मुख्यपृष्ठम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मुखपृष्ठं इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,६८२ लेखाः सन्ति ।

गुरुवासरः, मार्च ५, २०१५; समयः- १८:१५ UTC


विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्


वसुधा

विशं विशं मघवा पर्यशायत ॥
प्रत्येकस्य जनस्य अन्तः सः भगवान् विद्यते । -ऋग्वेदः ४-१६-२



शास्त्रीयलेखः

योगशास्त्रस्य प्रणेता पतञ्जलिः

योगदर्शनं (Yoga) दर्शनेषु अन्यतमम् । अस्य योगशास्त्रस्य रचयिता महर्षिः पतञ्जलिः । अयं पतञ्जलिः जीवः ईश्वरश्चेति तत्वद्वयं स्वीकरोति । अतः एव अस्य दर्शनस्य "सेश्वरसांख्यदर्शनम्" इति नामान्तरम् । अस्यैव शास्त्रस्यापरं नाम "सांख्यप्रवचनम्"इति । एतद्दर्शनं पतञ्जलिना प्रणीतत्वात् "पातञ्जलदर्शनम्" इत्यपि व्यवहारयोग्यं भवति । यद्यपि पतञ्जलेः पूर्वाचार्याः हिरण्यगर्भयाज्ञवल्क्यादयः अनेके आचार्याः योगशास्त्रस्य प्रवक्तारः आसन्, अथापि जनसाधारणानां कृते पतञ्चलिरेव तं योगशास्त्रं सूत्ररुपेण ग्रन्थीकृत्य सम्यक् सरलरीत्या व्याजहार इति हेतोः अस्य योगदर्शनस्य "पातञ्जलदर्शनम्" इति नाम सयुक्तिकं तिष्ठति ।

(अधिकवाचनाय »)



वार्ताः

अद्यतनं चित्रम्

द्राक्षावनम्

Hills and vineyards, Roquebrun.jpg

आधुनिकलेखः

विद्यादानरतः गुरुः

शिक्षकदिनं सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के आभारतम् आचर्यते । इदं दिनं डॉ. सर्वपल्ली राधाकृष्णन्-महोदयस्य जन्मदिनम् । सः एकः उत्तमः शिक्षकः आसीत् यः शिक्षणक्षेत्रम् अतीव प्रीणाति स्म । तस्य सम्माने तस्य जन्मदिनाङ्के शिक्षकदिनम् आचर्यते । शिक्षकदिवसे शिक्षणसंस्थाः सांस्कृतिकोत्सवं आयोजयन्ति । अस्मिन् दिवसे शालासु, विद्यालयेषु स्पर्धाः भवन्ति । तासु स्पर्धासु विद्यार्थिनः उत्साहपूर्वकं भागं गृह्णन्ति, स्वशिक्षकान् आनन्दयन्ति च ।

(अधिकवाचनाय »)




ज्ञायते किं भवता...

सुभाषितम्

मरणं प्रकृति: शरीरिणां विकृतिर्जीवितमुच्यते बुधै: ।
क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥

कालिदासस्य रघुवंशम् (८/८७)

सर्वेषां प्राणिनां मरणं स्वभावसिद्धम् । तत् परिहर्तुं केनापि न शक्यते । जातस्य मरणं निश्चितम् एव । किन्तु जीवनं न निश्चितम् । तत् आकस्मिकं, न तु स्वभावसिद्धम् । अद्यैव जीवनं समाप्तं स्यात्, अथवा श्व: । जीवितस्य पुरुषस्य मरणं भवत्येव । किन्तु मृतस्य पुन: जीवितं भविष्यति इत्यत्र न निश्चय: । अत: क्षणकालमपि जीव: यदि देहे तिष्ठति तर्हि तदेव प्राणिनां महालाभ: । किञ्च, मरणेऽपि शोक: न कार्य: । यत: मरणं प्राणिनां स्वाभाविकम् । यावज्जीवं सन्तोषेण जीवेत् । यत: दुर्लभं जीवनम् अस्माभि: प्राप्तम् अस्ति ।





अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः

"http://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=286030" इत्यस्माद् पुनः प्राप्तिः