विक्रम साराभाई

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विक्रम साराभाई

भारतीय वैज्ञानिकः।

विक्रम साराभाई इत्यनेन भारते अवकाशसंशोधनक्षेत्रस्य आरम्भः कृतः । अतः एषः अवकाशक्षेत्रस्य पिता इति जनाः आमनन्ति । भारते अवकाशविज्ञानस्य चर्चा विक्रमस्य नाम्ना न स्यात् तत् अशक्यम् ।

जन्म परिवारश्च[सम्पादयतु]

विक्रम साराभाई इत्यस्य जन्म १९१९ तमस्य वर्षस्य अगस्त-मासस्य द्वादशे (12) दिनाङ्के अहमदाबाद-नगरे अभवत् । तस्य पितुः नाम अम्बालाल साराभाई, मातुः नाम अनसूयाबेन इति । तस्य पिता केलिकोन् इत्यस्य वस्त्रयन्त्रागारस्य स्वामी आसीत् । सः सामाजिकनैतिक-दायित्वज्ञः देशभक्तश्च आसीत् । सः स्वातन्त्र्यघटनाभ्यः संयुक्तानां सदैव सत्कारं करोति स्म । तस्य महात्मा इत्यादिभिः सह उत्तमः सम्बन्धः आसीत् ।

बाल्यं शिक्षणञ्च[सम्पादयतु]

स्वबालकाः समीचीनं शिक्षणं प्राप्नुयुः इति विचार्य अम्बालाल स्वस्य विशाले भवने शालां निर्मापितवान् । तत्र तस्य परिवारस्य षोडश बालकाः अध्ययनं कुर्वन्तः आसन् । तान् पाठयितुं १३ शिक्षकाः आसन् । एते प्रत्येकविषयाणां निष्णाताः आसन् । मूलतः शिक्षकाणां मुख्यं कार्यं बालकानामुपरि ध्यानप्रदानस्य आसीत् । यदि बालकाः किमपि नावगच्छेयुः तर्हि सङ्कोचेन विना शिक्षकान् पृच्छेयुः, शिक्षकाः अपि योग्यमुत्तरम् दद्युः इति सः इच्छति स्म । शालापि चित्रप्रकोष्ठेन, भूगोलप्रकोष्ठेन, सङ्गीतप्रकोष्ठेन, प्रयोगशालया सह सर्वैः शैक्षणिकसाधनैः सम्पन्ना आसीत् । इदानीं शालायां बालकानां कृते यावन्तः नियमाः सन्ति तावन्तः तत्र नासन् । अतः देशस्तु अस्वतन्त्रः किन्तु बालकाः स्वतन्त्राः आसन् । बालकेभ्यः अभ्यासक्रमः नासीत् किन्तु अभ्यासक्रमः बालकेभ्यः आसीत् । बालकाः यदा पठितुम् इच्छन्ति स्म तदैव पठन्ति स्म । परीक्षायाः चिन्तापि नासीत् । यदा अतिथयः आगत्य भवने वसन्ति स्म तदा शालां प्राप्य बालकैः सह चर्चां कुर्वन्ति स्म । बालकाः अपि महतां सहवासेन मार्गदर्शनं प्राप्नुवन्ति स्म । इत्थं विक्रमस्य पालनं सुखेन अभवत् । सः यत् इच्छति स्म तत् प्राप्नोति स्म । कस्यापि वस्तुनः अभावः नासीत् । सामान्यतया लक्ष्मीसरस्वत्योः एकत्र प्राप्तिः दुर्लभा । पठनेच्छुकानां गृहे धनं न भवति, धनिकानां गृहे बालकाः बहुपरिश्रमेण उत्तीर्णाः भवन्ति । किन्तु विक्रमस्य उपरि न केवलं लक्ष्मी, सरस्वती अपि प्रसन्ना आसीत् । अतः सः तेजस्वी दृश्यते स्म । विक्रमस्य गणितविज्ञानाभ्यां सह भाषासङ्गीतादिषु अपि रसः आसीत् ।

उच्चः अभ्यासः[सम्पादयतु]

