भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भारतीयबाह्याकाशसंशोधनसंस्था (ISRO) इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्
Indian Space Research Organisation
Isro.png
निर्माणम् १५ अगस्त १९६९
(भारतीय-अवकाश-संशोधन-राष्ट्रिय-समिति-नामिकया सर्वकारसमित्या संस्थापनम्)
मुख्यकार्यालयाः बेङ्गळूरु, India
प्राथमिक-
महाकाशकेन्द्रम्
सतीश-धवन-अन्तरिक्ष-केन्द्रम्
ध्येयवाक्यम् "Space technology in the service of human kind"
प्रशासकाः के. राधाकृष्णन्, अध्यक्षः
अर्थयोजना <. (2013–14)[१]
आधिकारिकभाषा(ः) हिन्दी तथा आङ्ग्लभाषा
जालस्थानम् www.isro.org


भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्(ISRO)(आङ्ग्ल: Indian Space Research Organisationआङ्ग्लः) भारतदेशस्य सर्वकारीयम् अन्तरिक्षसंशोधनसङ्घटनम् ।
दूरवाणी-सुविधा, भौगोलिक-छायाचित्रणं, वातावरणानुमानार्थं छायाचित्रणं, दूरसञ्चारसुविधाः इत्यादयः अद्यतनीयाः बह्व्यः सुविधाः उपग्रहाणाम् उपयोगकारणादेव अनुभवामः । एतादृशाः इदानीन्तन-मूलभूतावश्यकतानां परिपूरणार्थं बृहत्तन्त्रज्ञानम् आवश्यकम् । ५० वर्षेभ्यः प्रागस्माकं देशे याः सुविधाः आसन् ताः सर्वाः स्वदेशितन्त्रज्ञानोपरि आधारिताः नासन् । परम् इदानीं वयं स्वाभिमानेन वक्तुं शक्नुमः यत् अस्माकं देशस्य उपग्रहाः, उपग्रह-प्रक्षेपक-वाहनानि, तन्त्रज्ञानं च सर्वं भारतीयम् अस्ति । एवं कथनसामर्थ्यमपि येन सङ्घटनेन अस्मभ्यं दत्तं तत् सङ्घटनम् अस्ति इसरो । विक्रम साराभाई नामकेन शास्त्रज्ञेन अस्य संशोधनस्य महत्त्वम् अनुभूतम् । भारतदेशस्य अन्तरिक्षानुसन्धान-क्षेत्रे येन प्रप्रथमतया पदार्पणं कारितं तत् एव इसरो सङ्घटनम् । १९६० तमे वर्षे तिरुवनन्तपुरसमीपवर्ति तुम्बा इत्येतत्स्थानं चुम्बकीय-भूमध्य-रेखाप्रदेशे वर्तते इति अनुसन्धानेन ज्ञातम् । तदनन्तरं वायुमण्डल-आयनमण्डलसंशोधनं कृत्वा तुम्बा इत्यस्मिन् स्थाने संस्थया सर्वप्रथमं संशोधनकार्यं, तदन्तर्गतप्रयोगाश्च प्रारब्धाः । लघु-परिज्ञापक-उपग्रहसदृशाग्निबाणानां(Sounding Rockets) क्षेपणकार्यक्रमेण अस्माकं देशस्य अन्तरिक्षानुसन्धानकार्यक्रमस्य आरम्भः कृतः । ९ एप्रिल २०१० दिनाङ्के 'एन्ट्रिक्स-कोर्पोरेशन-लिमिटेड' इत्यनया इसरोसङ्घटनस्य सहसंस्थया Globe Sustainability Award 2010 प्राप्तम् । एवं दृष्ट्वा ज्ञायते यत् प्रगतिपथे गच्छत् सङ्घटनमिदमस्ति ।

सङ्घटनस्य कार्यं विविधस्थानेभ्यः प्रचलति । अस्य मुख्यकार्यालयः बेङ्गळूरुनगरे अस्ति । तत्र १७,००० तन्त्रज्ञाः कार्यरताः सन्ति । अस्य केन्द्राणि बेङ्गळूरुनगरे, केरलराज्यस्य तिरुवनन्तपुरनगरे, गुजरातराज्यस्य अहमदाबादमहानगरे, तमिळनाडुराज्यस्य महेन्द्रगिरौ, कर्णाटकराज्यस्य हासननगरे, आन्ध्रप्रदेशराज्यस्य श्रीहरिकोटानगरे च सन्ति । अस्य सङ्घटनस्य उद्देशः तन्त्रज्ञान-संशोधनं तथा भारतदेशाय तस्य उपयोगः, तस्य अभिवर्धनं च । न केवलम् उपग्रहान् अपि तु उपग्रहवाहकान् अपि निर्माति इदं सङ्घटनम् । अस्य इदानीन्तनाध्यक्षः के. राधाकृष्णन् । अस्मिन् सङ्घटने प्रतिवर्षं प्रायः १५० प्रतिभावतां तन्त्रज्ञानां नियुक्तिः भवति ।

