentieth Century. Cambridge, MA: Harvard University Press.
  • John B. Switzer (2007). "Hospitality" in Encyclopedia of Love in World Religions. Santa Barbara, CA: ABC-CLIO.
  • Immanuel Velikovsky (1982). Mankind in Amnesia. Garden City, New York: Doubleday.
"http://sa.wikipedia.org/w/index.php?title=अतिथिसत्कारः&oldid=282141" इत्यस्माद् पुनः प्राप्तिः