विक्रमः प्रारम्भे पित्रा निर्मितायां शालायाम् अपठत् । किन्तु उच्चाय अभ्यासाय मेट्रिक् परीक्षा अनिवार्या आसीत् । विक्रमः अहमदाबाद-नगरस्य आर्. सी. माध्यमिकशालां प्रविश्य मेट्रिक् परीक्षाम् उत्तीर्णवान् । १९३५ तमे वर्षे अहमदाबाद-नगरे गुजरात कॉलेज् प्रविश्य वर्षद्वयं तत्र अधीत्य विदेशं गतवान् । १९३७ तमे वर्षे इङ्ग्लेण्ड्-देशस्य केम्ब्रिज्-नगरे सेन्ट् जॉन् कॉलेज् प्रविष्टः । वर्षत्रयं तत्र अपठत् । १९४० तमे वर्षे गणितपदार्थविज्ञानविषयाभ्यां बी. एस्. सी. पदवीं प्रमाणपत्रं च प्रापत् । ततः परं परमाणुपदार्थविज्ञान(न्यूक्लियर् फिज़िक्स्)विषये अभ्यासं यदा कुर्वन् आसीत् तदानीं द्वितीयं विश्वयुद्धम् अभवत् । तत्र जर्मनी-देशस्य हिट्लर् ब्रिटन्- देशस्य उपरि भीषणम् अणुविस्फोटम् अकरोत् । तस्य विमानानि ब्रिटन्-देशस्य प्रासादान् अन्विष्य अत्रोटयन्त । तादृश्यां स्थितौ शिक्षणसंकुलानि पिहितानि आसन् । अतः विक्रमः अभ्यासं त्यक्त्वा स्वदेशम् आगतः ।

सी.वी. रामन् इत्यनेन सह मेलनम्[सम्पादयतु]

स्वदेशं तु आगतः किन्तु अत्र किं कुर्यात् ? विज्ञानप्रियेण अवशिष्टं पठनं कुत्र कर्तव्यम् इति महत्तमा चिन्ता आसीत् । वैज्ञानिकस्य सी.वी. रामन् इत्यस्य बेङ्गळूरु-नगरे स्थितायाम् इन्डियन् इन्स्टिट्यूट् ऑफ् सैन्स् नामिकायां संस्थायां संयुक्तः अभवत् । सी.वी. रामन् इत्यस्य प्रेरणया, मार्गदर्शनेन विक्रमः प्रयोगानां संशोधने आसक्तः अभवत् । तस्य संशोधनस्य विषयः ब्रह्माण्डस्य किरणाः (कॉस्मिक् रेज़्) इति आसीत् । अस्य विषये अभ्यस्तुं विक्रमः बेङ्गळूरु, पुणे, काश्मीर-नगरं च अगच्छत् ।

कॉस्मिक् रेज़्[सम्पादयतु]