अन्तर्विषयाः

इतिहासः[सम्पादयतु]

शास्त्रज्ञाः अग्निबाणान्, साधनानि च द्विचक्रिकया अपि प्रक्षेपणस्थानं नयन्ति स्म

स्वातन्त्र्यप्राप्त्यनन्तरम् आभारतं कथं परिस्थितिः आसीत्, वयं जानीमः । समास्याभिः ग्रस्तम् अस्माकं राष्ट्रमासीत् तदा । तस्मिन् काले अन्तरिक्षानुसन्धानक्षेत्रे अस्माकं देशस्य कार्ययोजना तु काल्पनिकमिव भासते स्म । परं जगति अस्याः योजनायाः महत्त्वं कियत् आसीत् इति ज्ञातवान् विक्रम साराभाई अस्याः कल्पनायाः रेखाचित्रं भारतदेशम् आनयत् । तदर्थं तन्त्रज्ञानाम् एकत्रीकरणम्, आर्थिकयोजनां, कार्ययोजनां च अकरोत् । अस्याः योजनायाः परिणामत्वेन १९६३ तमे वर्षे अग्निबाणप्रक्षेपणं देशेन कृतम् । तदा अमेरिकादेशे निर्मित-अग्निबाणस्य प्रक्षेपणं 'तुम्बा' स्थानात् कृतम् । १९६३ तमे वर्षे भारतदेशे अन्तरिक्ष-अनुसन्धानार्थं काऽपि परियोजना, प्रयोगशाला वा नासीत् । तथापि नारिकेलवृक्षाणाम् अधः अत्यन्तं साधारणपद्धत्या अस्माकं शास्त्रज्ञैः एषः प्रक्षेपणप्रयोगः कृतः । प्रथमः अग्निबाणः लघुः आसीत् । ८० से.मी. * १० से.मी. अस्य मानम् (size) आसीत् । अस्य अग्निबाणस्य प्रक्षेपणानन्तरम् उपग्रहप्रक्षेपणकेन्द्रत्वेन तुम्बा इत्यस्य स्थानस्य विकास: प्रारब्धः । ततः देशस्य अन्तरिक्ष-संशोधन-योजनाऽपि प्रारब्धा । अस्य प्रयोगस्य सहस्रागुणिता शक्तिः, संशोधनं च उपग्रहप्रक्षेपणार्थम् आवश्यकम् इति सर्वे अजानन् परं सर्वं काठिन्यं ज्ञात्वा अपि उत्साहः वर्धमानः एव आसीत् तेषाम् । अन्तरिक्षक्षेत्रे प्रशिक्षितान् तन्त्रज्ञान् बहुकष्टेन आह्वयत् डा. विक्रम साराभाई

वृषभशकटेन उपग्रह-वहनम्

तुम्बा इत्यस्य सागरतटवर्तिस्थानस्य प्रक्षेपणकेन्द्रत्वेन चयनं तु १९६१-१९७० तमे दशके एव जातं परं तदा भौतिकसुविधा-अभावकारणात् कार्ययोजना नासीत् । प्रक्षेपणकेन्द्रस्य प्रयोगशालायाः स्थलं तु एकं 'चर्च'भवनम् आसीत् । तस्मिन् भवने भित्तिकाः निर्माय पृथक्प्रकोष्ठेषु शास्त्रज्ञानां प्रयोगाः प्रचलन्ति स्म । कपोताः बहुवारं संशोधनकार्ये विघ्नान् जनयन्ति स्म । सुविधा-अभावात् केषुचन दिवसेषु शास्त्रज्ञाः अग्निबाणान्, साधनानि च द्विचक्रिकया प्रक्षेपणस्थानं नयन्ति स्म । ‌ततः प्रगतसुविधाभिः सह भारतदेशस्य अन्तरिक्षानुसन्धानस्य प्रारम्भः जातः ।

प्रथमप्रक्षेपणम्[सम्पादयतु]

प्रप्रथमः अग्निबाण-क्षेपणप्रयोगः १९६३ तमे वर्षे कृतः । तदा ’नाइके एपेची’(Nike Apache) नामकस्य अमेरिकानिर्मितस्य अग्निबाणस्य क्षेपणं कृतम् । 'अमेरिकन'-'फ्रेञ्च'-भारतीयशास्त्रज्ञानां संयुक्तः प्रयोगः आसीत् अयं । ’तुम्बा’ इत्यस्मिन् स्थाने नारिकेलवृक्षाणाम् अधः अस्य अग्निबाणस्य साधनानां योजनं पूर्णं कृतम् । ८० से.मी. * १० से.मी. अस्य अग्निबाणस्य मानम् आसीत् । अस्य प्रयोगस्य तदानीन्तनप्रचलितेषु विश्वप्रयोगेषु स्थानं तावत् महत्वपूर्णं नासीत् । तथापि तस्य उपयोगिता भारतदेशस्य अन्तरिक्षानुसन्धानक्षेत्रे अतीव महत्त्वपूर्णा आसीत् । ततः प्रक्षेपणकेन्द्रत्वेन अस्य स्थलस्य विकासः आरब्धः ।

