धारवाड
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
धारवाडनगरं (Dharwad)(०८३६)कर्णाटकराज्ये विद्यमानं प्रमुखं नगरं मण्डलकेन्द्रं च। धारवाडनगरे प्राणदेवः, लक्ष्मीनारायणः, हरिमन्दिरम्, इस्कान्, विठलमन्दिरम् इत्यादीनि अनेकमन्दिराणि सन्ति । ६ कि.मी दूरे सोमेश्वरमन्दिरं मुरुघामठः आम्मिनभाविस्थित पार्श्वनाथयबसदि अमरगोळ शङ्करालिङ्गदेवालयः दर्शनीयाः ।
विशेषाः [सम्पादयतु]
कविः दत्तात्रेयरामचन्द्रबेन्द्रे, सङ्गीतसम्राट् डा मल्लिकार्जुनमन्सूरः आलूरुवेङ्कटरायः सङ्गीतविदुषी श्रीमती गङ्गूबायी हानगल इत्यादीनां जन्मभूमिः धारवाडमण्डलम् अस्ति । कर्णाटकस्य प्रथमः विश्वविद्यालयः कर्णाटकविश्वविद्यालयः अपि अत्रैव कार्यरतः अस्ति ।
धारवाड पेढा इत्येतत् मधुरं खाद्यं बहु प्रसिद्धम् अस्ति ।