अयं तु विज्ञानस्य विषयः । तथापि सरलभाषायां वक्तव्यं चेत् अन्तरिक्षात् पृथ्वीं प्रति ये शक्तिशालिकिरणाः आगच्छन्ति ते कॉस्मिक् रेज़् इति कथ्यन्ते । प्रतिनिमिषम् अहर्निशं प्रायः ६०० किरणाः अस्मच्छरीरं स्पृशन्ति । ते अर्बुद् परिमितात् पर्वतादपि निर्गन्तुं समर्थाः भवन्ति । विक्रमः कॉस्मिक् रेज़् इत्येतेषां तीव्रतायां परिवर्तनस्य कार्यं स्व्यकरोत् । अस्मै संशोधनाय आवश्यकानि साधनानि अपि निर्मापितवान् । ततः परं पृथिव्याम् आगन्तॄणां किरणानां सङ्ख्यायां यद् परिवर्तनम् भवति, तस्यापि अभ्यासम् अकरोत् । १९४२ तमे वर्षे तस्य पीरियॉडिक् वेरिएशन्स् ऑफ् कॉस्मिक् रेज़् इति लेखः प्रकटः अभवत् । अवकाशस्थानां ग्रहाणां पारस्परिकगुरुत्वाकर्षणस्य अपि अभ्यासम् अकरोत् । १९४५ तमे वर्षे अमेरिका-देशेन जापान-देशस्य उपरि अणुविस्फोटः कृतः । तत एव द्वितीयविश्वयुद्धस्य समाप्तिः अभवत् । विक्रमः अवशिष्टम् अभ्यासं समापयितुं केम्ब्रिज्-नगरम् अगच्छत् । सार्धैकवर्षस्य कठोरपरिश्रमेण कॉस्मिक् रेज़् इन्वेस्टिगेशन् इन् ट्रॉपिकल् लॅटिट्यूड् (उष्णकटिबन्धेषु ब्रह्माण्डकिरणानां संशोधनम्) इति विषये महानिबन्धम् अलिखत् । यदा विक्रमः भारतं प्रत्यागतः तदा डॉ. विक्रम साराभाई इति नाम्ना प्रसिद्धिं प्रापत् । सः जन्मना एव वैज्ञानिकजीवः आसीत् । अतः अभ्यासकाले बहूनि स्वप्नानि अपश्यत् । सः स्वस्य अभ्यासे तत्रापि विशेषेण कॉस्मिक् रेज़् (ब्रह्माण्डकिरणाः) विषये, वातावरणस्य विषये, अन्तरिक्षविषये च संशोधनार्थं मनः अप्रेरयत् । तदर्थं प्रयोगशालायाः अत्यावश्यकता आसीत् । कारणम् अवकाशे जायमानानां परिवर्तनानां परीक्षणं प्रयोगशालायां कर्तव्यं भवति । तदर्थं नूतनानि वैज्ञानिकसाधानानि अपि आवश्यकानि भवन्ति ।

विक्रमस्य प्रयोगशाला[सम्पादयतु]

वैज्ञानिकाय प्रयोगशाला विज्ञानस्य साक्षात्कारकारकं पवित्रं धर्मस्थानम् । अतः विक्रमेण अहमदाबाद-नगरम् आगत्य प्रयोगशालां स्थापयितुं नगरस्य धनिकाः, शिक्षाविदः, सर्वकारजनाः च सूचिताः । सः १९७४ तमे वर्षे अहमदाबाद-नगरे भौतिकसंशोधनस्य (फिज़िकल् रिसर्च्) प्रयोगशालाम् अस्थापयत् । विक्रमेण वपितं बीजं वटवृक्षम् अभवत् । भारतेन अवकाशक्षेत्रे याः सिद्धयः प्राप्ताः तासु पी.आर्.एल्. इत्यस्य महत्त्वपूर्णं योगदानम् अस्ति । वैज्ञानिकैः अवकाशे स्थाप्यमानानाम् उपग्रहाणां मुख्यानि कार्याणि अत्रैव सम्पाद्यन्ते । पी.आर्.एल्. इत्यस्मिन् लक्षाधिकाः वैज्ञानिकाः अहर्निशं संशोधनाय प्रयतन्ते । १९७४ तमे वर्षे अवकाशे प्रेषितस्य उपग्रहस्य अधिकांशाः रचनाः अहमदाबाद-नगरस्य भौतिकसंशोधनस्य प्रयोगशालायाम् अभवन् । गुर्जरजनानां कृते अयं गौरवस्य विषयः । पी.आर्.एल्. इत्यस्मिन् प्रारम्भे विक्रमेण प्राध्यापकत्वेन कार्यं कृतम् । १९७५ तमे वर्षे पी.आर्.एल्. इत्यस्य निर्देशकपदम् आलङ्करोत् । पी.आर्.एल्. इत्यनेन काश्मीर-नगरस्य गुलमर्ग इत्यत्र कॉस्मिक् रेज़् संशोधनाय संशोधनकेन्द्रं स्थापितम् । भारतसर्वकारः अणु-ऊर्जाविभागेन अस्य केन्द्रस्य विकासं कृत्वा इदं केन्द्रं विश्वस्य सर्वोच्चं ब्रह्माण्डकिरणानां संशोधनकेन्द्रम् इति प्राचारयत् । तमिळनाड़ुराज्यस्य कोडैकेनाल-नगरे अपरं संशोधनकेन्द्रम् अस्ति ।

कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना[सम्पादयतु]