कार्यविस्तारः[सम्पादयतु]

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनं सञ्चारसेवार्थं (for Communication facilities) भारतीय-राष्ट्रिय-उपग्रह-योजनां (INSAT-The Indian National Satellite System), प्राकृतिक-सम्पत्-नियोजनार्थं भारतीय-सुदूर-संवेदन-योजनां (Indian Remote Sensing), व्यवस्था-विकासार्थम् उपग्रहान्, एतेषाम् उपग्रहाणां प्रमोचनार्थं वाहनानि अर्थात् प्रमोचनयानानि च निर्माति । सर्वकारीय-अन्तरिक्ष-आयोगः अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य नयापनय-नीतिविषयकं कार्यं समितीनां माध्यमेन निर्वहति । सङ्घटने यानि संशोधनकार्याणि क्रियन्ते तेषां सामाजिक-आर्थिकलाभार्थम् उपयोजनं करोति एषः आयोगः । सर्वकारीय-उद्यमत्वेन ताः समितयः कार्यं कुर्वन्ति । एतासां समितीनां कार्यप्रणालिं चित्रं दर्शयति ।

समितीमाध्यमेन इसरोसंस्थायाः चालनम्

एवं बहुविधप्रयोगान् कुर्वत् इसरो सङ्घटनं कार्यरतमस्ति ।

प्रमोचन-यानविकासकार्यम्[सम्पादयतु]

उपग्रहाणाम्, अन्तरिक्षयानानां च अन्तरिक्षे स्थापनायै प्रमोचनयानस्य आवश्यकता वर्तते । १९७० तमे वर्षे भारतदेशे प्रमोचनयानानां विकासकार्यं प्रारब्धम् ।

भारतदेशस्य प्रमोचनयानानि

प्रायोगिक-प्रमोचनयानम्[सम्पादयतु]

आदौ प्रायोगिक-प्रमोचनयानस्य (Satellite Launch Vehicle-SLV) निर्मितिः कृता । अस्य प्रमोचन-यानस्य विकासकार्यं १९८० तमे वर्षे पूर्णं कृतम् । एतस्य यानस्य विकासानन्तरं प्रमोचनयानतन्त्रज्ञाने देशेन लक्षणीयप्रगतिः साधिता ।

  • १९९२ तमे वर्षे ए.एस.एल.वी.(Augmented Satellite Launch Vehicle (ASLV)) इत्यस्य यानस्य सफलतापूर्वकः प्रथमप्रयोगः पारितः ।

ध्रुवीय-उपग्रह-प्रमोचनयानम् (Polar Satellite Launch Vehicle (PSLV))[सम्पादयतु]

ASLV यानविकासस्य समनन्तरं ध्रुवीय-उपग्रह-प्रमोचनयानस्य (Polar Satellite Launch Vehicle (PSLV)) विकासकार्यम् आरब्धम् । एतत् यानं १८५० कि.ग्रा. भारयुतस्य उपग्रहस्य ४८० कि.मी. ध्रुवीय-सूर्य-तुल्यकालि-कक्षायां (Polar Orbit) स्थापनां कर्तुं क्षमताम् अर्हति । एतत् यानं ११५० कि.ग्रा. भारयुतम् उपग्रहं भूतुल्यकालि-अन्तरणकक्षायां (Geosynchronous Transfer Orbit) स्थापयितुं समर्थम् । एतत् यानं ३५०० कि.ग्रा. भारयुतम् उपग्रहं निम्न-भू(Low Earth Orbit)-नामिकायां कक्षायां स्थापयितुं क्षमतां वहति । PSLV याननिर्माणेन भारतीय-अन्तरीक्ष-अनुसन्धानक्षेत्रे क्रान्तिः जाता । २०१० पर्यन्तं ५५ उपग्रहप्रक्षेपणयानानि निर्मितानि आसन् । तेषु २६ भारतदेशसर्वकारेण उपयुक्तानि । अवशिष्टानि २९ अन्ताराष्ट्रिय-विपण्यां विक्रीतानि सन्ति । एवं क्षमतायुतमिदम् यानम् निर्मितम् सङ्घटनेन ।

भूतुल्यकालि-उपग्रह-प्रमोचनयानम् (Geosynchronous Satellite Launch Vehicle (GSLV))[सम्पादयतु]

