फ्रान्सिस् एच् सि क्रिक्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
फ्रान्सिस् क्रिक्
जननम् 8 June 1916
Weston Favell, Northamptonshire, England
मरणम् २८ २००४(२००४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-२८) (आयुः ८८)
San Diego, California, U.S.
Colon cancer
वासस्थानम् UK, U.S.
देशीयता British
कार्यक्षेत्राणि भौतिकशास्त्रम्, Molecular biology
संस्थाः Institute for the Furtherment of Genetic Studies
मातृसंस्थाः University College London
University of Cambridge
संशोधनमार्गदर्शी Max Perutz
विषयेषु प्रसिद्धः DNA structure, consciousness
प्रमुखाः प्रशस्तयः Nobel Prize (1962)
धर्मः Agnostic[१]
हस्ताक्षरम्


अयं फ्रान्सिस् हेच्. सि. क्रिक् (आङ्ग्ल: Francis H. C. Crick) प्रख्यातः भौतविज्ञानी । अयम् अपि "द्विचक्रकस्य रचनायाः” संशोधकेषु अन्यतमः । अन्यौ द्वौ जेम्स् डि. व्याट्सन् तथा मारीस् एच् विल्किन्स् च । अयं फ्रान्सिस् हेच् सि क्रिक् १९१६ वर्षे जून्-मासस्य ८ दिनाङ्के इङ्ग्लेण्ड्-देशस्य नार्ताम्प्टन् इति प्रदेशे जन्म प्राप्नोत् । लण्डन्–विश्वविद्यालयस्य महाविद्यालये अध्ययनम् अकरोत् । भौतविज्ञाने "डाक्टरेट्”-पदवीं प्राप्य द्वितीये महायुद्धे सैनिकरूपेण कार्यम् अकरोत् अपि । १९४९ तमे वर्षे केम्ब्रिड्ज्–विश्वविद्यालयस्य वैद्यकीय–संशोधन–संस्थां प्राविशत् । तदनन्तरम् एषः फ्रान्सिस् हेच्. सि. क्रिक् जीवरसायनविज्ञाने आसक्तः अभवत् । यदा जेम्स् डि व्याट्सन् केम्ब्रिड्ज्–विश्वविद्यालयं प्रति संशोधकरूपेण आगतवान् तदा तस्य प्रतिभाम् अभिज्ञाय फ्रान्सिस् हेच्. क्रिक् तं स्वेन सह संशोधनार्थम् अचिनोत् । वस्तुतः तयोः विलक्षणः स्नेहः । जेम्स् डि. व्याट्सन् अत्यन्तं मितभाषी, फ्रान्सिस् हेच्. सि. क्रिक् तु अतिभाषी । फ्रान्सिस् हेच्. सि. क्रिक् भौतविज्ञानी, जेम्स् डि. व्याट्सन् वंशशास्त्रस्य विज्ञानी । अयं फ्रान्सिस् हेच्. सि. क्रिक् केम्ब्रिड्ज्–विश्वविद्यालये जेम्स् डि. व्याट्सनेन सह "डी एन् ए" अणोः रचनायाः विषये दीर्घकालं संशोधनम् अकरोत् । तयोः संशोधनस्य निमित्तम् अपेक्षितं साहाय्यम् आचरितवान् मारीस् हेच्. विल्किन्स् नामकः भौतविज्ञानी । ताभ्यां द्वाभ्यां मिलित्वा कृतस्य कार्यस्य फलम् एव "व्याट्सन्–क्रिक्–चक्रकयुग्मम्” । तदर्थम् एषः फ्रान्सिस् हेच्. सि. क्रिक् १९६२ तमे वर्षे वैद्यकीयं तथा शरीरक्रियाविज्ञानस्य विभागे सहोद्योगिना जेम्स् डि. व्याट्सनेन, तथा मार्गदर्शकेण मारीस् हेच्. विल्किन्सेन च सह "नोबेल्”–पुरस्कारं प्राप्नोत् ।