विद्यार्थिनः पद्धत्यनुसारं विज्ञानस्य अभ्यासं कुर्युः इति विचिन्त्य विक्रमेण अहमदाबाद-नगरे कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना कृता । इयं संस्था विद्यार्थिनां विज्ञानसम्बन्धिप्रश्नानां निवारणं, विज्ञानप्रतिभायुतानां बालकानाम् अन्वेषणकार्यं च करोति । विक्रमः निवृत्त्यनन्तरं तत्र छात्रान् पाठयितुम् ऐच्छत् । किन्तु राष्ट्रस्तरे वैज्ञानिकत्वेन विख्यातः अभवत् अतः अहमदाबाद-नगरे आगमनं कठिनम् आसीत् । किन्तु विक्रमः यदा अहमदाबाद-नगरम् आगच्छति स्म तदा कम्युनिटी सैन्स् सेन्टर् अवश्यं गच्छति स्म । साम्प्रतं वयम् उपग्रहयुगे अन्तर्जालयुगे च स्मः । अतः प्रतिजने दूरभाषयन्त्रं, प्रतिगृहे २४ घण्टां यावत् टी.वी. प्रसारणं सर्वम् अस्ति । किन्तु तदानीं टी.वी. कार्यक्रमान् कृत्रिम-उपग्रहेण प्रतिग्रामं प्रेषयितुं शक्नुमः इति कल्पना विक्रमस्य एव आसीत् । अस्य प्रयत्नेन सर्वकारेण अहमदाबाद-नगरस्य जोधपुर टेकरा इत्यत्र कृत्रिम-उपग्रहैः सह सन्देशव्यवहारस्य अभ्यासाय एकं केन्द्रं स्थापितम् । भारते उपग्रहमाध्यमेन टेलिविज़न् कार्यक्रमाणां प्रारम्भे इदं प्राक्तनं केन्द्रमस्ति ।

देशे गुणगानम्[सम्पादयतु]

विक्रमः केवलं वैज्ञानिकः नासीत् । सः विज्ञानसंस्थानां स्थापकः, प्रेरकश्च आसीत् । १९६१ तमे वर्षे विक्रमः अणुशक्तिसमितेः पञ्चसु सभ्येषु एकत्वेन चितः । १९६२ तमे वर्षे विज्ञानसंस्थानां स्थापनाकार्याय शान्तिस्वरूप भट्टनागर इत्यस्य सुवर्णचन्द्रकं प्रापत् । अतः राष्ट्रस्तरे विज्ञानप्रवाहे विख्यातः अभवत् । विक्रमस्य विज्ञानप्रवृत्तिभिः देशः प्रसन्नः आसीत् । अतः होमी भाभा इत्यस्य अवसानानन्तरं १९६६ तमे वर्षे अणुशक्तिसमितेः अध्यक्षस्य दायित्वं सर्वकारः विक्रमाय अददात् । होमी भाभा इत्यस्य शान्तिमयस्य परमाणुकार्यक्रमस्य स्वप्नं सार्थयितुं विक्रमः योजनाः अरचयत् । तस्य हेतुः अणुविज्ञानक्षेत्रे भारतं स्वावलम्बिनं कर्तुम् आसीत् । ततः परं सः स्वस्य प्रयोगशालायाम् अणुप्रयोगशृङ्खलाम् आरभत । १९७४ तमे वर्षे राजस्थानराज्यस्य पोखरण इत्यत्र भारतेन कृतः प्रथमः अणुविस्फोटः विक्रमस्य परिश्रमस्य फलम् आसीत् । किन्तु अस्य अणुविस्फोटस्य प्रागेव विक्रमः चिरनिद्रायां गतः इति खेदस्य विषयः । भारतम् अबलं राष्ट्रं मन्यमानाः देशाः अनेन प्रथमेन अणुविस्फोटेन भारतस्य अणुस्वावलम्बनं ज्ञातवन्तः । भारतं युद्धाय अणुशक्तिं प्रयुज्येत् इति विक्रमः कदापि नैच्छत् । परन्तु स्वस्य संरक्षणार्थं देशः सदा सन्नद्धः भवेत् इति इच्छति स्म । शान्तिप्रिय-अणुराष्ट्रत्वेन भारतम् अद्यापि विक्रमस्य स्वप्नानि सत्यं कुर्वत् अस्ति ।