GSLV प्रमोचनयानम् २००१ तमे वर्षे प्रथमवारं सफलतया अन्तरिक्षं प्रेषितम् । १५४० कि.ग्रा. भारयुतस्य GSAT-1 उपग्रहस्य भूतुल्यकालि-अन्तरणकक्षायां (Geosynchronous Transfer Orbit) स्थापनां कर्तुं समर्थं जातमिदं यानम् । २००० कि.ग्रा. भारयुतस्य उपग्रहस्य भूतुल्यकालि-अन्तरणकक्षायां (Geosynchronous Transfer Orbit) स्थापनां कर्तुं शक्नोति ।

GSLV Mark-III वाहकयानं GSLV वाहकस्य अपेक्षयाऽपि अधिकं क्षमतायुतं वाहनम् । एतत् यानं ४००० कि.ग्रा. भारयुतस्य उपग्रहस्य भूतुल्यकालि-अन्तरणकक्षायां(Geosynchronous Transfer Orbit) स्थापनां कर्तुं समर्थम् । अस्य इन्धनविषये संशोधनकार्यं प्रचलति इदानीम् ।

एतेषां प्रमोचकयानानां साफल्येन भारतदेशस्य नाम अन्तरिक्षतन्त्रज्ञानजगति प्रख्यातम् अभूत् । ततः परं भारतदेशेन एतेषां यानानां विक्रयणमपि प्रारब्धम् । एवं संशोधनकार्येण अन्ताराष्ट्रियस्तरेऽपि भारतदेशस्य प्रतिमा उज्ज्वलतरा अभवत् । अस्माकं देशस्य विश्वासार्हता, विज्ञानप्रगतिः जगतः दृष्टिपथम् आगता ।

उपग्रहविकासकार्यम्[सम्पादयतु]

गतेषु ४० वर्षेषु इसरो संस्थया बहुषु क्षेत्रेषु प्रगतिः साधिता अस्ति । उपग्रहाणां विकसन-प्रक्षेपणाभ्यां बहुषु तन्त्रज्ञानसम्बद्धक्षेत्रेषु महती प्रगतिः जाता । उपग्रहाणाम् उपयोजनं बहुषु क्षेत्रेषु प्रारब्धम् । उपग्रहविकसनकार्यक्रमे तेषाम् उपयोजनानुसारेण केचन प्रकाराः सन्ति । ते यथा -

भारतीय-राष्ट्रिय-उपग्रह-प्रणाली (Indian National Satellite System (INSAT))[सम्पादयतु]

१९८३ तमवर्षादारभ्य INSAT उपग्रह-प्रणाल्याः निर्माणकार्यं प्रारब्धम् । दूरवाणीविकासकार्यं, दूरचिकित्सा, वातावरणसम्बद्धविज्ञानसंशोधनं, दूरशिक्षणं तथा निस्तरणकार्यं (rescue operations) च एतया उपग्रहयोजनया साध्यते । चण्डवातः, भूकम्पः, पूरः इत्यादीनां समस्यानां पूर्वसूचनामपि अनया योजनया प्राप्तुं शक्नुमः । एवं बहूद्देशीया एषा योजना ।

'एशिया-पेसिफिक'परिसरे विद्यमानासु सञ्चारयोजनासु अन्यतमा अस्माकम् इन्सैट् सञ्चारयोजना । अस्याः योजनायाः परिणामत्वेन सञ्चारक्षेत्रेऽपि देशेन प्रगतिः साधिता । इन्सैट्-प्रणाल्यां २४ उपग्रहाः अन्तर्भवन्ति । १६८ सन्देशग्राहक-बृहदुपकरणानि सन्ति । पृथिव्याः भूस्थिर-कक्षायाम् (भूमिस्तरतः ३६००० कि.मी.) उपग्रहाणाम् आरोपणं कृत्वा तेषाम् उपयोगं करणीयं इति इयं योजना । पृथ्वीतः एते उपग्रहाः स्थिराः दृश्यन्ते इत्यतः भूस्थिराः उपग्रहाः इति कथ्यन्ते ।

इन्सैट् उपग्रहाः

भारतीय-सुदूर-संवेदन-उपग्रह-प्रणाली(Indian Remote Sensing)[सम्पादयतु]

विश्वे विद्यमानासु सुदूर-संवेदन-उपग्रह-प्रणालीयोजनासु अन्यतमा अस्माकं IRS योजना । अस्यां योजनायां भू-प्रेक्षण-उपग्रहा(Earth Observation Satellite)णां समावेशः भवति । भू-प्रेक्षण-उपग्रहा(Earth Observation Satellite)णां योजना पृथिव्याः सर्वेक्षणार्थं भवति ।
अनया योजनया एव वातावरण-साङ्ख्यिकीं (Climate statistics) प्राप्तुं शक्नुमः । या साङ्ख्यिकीसामग्री प्राप्यते, तस्याः विनियोगः कृषिक्षेत्रे, जल-समुद्भवस्थानानां गवेषणे, नगरविकासकार्ये, खनिजसम्पत्तिविषये, नैसर्गिक-आपत्तिज्ञाने, निस्तरणकार्ये (rescue operations) च भवति ।

