विजयलक्ष्मी पण्डित

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विजयलक्ष्मी पण्डित
Vijaya Lakshmi Pandit
कार्यालये
१५/९/१९५३ – २१/९/१९५७[१]
पूर्वगमः लेस्टर् बी. पीयरसन्
पादानुध्यातः एल्को एन्. वेन् क्लेफेन्स्
सांसदः
कार्यालये
१९६७–१९७१
पूर्वगमः जवाहरलाल नेहरू
पादानुध्यातः वी. पी. सिंह
सांविधानिकक्षेत्रम् फूलपुर (लोकसभा)
व्यक्तिगत विचाराः
जननम् August 18, 1900(1900-08-18)
इलाहाबाद, उत्तरप्रदेशराज्यम्, भारतम्
मरणम् December 1, 1990(1990-12-01) (aged 90)
देहरादून, उत्तराखण्डराज्यम्, भारतम्
राजनैतिकपक्षः भारतीयराष्ट्रियकाङ्ग्रेस्
पतिः/पत्नी रणजीत सीताराम पण्डित
अपत्यानि नयनतारा सहगल
धर्मः हिन्दुः

विजयलक्ष्मी पण्डित (हिन्दी: विजयलक्ष्मी पंडित,आङ्ग्ल: Vijaylaxmi Pandit) भारतस्य प्रथमा महिलाराजदूतः आसीत् । सा संयुक्तराष्ट्रसङ्घस्य अपि प्रथमा महिलाध्यक्षः आसीत् । पुनश्च सा भारतमन्त्रालयस्य प्रथमा महिलामन्त्रीत्वेन अपि कार्यं कृतवती आसीत् । भारतस्य स्वातन्त्र्यान्दोलने विजयलक्ष्म्याः महद्योगदानं वर्तते ।

जन्म, परिवारश्च[सम्पादयतु]

विजयलक्ष्म्याः जन्म ई. स. १९०० तमस्य वर्षस्य अगस्त-मासस्य १८ दिनाङ्के उत्तरप्रदेश-राज्यस्य इलाहाबाद-मण्डलस्य इलाहाबाद-महानगरे अभवत् [२]मोतीलाल नेहरू इत्याख्यः तस्याः पिता, स्वरूपरानी इत्याख्या तस्या माता च आसीत्[३] । तस्याः बाल्यनाम “स्वरूप कुमारी” इति आसीत् ।

तस्याः पिता काश्मीर-प्रान्तीयः पण्डितः अस्ति, माता च अपि काश्मीर-प्रान्तस्य ब्राह्मण-वर्णीया आसीत् । तस्याः माता ‘स्वरूपरानी’ इत्याख्या मोतीलालस्य द्वितीया पत्नी आसीत् । प्रसवसमये मोतीलालस्य प्रथमायाः पत्न्याः मृत्युः अभवत् । अतः मोतीलालः द्वितीयवारं विवाहम् अकरोत् ।

विजयलक्ष्म्याः एकः भ्राता, एका भगिनी च आसीत् । तौ – जवाहरलाल नेहरू, कृष्णा हठिसिंह च । तस्याः भ्राता जवाहरलालः भारतस्य प्रथमः प्रधानमन्त्री आसीत् । तस्याः भगिनी लेखिका आसीत् । जवाहरलालः विजयलक्ष्म्याः एकादशवर्षं ज्येष्ठः आसीत् [४]

शिक्षणम्[सम्पादयतु]

विजयलक्ष्म्याः सम्पूर्णं शिक्षणं स्वस्य गृहे वैयक्तिकत्वेन एव अभवत् । एका स्त्री तां पाठितुं गृहं गच्छति स्म । विवाहानन्तरं तया जीवविज्ञाने एम्. बी. बी. एस्. (M.B.B.S.) अपि कृतम् आसीत् । तस्याः शिक्षणं पाश्चात्यपद्धत्यानुगुणम् एव अभवत् ।

विवाहः[सम्पादयतु]