अणुविज्ञानस्य परमाणुविज्ञानस्य च विचाराः[सम्पादयतु]

अणुशक्तिः स्वस्य नामवत् ऊर्जायाः प्रचण्डं स्रोतः अस्ति । किन्तु अस्य उपयोगः मानवस्य विकासाय विनाशय च भवितुं शक्यः । विश्वस्य देशाः परस्परं भयोत्पादनाय अणु-उत्पादनं कुर्वन्ति स्म, परमाणुविस्फोटादिशस्त्राणां प्रतिस्पर्धां च कुर्वन्ति स्म । किन्तु विक्रमस्य विचारः भिन्नः आसीत् । देशस्य महत्तमे भागे न्यूनेन मूल्येन विद्युदूर्जां प्रेषयितुम् अणुशक्तेः आवश्यता अस्ति इति सः अमन्यत । पञ्चाशत्वर्षान्ते ऊर्जायाः मुख्यस्रोतत्वेन कदाचित् अणुशक्तेः एव उपयोगः कर्तव्यः भविष्यति इत्यपि सः अमन्यत । अस्य उपयोगेन विना देशे दारिद्र्यं, प्रादेशिकी असमानता इत्यादीनां प्रश्नानां निराकरणं भवितुम् अशक्यम् इत्यपि विक्रमः अमन्यत । अणुशक्तिसमितेः अध्यक्षत्वेन विक्रमः स्वरुचिकरौ अवकाशः, अणुशक्तिः इत्येतौ द्वौ विषयौ चित्वा उभयोः समन्वयम् आरभत । अत एव इन्डियन् स्पेस् रिसर्च् इन्स्टिट्यूट् इत्यस्य नाम परिवर्त्य इन्डियन् स्पेस् रिसर्च् ऑर्गनैज़ेशन् इति नाम दत्वा प्रयोगान् अकरोत् ।

अवकाशसंशोधनम्[सम्पादयतु]

तस्मै अवकाशसंशोधनम् इति विषयः अणुशक्त्या अपि रुचिकरः आसीत् । अतः पी.आर्.एल्. एक्पे्तरिमेन्टल् सेटेलैट् कम्युनिकेशन् अर्त् स्टेशन्, इसरो इत्येताभ्यां संस्थाभ्याम् अवकाशसंशोधने अधिकाधिकं कार्यम् अकरोत् । अतः भारतीयाः तस्मै अवकाशयुगस्य जनकः इति उपाधिम् अददन् । यदि विक्रमसदृशः वैज्ञानिकः न स्यात् तर्हि अस्माकं देशे उपग्रहक्रान्तेः अभावः साम्प्रतम् अपि स्यात् । यदा वयम् आर्थिके सामाजिके च क्षेत्रे प्रगतिं साधयिष्यामः तदा बाह्यावकाशे कृताः प्रयोगाः फलदायकाः भविष्यन्ति इति विक्रमस्य मतम् आसीत् । अतः बाह्यावकाशस्य संशोधने तस्य शान्तिपूर्णे उपयोगे संयुक्तराष्ट्रसङ्घस्य प्रवृत्तौ अपि विक्रमः सक्रियः आसीत् । १९६८ तमे वर्षे जिनीव-नगरे बाह्यावकाशसंशोधनम् इति विषयं चर्चितुं संयुक्तराष्ट्रसङ्घस्य परिषद् अमिलत् । विक्रमः परिषदः पूर्वसज्जतायै रचितायाः निष्णातानां समितेः अध्यक्षः आसीत् । यदा परिषद् अमिलत् तदा विक्रमः परिषदः उपप्रमुखः, विज्ञानविभागस्य अध्यक्षः च आसीत् ।

विक्रमस्य वचनम्[सम्पादयतु]