भारतीय-सुदूर-संवेदन-उपग्रह-प्रणाल्यर्थं निर्मिताः उपग्रहाः

ओशनसैट् (OCEANSAT) योजना[सम्पादयतु]

IRS योजनायाः भागः अस्ति एषा योजना । अनया योजनया भारतस्य सीमायां ये सागराः सन्ति तेषां निरीक्षणं, संरक्षणदृष्ट्या योजनं, समस्यानां पूर्वसूचनादानं च क्रियन्ते । १९९९ तमे वर्षे निर्मितः IRS P24 इति प्रथमः ओशनसैट् उपग्रहः अवकाशे प्रेषितः ।

अन्तरिक्ष-अन्वेषण-कार्यक्रमः (Space Mission)[सम्पादयतु]


  • चन्द्रयानम् - १ -

चन्द्रयानम् इति किञ्चन मानवरहितं यानमासीत् यस्मिन् भागद्वयमासीत् । एकः भागः चन्द्रस्य कक्षायां परिक्रमति, निरीक्षणान् च प्रेषयति । अपरः चन्द्रस्य तलं प्राप्य निरीक्षणान् प्रेषयति । २००८ तमे वर्षे उपग्रहोऽयं प्रक्षेपितः, नवेम्बर ८ दिनाङ्के कक्षायां स्थापितः च ।

  • केचन अन्तरिक्षकार्यक्रमाः विशिष्टावसरे भवन्ति । तदर्थमपि उपग्रहनिर्मितिः भवति । शास्त्रज्ञाः प्रायोगिकान् लघु-उपग्रहान् (Experimental Setellite) अपि निर्मान्ति ।
    केषाञ्चन उपग्रहाणां, वाहकानां च निर्मितिः, प्रयोगाः अपि तन्त्रज्ञान-प्रगतिप्रदर्शनार्थं भवन्ति । यथा अन्तरिक्ष-कैप्स्यूल् इत्यादयः ।
  • अन्तरिक्ष-कैप्स्यूल्-पुनःप्राप्ति-परीक्षण-कार्यक्रमः (Space capsule Recovery Experiment) अपि तेषु एकः कार्यक्रमः आसीत् । अस्मिन् कार्यक्रमे ५५० कि.ग्रा. भारयुतस्य उपग्रहस्य प्रक्षेपणं कृतम् । अन्तरिक्षे सूक्ष्म-गुरुत्वस्थित्यां परिक्रमां, परीक्षणं च कृत्वा कक्षायाः बहिः आगत्य कैप्स्यूल् पृथिवीं कथं प्रत्यागच्छति इति प्रदर्शनं कृतम् । एते प्रयोगाः पुनरुपयोगि-प्रमोचकयान-निर्माणे महत्वपूर्णं स्थानं प्राप्स्यति इति शास्त्रज्ञानाम् अभिप्रायः । १० जनवरी २००७ दिनाङ्के PSLV-C7 द्वारा एस्.आर्.सी.-१ इत्येतत् प्रेषितम् । १२ दिनानन्तरं बङ्गाल-उपसागरे तदस्माभिः पुनः प्राप्तम् ।
  • भारतीय-प्रादेशिक-दिशादर्शकाः उपग्रहाः (Navigation Setellites) अपि प्रेष्यमाणाः सन्ति ।
एन्ट्रिक्स(ANTRIX)-कार्पोरेशन इत्यस्य कार्याणि

सुविधाः[सम्पादयतु]

अस्माकम् उपग्रहाणां प्रयोगाय, यानानां प्रेषणाय च सुदृढाः भौतिक-सुविधाः आवश्यक्यः सन्ति । तासां सुविधानां निर्माणं, विकासं, योजनम् इत्येतानि कार्याणि अपि आवश्यकानि । तानि कार्याणि इसरो-संस्थायाः ANTRIX विभागः करोति । उपग्रहाणां, प्रमोचनयानानां च विकासः, परीक्षणं, परिज्ञापकयानार्थं, प्रमोचनयानार्थं च आवश्यक्यः भौतिकसंरचनाः, दूरमिति-व्यवहारे(Remote Sensing) साङ्ख्यिकीज्ञानस्य प्रेषणम्, अभिग्रहणं च इत्येतेभ्यः आवश्यक्यः सुविधाः, संरचनाः इत्येतेषां समावेशः तासु सुविधासु भवति । एतासां योजनानां विकासकार्ये बह्व्यः शैक्षणिकसंस्थाः, संशोधनसंस्थाः, उद्यमाः च भागं वहन्ति ।