१९२१ तमस्य वर्षस्य मई-मासे “सीताराम पण्डित” इत्याख्येन सह विजयलक्ष्म्याः विवाहः अभवत्[५] । सीतारामः महात्मागान्धी इत्याख्यस्य परममित्रम् आसीत् । सीतारामः काठियावाड-प्रदेशस्य प्रसिद्धः वाक्किलः आसीत् ।

सीतारामः एकः श्रेष्ठः लेखकः, अनुवादकश्चासीत् । सीतारामेण ‘कल्हन’ इत्याख्यस्य कवेः “राजतरङ्गिणी” नामकस्य संस्कृतभाषायाः महाकाव्यस्य आङ्ग्लभाषायाम् अनुवादः कृतः आसीत् ।

विवाहपूर्वं तस्याः नाम स्वरूपकुमारी इति आसीत् । किन्तु विवाहानन्तरं कुलरीत्यानुगुणं तस्याः नूतनं नामकरणम् अभवत् । विवाहानन्तरम् एव सा “विजयलक्ष्मी पण्डित” इति नाम्ना ख्याता आसीत् ।

तस्याः परिवारस्य राजनैतिकपृष्ठभूमिः आसीत् । अतः सा अपि प्रारम्भादेव परिवारेण सह राजनीतिक्षेत्रे संलग्ना आसीत् ।

विजयलक्ष्म्याः तिस्रः पुत्र्यः आसन् । ताः – चन्द्रलेखा, नयनतारा, रीटा च । नयनतारा लेखिका आसीत् । नयनतारायाः अपि एका पुत्री आसीत् । तस्याः नाम “गीता सहगल” इति अस्ति । सा अपि लेखिका, पत्रकारः, चलच्चित्रनिर्देशिका च अस्ति ।

ई. स. १९४४ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के तस्याः पतेः मृत्युः अभवत् । तस्मिन् समये हिन्दु-विधवाभ्यः उत्तराधिकारिणां नियमः नासीत् । यतः तस्याः पुत्रः एव नासीत् । अतः तेन कारणेन सा पतेः सम्पत्तेः किमपि न प्राप्तवती । तस्याः पतेः भ्रात्रा सीतारामस्य सम्पूर्णसम्पत्तिः अतिगृह्णिता ।

व्यक्तित्वम्[सम्पादयतु]

विजयलक्ष्म्याः व्यक्तित्वं गौरवमयी, ओजस्वी चासीत् । तया सम्पूर्णे जीवने भारतदेशाय एव कार्याणि कृतानि सन्ति । सा कर्मनिष्ठा, जाग्रता च आसीत् । अतः साम्प्रतम् अपि विश्वस्य विशिष्टमहिलासु “विजयलक्ष्मी पण्डित” इत्याख्यायाः नामोल्लेखः क्रियते ।

अभिरूचिः[सम्पादयतु]

विजयलक्ष्म्याः कुटुम्बे बहवः जनाः लेखकाः वा उपन्यासकाराः आसन् । तस्य अपि रूचिः लेखने आसीत् ।

तया नैकानि पुस्तकानि रचितानि सन्ति । तेषु सा ई. स. १९७९ तमे वषे “The Scope of Happiness: A Personal Memoir” नामकस्य पुस्तकस्य रचनां कृतवती [६] । अनन्तरं ई. स. १९५८ तमे वर्षे तया “The Evolution of India” नामकं पुस्तकं रचितम् । इतः परम् अपि बहूनि पुस्तकानि रचितानि सन्ति ।

  1. Prison Days
  2. From Ministry to Prison
  3. Significant social and economic factors in the Far East
  4. Speech by Madame Vijaya Lakshmi Pandit, President of the UN General Assembly, to the Foreign Policy Association, at the Waldorf-Astoria Hotel, New York, 21 october 1953.
  5. Sunlight surround you : a birthday bouquet from Chandralekha Mehta, Nayantara Sahgal and Rita Dar
  6. Elites and Urban Politics : A Case Study of Delhi
  7. Struggle for Independence
  8. The Women who Swayed America
  9. राजनैतिक अभियान भारतीय सन्दर्भ
  10. Vijaya Lakshmi Pandit Letter to Rajni Patel
  11. India After Gandhi : An NBC Radio Discussion
  12. So I Became a Minister : Vijaya Lakshmi Pandit
  13. An Colinial Empires a Threat to World Peace?
  14. India’s Foreign Policy. – (New York) 1956
  15. Jeleke ve dina
  16. मुश्किलें इतनी परें : जवाहरलाल नेहरू की छोटी बहन