भारतसदृशाय प्रगतिपरदेशाय पृथिव्याम् अवकाशे च शान्तिः रोचते इति शीतयुद्धे (कोल्ड् वॉर्) युद्ध्यमानानां साम्यवादिनां मूडीवादिनां च देशानां प्रति तस्य सङ्केतः आसीत् । अतः तेन जिनीव-नगरस्य परिषदि सभारमुक्तं विज्ञानं साधनम् अस्ति साध्यं न, विज्ञानम् अध्यात्मस्य यज्ञः अस्ति इति । विज्ञानम् + हिंसा = सर्वनाशः विज्ञानम् + अहिंसा = सर्वोदयः

विक्रमस्य रत्नान्वेषणकला[सम्पादयतु]

वैज्ञानिकाः देशस्य अमूल्याः बौद्धिकसम्पत्तयः सन्ति । तेषां संशोधनानि पौनःपुन्येन अग्रे गच्छेयुः चेत् विज्ञानं सततं विकसेत् । विक्रमः केवलं वैज्ञानिकः नासीत् किन्तु वैज्ञानिकप्रतिभां ज्ञात्वा तां प्रतिभां विकासयितुं गुणधर्मयुतः मानवः अपि आसीत् । भारते इदानीं वैज्ञानिकाः न सन्ति इति नास्ति किन्तु रत्नान्वेषकाः न सन्ति । वैज्ञानिकत्वेन कार्यकरणेन सह तस्य अधिकाधिकं लाभम् अन्येऽपि गृह्णीयेयुः इत्येतादृशम् उदारत्वम् वैज्ञानिकस्य आवश्यकम् । विक्रमेण वैज्ञानिकानाम् उत्पत्तिः भवेत् तादृश्यः सुविधाः प्रदत्ताः, वैज्ञानिकाः अपि प्रदत्ताः । एकवारं प्रफुल्ल डी भावसार नामकः विद्यार्थी बी.एस्.सी. उत्तीर्य पुणे-नगरे एम्.एस्.सी. कर्तुं गतवान् । परन्तु पुणे-नगरे प्रवेशः न प्राप्तः इति खिन्नः आसीत् । तदानीम् एकेन जनेन अहमबाद-नगरे वैज्ञानिकेन विक्रमेण फिज़िकल् रिसर्च् लेबोरेटरी स्थापिता इति सूचितम् । तत् श्रुत्वा प्रफुल्लः अनेकाभिः आशाभिः सह विक्रमं मिलितुम् अगच्छत् । विक्रमः प्रफुल्लं दृष्ट्वा तस्मिन् स्थितं वैज्ञानिकजीवम् अजानात् । किमर्थं भौतिकशास्त्रं पठितुम् इच्छति इत्यादीन् अनेकान् प्रश्नान् च अपृच्छत् । अन्ते लॅब् मध्ये प्रवेशम् अददात् । अतः प्रफुल्लः विक्रमस्य मार्गदर्शनेन दीक्षितः सन् विज्ञानक्षेत्रे बह्वीं प्रगतिम् अयात् ।

विवाहजीवनम्[सम्पादयतु]

यदा विक्रमः सी.वी.रामन् इत्यस्य अन्तरे संशोधनकार्यं करोति स्म तदा स्वामिनाथन् इत्यस्य कुटुम्बस्य परिचितः अभवत् । स्वामिनाथन् पत्नी अम्मु स्वामिनाथन् राजकीयकार्यकर्त्री आसीत् । तयोः पुत्री मृणालिनी नृत्याङ्गना आसीत् । सा धनवन्तं विज्ञानविचक्षणं विक्रमं प्रति आकर्षिता अभवत् । विक्रमस्य विज्ञानेन सह नृत्यकलायामपि रुचिः आसीत् । अयं रसः एव उभयोः सम्मेलकः अभवत् । अन्ते १९४२ तमे वर्षे मृणालिन्या सह तस्य विवाहः अभवत् । सा विवाहं कृत्वा अहमदाबाद-नगरं गता । श्वशुरः तस्याः कलारसं प्रोत्साहयितुं दर्पण-नामिकां नृत्यसंस्थाम् अस्थापयत् । इयं संस्था देशे विदेशे च प्रसिद्धा अभवत् । अत्र अनेकाः विद्यार्थिनः प्रशिक्षणं प्राप्य राष्ट्रस्तरे प्रख्याताः अभवन् । श्रीमती मृणालिनी देशात् परदेशात् च अनेकानि प्रमाणपत्राणि, सुवर्णचन्द्रकानि अयात् । भारतसर्वकारेण अपि पद्मश्री-उपाधिना इयं सत्कारिता । मृणालिनीविक्रमयोः एकः पुत्रः कार्तिकेयः, पुत्री मल्लिका च अस्ति ।

