वदनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महिलायाः वदनम्

इदं वदनम् अपि शरीरस्य किञ्चन अङ्गम् अस्ति । वदनम् एव कस्यापि प्राणिनः व्यक्तेः परिचये प्रमुखं स्थानं वहति । अस्मिन् वदने नासिका, नेत्रे, मुखं, कपोलः, चिबुकं, ललाटं, भ्रूः, पक्ष्म चापि अन्तर्भवन्ति । वदनम् इति अर्थे एव मुखम् इति पदम् अपि उपयुज्यते । इदं वदनम् आङ्ग्लभाषायां Face इति उच्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वदनम्&oldid=408791" इत्यस्माद् प्रतिप्राप्तम्