भारतीय-अन्तरिक्ष-सुविधावितरक-विभागः[सम्पादयतु]

अन्तरिक्षविभागस्य एन्ट्रिक्स(ANTRIX)-कार्पोरेशन इति उद्यमः भारतीय-अन्तरिक्ष-सेवानां, यन्त्रांशानां इत्युक्ते 'हार्डवेअर्' इत्येतेषां विपणनकार्यं करोति । उपग्रहभागाणां विक्रयणम्, उपग्रहनिर्माणस्य contracts च स्वीकरोति । उपग्रहाणां प्रेषणसुविधाः ददाति । तथा मानवसंसाधनस्य प्रशिक्षणं, नियोजनं करोति एषः विभागः ।

अग्निबाणाः

अन्ताराष्ट्रियः सहयोगः[सम्पादयतु]

अन्ताराष्ट्रिय-अन्तरिक्ष-कार्यक्रमेषु भारतदेशः सहभागी भवति । UN, IAF, COSPAR, CEOS इत्येतेषु कार्यक्रमेषु भारतदेशः सहभागी जातः । इसरोसंस्थया अन्तरिक्ष-विज्ञान-प्रौद्योगिकी-शिक्षा-केन्द्रं(Centre for Space Science and Technology Education in Asia and The Pacific (CSSTE-AP) स्थापितम् । संयुक्तराष्ट्रसङ्घटनेन प्रायोजितायां योजनायां(SHARES) भारतदेशः विकसनशील-देशानां शास्त्रज्ञेभ्यः अन्तरिक्षकार्यक्रमविषये प्रशिक्षणं ददाति । चन्द्रयान-सदृशकार्यक्रमेषु भारतदेशः मह्त्वपूर्णं भागं वहति ।

विशिष्टाः सिद्धयः[सम्पादयतु]

-- १ १९६२ तमे वर्षे विक्रम-साराभाई इत्यनेन अस्माकं देशस्य अन्तरिक्ष-कार्यक्रमस्य योजना आरेखिता ।

२ २१ नवेम्बर १९६३ दिनाङ्के टर्ल्स इत्यस्मात् स्थानात् 'राकेट' प्रक्षेपणम् ।

३ १५ आगस्त १९६९ दिनाङ्के भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य(इसरो) स्थापना ।

४ १९७२ तमे वर्षे

५ १९७५ तमे वर्षे इसरो संस्थानस्य सर्वकारीय-सङ्घटनत्वेन मान्यताप्राप्तिः ।

६ १९७९ तमे वर्षे एस्.एल्.वी.(SLV-3) प्रमोचनयानस्य परीक्षणात्मकं प्रेषणम् ।

७ १९८२ तमे वर्षे हासन इत्यस्मिन् स्थाने मुख्य-नियन्त्रण-सुविधा-केन्द्रस्य स्थापना

८ १९८३ तमे वर्षे INSAT उपग्रहयोजनायाः अभिचालनं जातम् ।

९ १९८८ तमे वर्षे सुदूर-संवेदन-उपग्रहयोजनायाः(IRS) प्रारम्भः जातः ।

१० १९९२ तमे वर्षे INSAT इत्यस्याः योजनायाः सम्पूर्णभारतीयतन्त्रज्ञानाधारेण निर्मितस्य द्वितीयस्तरीयस्य प्रथमोपग्रहस्य-INSAT-2A प्रक्षेपणम् ।

११ १५ अक्टूबर् १९९४ दिनाङ्के PSLV प्रमोचनयानस्य IRS-P2 इति उपग्रहेण सह सफलं प्रक्षेपणम् जातम् ।

१२ २००० तमे वर्षे INSAT-3 शृङ्खलायाः तृतीयस्तरीयस्य प्रथमोपग्रहस्य अन्तरीक्षप्रेषणम् ।

१३ २००१ तमे वर्षे GSLV प्रमोचनयानस्य GSAT-1 इति उपग्रहेण सह सफलं प्रक्षेपणं जातम् ।

१४ २००४ तमे वर्षे GSLV F-01 प्रमोचनयानस्य EDUSAT इति उपग्रहेण सह सफलं प्रक्षेपणं जातम् ।

१५ २००७ तमे वर्षे PSLV-C7 इत्यनेन प्रमोचनयानेन १० जनवरी दिने SRE-1, KATOSAT-2 इत्यनयोः अन्तरिक्षे प्रेषणम् । २२ जानेवारी दिनाङ्के SRE-1 इत्यस्य सफलतापूर्वकपुनःप्रापणम् ।

१६ २००८ तमे वर्षे PSLV-C9 एकेनैव प्रमोचनयानेन अष्टविदेशी-उपग्रहैः सह IMS-1 तथा KATOSAT-2A इत्यनयोः सफलतया प्रक्षेपणं कृतम् ।