वंशविज्ञानस्य आधारं कल्पितवान् ग्रिगोर् जान् मेण्डेल् नामकः विज्ञानी ’गुणलक्षणानि वंशश्रेणीतः वंशश्रेणीं प्रति निर्दिष्टानां नियमानाम् अनुसारम् एव गच्छन्ति’ इति उक्तवान् आसीत् । तदनन्तरं तद्विषये संशोधनं कृतवन्तः विज्ञानिनः वर्णतन्तवः (क्रोमोजोन्स्) कोशकेन्द्रेषु (न्यूक्लियस्) भवन्ति । निर्दिष्टसंख्यानां वर्णतन्तवः निर्दिष्टे प्रभेदे एव भवन्ति । कस्यापि जीविनः वर्णतन्तुषु अर्धभागः पितृपक्षतः, अर्धभागः मातृपक्षतः आगताः भवन्ति । सर्वस्मिन् अपि वर्णतन्तौ निर्दिष्टगुणस्य कारणीभूतः गुणाणुः (जीन्) भवति इत्यादीन् विषयान् संशोधितवन्तः । एते त्रयः (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) तान् एव विषयान् आधारीकृत्य संशोधनस्य अनुवर्तनम् अकुर्वन् । तादृशेषु गुणाणुषु निहितं प्रकृतेः रहस्यं ज्ञातव्यं चेत् गुणाणोः रचना ज्ञातव्या आसीत् । यदा जेम्स् डि. व्याट्सन् अमेरिकातः नेपल्स् प्रति मारीस् हेच्. विल्किन्सस्य सूचनां, विवरणं च प्रष्टुम् गतः आसीत् तदा "डि एन् ए" अणोः क्ष-किरणचित्राणि अपश्यत् । तस्मिन् चित्रे तत्र तत्र छाया दृष्टा । तदा तन्मध्ये किम् अस्ति इति संशोधितं चेत् "डि एन् ए" अणोः रचना ज्ञायेत इति अभासत अस्य जेम्स् डि. व्याट्सनस्य ।


सः जेम्स् डि. व्याट्सन् मूलतः जीवविज्ञानी । तस्मात् कारणात् तस्य क्ष-किरणानां विषये तावत् ज्ञानं न आसीत् । अतः सः तद्विषये अधिकं नैपुण्यं प्राप्तुं ब्रिट्न्-नगरे स्थितं केम्ब्रिड्ज्–विश्वविद्यालयं प्राविशत् । तत्रैव अस्य फ्रान्सिस् हेच्. सि. क्रिकस्य जेम्स् डि. व्याट्सनस्य च मेलनं जातम् । तत्र तौ द्वौ अपि अहर्निशं कार्यं कुर्वन्तौ सहस्रशः क्ष-किरणानां परीक्षां कृतवन्तौ । बहूनाम् अपयशानाम् अनन्तरं "डबल् हीलिक्स्” सदृशम् एकं चक्रकं सज्जीकृतं ताभ्याम् । एका क्रमानुगतिः (सीक्वेन्स्) एकस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थं जीवकोशम् आदिशति । अपरा क्रमानुगतिः अपरस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थम् आदिशति । अतः जीविनः क्रमानुगतिः जीवकोशस्य कार्यं निर्णेति । तस्मात् एव कारणात् जठरस्य जीवकोशः, पित्तकोशस्य जीवकोशात् भिन्नः भवति । विभिन्नेषु जनेषु नेत्रस्य वर्णः विभिन्नः भवति । इति विषयं संशोधितवन्तः । एतेषां त्रयाणाम् (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच् विल्किन्स् च) एतत् संशोधनम् अत्यन्तं महत्त्वयुतं चापि । अस्य संशोधनस्य कारणतः एव बहूनाम् आनुवंशिकाणां रोगाणां चिकित्सा संशोधिता । अपेक्षानुगुणं जीविनां सृष्टिः इति विषयस्य संशोधनम् अपि प्रोत्साहितम् अभवत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Crick papers
Audio and video files
About his work
About his life
Miscellaneous
  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; CrickWMP इत्यस्य आधारः अज्ञातः