कुशलः उद्योगपतिः विक्रमः[सम्पादयतु]

विक्रमः श्रेष्ठः वैज्ञानिकः आसीत्, अतः प्रयोगेषु रसः तु स्वाभाविकः । किन्तु पिता व्यापारी (businessman) आसीत् । अतः सः कुशलः आयोजकः, सञ्चालकः, उद्योगपतिः च आसीत् । विक्रमेण विज्ञानक्षेत्रे उद्योगक्षेत्रे च प्रगतिः साधिता । तस्य समयावधिः पञ्चवर्षस्य एव आसीत् । तस्य आयुष्यम् अधिकं स्यात् चेत् तस्य कुशलतायाः अधिकाधिकः लाभः देशः प्राप्नोत् । वडोदरा-नगरे औषधिनिर्माणार्थं साराभाई केमिकल्स्, टीनोपोल् निर्मात्री विख्याता संस्था सुहृद् गायत्री, पेनिसिलिन् उत्पादिका सीन बयोटिक्स्, विटामिन्स् उत्पादकं प्रमुखं यन्त्रागारं साराभाई एम्. केमिकल्स्, इत्यादीनां संस्थानां स्थापकः विक्रमः एव आसीत् । तस्य बुद्धिकौशलेन एव इमे उद्योगाः प्रगतिम् अयुः । साराभाई कुटुम्बः उद्योगे (व्यवसाये) देशस्य अग्रणी कुटुम्बः आसीत् । तस्य कुटुम्बस्य सभ्यत्वेन विक्रमः कोटि-रूप्यकाणां स्वामी आसीत् । कोट्याधिकरूप्यकाणाम् आयोजनकर्ता च आसीत् । कौटुम्बिकव्यवसाये अपि विज्ञानक्षेत्रवत् बहुपरिश्रम् अकरोत् इत्यस्य साक्षीरूपाणि पूर्वोक्तानि उद्योगकार्याणि सन्ति ।

मृत्युः[सम्पादयतु]

१९७१ तमस्य वर्षस्य दिसम्बर-मासस्य २९ तमे दिनाङ्के विक्रमस्य कार्यभारः आसीत् । थुम्बा-संशोधनकेन्द्रे अनेकैः अधिकारिभिः सह चर्चा प्रचाल्यमाना आसीत् । द्वादशवादने सति अपि विक्रमस्य कार्यं न समाप्तम्, अतः सञ्चिकाः पश्यन् विक्रमः उपविष्टः आसीत् । ततः परं सः शयनम् अकरोत् । तत् तस्य अन्तिमं चिरशयनम् आसीत् । इत्थं ५२ वर्षस्य वयसि अवकाशसंशोधनकार्यं त्यक्त्वा अनन्तयात्रायां गतः । सम्पूर्णः देशः अरुदत् । तदानीम् इन्दिरा गान्धी प्रधानमन्त्री आसीत् । सा अपि खिन्ना सन्ती विक्रमाय मरणोत्तरं पद्मविभूषण-उपाधिना बहुमानम् अददात् । विक्रमः वैज्ञानिकत्वेन यथा उत्तमः आसीत् तथैव स्वभावेऽपि सरलः, शान्तश्च आसीत् । शेठ श्री कस्तुरभाई लालभाई विक्रमाय शब्दाञ्जलिं दत्वा अकथयत् “वैज्ञानिकास्तु अनेकाः भविष्यन्ति किन्तु मानवतागुणयुतः १००-२५० वर्षान्तेऽपि न भविष्यति” इति । अद्यापि सम्पूर्णः देशः विक्रमस्य विराटप्रतिभायै कोटि-कोटि वन्दनानि करोति ।

"http://sa.wikipedia.org/w/index.php?title=विक्रम_साराभाई&oldid=284319" इत्यस्माद् पुनः प्राप्तिः