१७ २०१० तमे वर्षे GSLV Mark-III प्रमोचनयानस्य S-200 इति राकेट् चरणस्य सफलतापूर्वकं परीक्षणं कृतम् ।

१८ २०११ तमे वर्षे PSLV-C16 प्रमोचनयानद्वारा रिसोर्ससैट्-२, युथसैट्, एक्स-सैट् इत्येतेषां सफलतया प्रेषणं कृतम् ।

अन्तरिक्षविज्ञाने जाता प्रगतिः[सम्पादयतु]

सङ्घटनेन विविधानाम् उपग्रहाणां योजना अन्तरिक्षविज्ञानसंशोधनार्थं कृता एव परं तया सह काश्चन विशेषयोजनाः अपि अभवन् यथा चन्द्रयानम्-१, चन्द्रयानम्-२, युथसैट(Youthsat), मङ्गळग्रहस्य कक्षायां प्रेषितं भारतीयं यानम् मङ्गलयानम् इत्यादयः योजनाः अन्तरिक्षविज्ञाने संशोधनकार्यार्थमेव कृताः । एतैः कार्यक्रमैः प्राप्ता साङ्ख्यिकीसामग्री जगति महत्त्वपूर्णा, अद्वितीया च अस्ति ।

वर्तमान-कार्यक्रमः[सम्पादयतु]

इसरो इति अन्तरिक्षानुसन्धान-सङ्घटनं निरन्तरं प्रगतिपथे पुरस्सरति । स्थापनादिनाङ्कात् अन्तरिक्ष-अनुसन्धाने बहु-प्रयोगाः कृताः । तेषु ये प्रयोगाः सफलाः, उपयोगपूर्णाः तेषां कार्यम् संस्थया अग्रे नीयते । तथा च यस्मिन् विषये आवश्यकता वर्तते तेषां विषये संशोधनम्, विकासकार्यं च अङ्गीक्रियते । अतः इदानीं ये प्रकल्पाः इसरो संस्थायां प्रचलन्ति तेषां विषये

१. उपग्रहाः

• भारतीय-राष्ट्रीय-उपग्रहाः (INSAT) • भारतीय-सुदूर-संवेदन-उपग्रह-प्रणाली(Indian Remote Sensing) • Meteorological Setellite • Satellite Navigation

२. प्रमोचन-यानानि

• PSLV • GSLV

३. उपग्रह-विनियोगः

• सुदूर-संवेदनम् • ग्रामीण-संसाधान-केन्द्रम् (VRC) • भारतीय-प्रादेशिक-दिशादर्शक उपग्रहाः (Indian Regional Navigation Setellite System)

प्रथमसञ्चालकः विक्रम साराभाई

२०१२-२०१३ संवत्सरे कृतानि कार्याणि[सम्पादयतु]

  • इसरो सङ्घटनेन ९ सञ्चारोपग्रहाः, १ वातावरणविज्ञानीय-उपग्रहः, १ वैज्ञानिकोपग्रहः इत्येतेषां डयनम् अस्मिन् वर्षे कृतम् ।
  • प्रमोचनयानविकासकार्यम् - स्वदेशी-'क्रायोजेनिक'-यन्त्रेण(Engine) सह भू-तुल्यकालि-उपग्रह-प्रमोचकयानस्य मार्क-II अस्य सफलतापूर्वकम् उपयोगः कृतः । GSLV Mark- III इत्यस्य यानस्य निर्माणं प्रगतिपथे अस्ति ।
  • महासागरविज्ञानीय-उपग्रहस्य 'सरल' अस्य PSLV C 20 द्वारा प्रक्षेपणम् ।
  • पुनरुपयोगि-वाहकयान-प्रौद्योगिकी, समानव-अन्तरिक्ष-उड्डयनम् इत्यनयोः विकासकार्यं प्रगतिपथे अस्ति ।

सङ्घटनस्य विस्तारः[सम्पादयतु]

एतेषां सर्वेषां कार्याणां सञ्चालनम् इति तु बहु आह्वानात्मकं कार्यम् । अतः बृहत्सङ्ख्यासामर्थ्यम्, आर्थिकसामर्थ्यं, तन्त्रज्ञानं च आवश्यकम् । अस्य कार्यार्थं सम्पूर्णे भारते इसरो संस्थायाः कार्यविभागाः, शाखाः च कर्मरताः सन्ति । ताः शाखाः यथा –

