भारतीयबाह्याकाशसंशोधनसंस्था (ISRO)
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
भारतीयबाह्याकाशसंशोधनसंस्था एषा भारतस्य अन्तरिक्षसंशोधनासंस्था अस्ति । अस्याः मुख्यकार्यालयः बेङ्गळूरुनगरे अस्ति । तत्र १७,००० जनाः कार्यं कुर्वन्तः सन्ति ।अस्य केन्द्राणि बेङ्गळूरुनगरे, केरलराज्ये तिरुवनन्तपुरे गुजरातराज्ये अहमदाबाद्नगरे, तमिळ्नाडुराज्ये महेन्द्रगिरौ कर्णाटकराज्ये हासननगरे आन्ध्रप्रदेशे श्रीहरिकोटानगरे च सन्ति ।अस्य उद्देशः तन्त्रज्ञानस्य संशोधनं तथा भारतार्थं तस्य उपयोगः , तस्य अभिवर्धनं च । न केवलम् उपग्रहान् अपि तु उपग्रहवाहकान् अपि निर्माति । अस्य इदानीन्तनः अध्यक्षः के राधाकृष्णन् अस्ति । प्रतिवर्षं प्रायः १५० तान्त्रिकान् नियोजयति एषा संस्था । प्रतिभावताम् अत्र अवकाशः अस्ति नियुक्तौ । तन्त्रज्ञः भवितुम् तन्त्रज्ञः भवेत् । स्नातकपरीक्षायां ७० प्रतिशतं अङ्काः प्राप्ताः स्युः ।