सङ्घटनस्य केन्द्राणि

१. विक्रम-साराभाई-अन्तरिक्ष-केन्द्रम्(VSSC), तिरुवनन्तपुरम्
२. इसरो-उपग्रह-केन्द्रम्(ISAC), बेङ्गलुरु
३. सतीश-धवन-अन्तरिक्ष-केन्द्रम्(SDSC), शार, श्रीहरिकोटा
४. द्रव-नोदन-प्रणाली-केन्द्रम्(Liquid Propulsion Space Centre), महेन्द्रगिरि, बेङ्गलुरु
५. अन्तरिक्ष-उपयोग-केन्द्रम्(Space Application Centre), अहमदाबाद
६. विकास-तथा-शैक्षिक-सञ्चार-केन्द्रम्, अहमदाबाद
७. इसरो-दूरमिती-अनुवर्तन-तथा आदेश सञ्चारजाल(National Remote Sensing Centre), हैदराबाद
८. मुख्य-नियन्त्रण-सुविधा-केन्द्रम्(Master Control Facility), हासन, भोपाल
९. विद्युत्-प्रकाशिकी-तन्त्र-प्रयोगशाला(Laboratory Electro Optic System), बेङ्गलुरू
१०. भारतीय-सुदूर-संवेदन-संस्थानम्(Indian Institute of Remote Sensing), देहराडून
११. भौतिक-अनुसन्धान-प्रयोगशाला(Phisical Research Laboratory), अहमदाबाद
१२. राष्ट्रिय-वायुमण्डल-अनुसन्धान-प्रयोगशाला(National Atmospheric Research Laboratory), गुद्दंकी
१३. प्रादेशिक-सुदूर-संवेदन-केन्द्रम्(Regional Remote Sensing Centre), बेङ्गलुरु, जोधपुर, खड्गपुर, देहरादून, नागपुरम्
१४. उत्तर-पूर्वी-अन्तरिक्ष-उपयोग-केन्द्रम्(North Eatern-Space Application Centre), शिलौङग
१५. एन्ट्रिक्स-कोर्पोरेशन्-लिमिटेड्(ACL), बेङ्गलुरु
१६. सेमी-कण्डक्टर्-प्रयोगशाला(SCL), चण्डिगढ
१७. भारतीय-अन्तरिक्ष-विज्ञान-प्रौद्योगिकी-संस्था(Indian Institute of Science and Technology), तिरुवनन्तपुरम्

सङ्घटनस्य अध्यक्षाः[सम्पादयतु]

अस्याः संस्थायाः संस्थापनादारभ्य बहुभिः ख्यातनामभिः, तन्त्रज्ञैः, धीमद्भिः च अध्यक्षपदं भूषितम्, सञ्चालकपदम् च अलङ्कृतम् । ते अध्यक्षाः यथा – १. डा. विक्रम साराभाई (१९६३-१९७२)
२. प्रोफ़ेसर एम.जी.के. मेनन (जनवरी - सितम्बर १९७२)
३. प्रोफ़ेसर सतीश धवन (१९७२-१९८४)
४. प्रोफ़ेसर उडुपी रामचन्द्र राव (१९८४-१९९४)
५. डॉ. कृष्णस्वामी कस्तूरीरङ्गन (१९९४-२००३)
६. श्री जी. माधवन नायर (२००३-२००९)
७. डा.के.राधाकृष्णन्- वर्तमान-अध्यक्षः

सङ्घटनस्य वर्तमान-अध्यक्षः

आगामिकार्यक्रमाः[सम्पादयतु]

आगामियोजनाः

भारतदेशस्य विकासार्थं यतमानम् एतत् सङ्घटनम् । एतेन सङ्घटनेन भारतदेशस्य विकासार्थं बहु कार्यं कृतं तथैव इतः परमपि करणीयम् इति चिन्तनं दृश्यते सङ्घटनस्य अग्रिमयोजनासु । सङ्घटनेन 'Space VIsion India 2025' इत्येषा आगामियोजना स्वीकृता अस्ति । तस्यां केचन अंशाः यथा -
१. प्रमोचनयानविषये - पुनःप्रयोगार्हाणि यानानि निर्मातव्यानि ।
२. समानव-अन्तरिक्ष-कार्यक्रमाः । ३. नौसेनायाः सञ्चालनम् उपग्रहमाध्यमेन यथा भवेत् तथा तन्त्रज्ञानविनियोगात् योजना-निर्माणम् ।
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य एतादृश्यः बह्व्यः आगामियोजनाः सन्ति । ४. ग्रामीण-संयोजनं, सुरक्षाव्यवस्थाः, दूरसञ्चार-सेवार्थम् उपग्रहाणां योजना अस्ति । ५. प्राकृतिक-संसाधन-व्यवस्था, वातावरण-जलवायु-परीक्षणार्थं उन्नत-प्रतिबिम्बनक्षमताधारी उपग्रहाणां योजना । ६. ग्रह-अन्वेषणम् ७ अधिकभारयुतस्य उपग्रहस्य प्रमोचनार्थं तादृशः अर्हतावतः प्रमोचनयानस्य निर्माणम् ।

टिप्पणी[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]