विजयलक्ष्म्या स्वस्याः आत्मकथा “The Scope of Happiness” इत्यस्मिन् पुस्तके लिखिता अस्ति । तया स्वबाल्यं तस्मिन् पुस्तके वर्णितम् अस्ति । बाल्ये सा विरोधाभासिके वातावरणे पालिता आसीत् । राजनीतौ अपि तस्याः रूचिः आसीत् । षोडशे वर्षे प्राप्ते सति एव सा राजनीतिक्षेत्रे प्रविष्टवती ।

राजनैतिकजीवनम्[सम्पादयतु]

विजयलक्ष्मी प्रारम्भादेव राजनीतिक्षेत्रे संलग्ना आसीत् । सा षोडशे वर्षे प्रथमां राजनैतिकगोष्ठीम् उपातिष्ठत् । तदनन्तरं सा ‘एनी बेसन्ट्’ इत्यस्याः होमरुल-आन्दोलनाय कार्यं कर्तुम् ऐच्छत् । किन्तु सा तदा युवती आसीत् । अतः तेन कारणेन केवलं स्वयंसेवकत्वेन प्रवेशं प्रापत् सा ।

ई. स. १९१९ तमे वर्षे महात्मागान्धी आनन्दभवनं गतवान् आसीत् । तदा महात्मना सह विजयलक्ष्म्याः मेलनम् अभवत् । महात्मानं मिलित्वा विजयलक्ष्मी प्रभाविता जाता । ततः परं सा सर्वदा महात्मना सह आन्दोलनेषु कार्यरता आसीत् । तस्यै महात्मनः महत्प्रभावः आसीत् ।

अनन्तरं सा असहयोग आन्दोलने अपि भागं गृहीतवती । तेन कारणेन आन्दोलने विरोधकारणात् सा बन्धिता । सा महात्मनः प्रभावेण प्रत्येकेस्मिन् आन्दोलने अग्रे भवति स्म, कारागारं गच्छति स्म च । किन्तु कारागारात् आगत्य पुनः आन्दोलने सम्मिलिता भवति स्म । सा १९४१ तः १९४३ पर्यन्तं वर्षद्वयं यावत् “अखिल भारतीय महिला सम्मेलन” इत्यस्य अध्यक्षः आसीत् [७]

विधानसभायाः सदस्या[सम्पादयतु]

भारतसर्वकारस्य “अधिनियम १९३५” इत्यनुसारं यदा १९३७ तमे वर्षे कॉङ्ग्रेस्-सर्वकारस्य निर्माणं जातम्, तदा तस्यै उत्तरप्रदेश-राज्यस्य विधानसभायाः मन्त्रीपदं प्रदत्तम् आसीत् । अतः सा भारतस्य मन्त्रालयस्य प्रथमा महिला मन्त्री, विश्वस्य द्वितीया महिला मन्त्री च आसीत्[८]

सर्वकारेण विजयलक्ष्म्यै स्वास्थ्य-मन्त्रालयः, स्वायत्र-मन्त्रालयः च प्रदत्तः आसीत् । विजयलक्ष्म्या पञ्चायतराजविधेयकस्य निर्देशनं कृतम् ।

तया स्वस्याः पतिना सह स्वातन्त्र्यान्दोलने राष्ट्रियकार्याणि कृतानि । तेन कारणेन सा बहुवारं कारागारम् अपि गतवती आसीत् । विश्वयुद्धस्य प्रारम्भे सति विजयलक्ष्म्या मन्त्रीपदं त्यक्तम् । मन्त्रीपदं त्यक्ते सति आरक्षकैः पुनः विजयलक्ष्मी बन्धिता ।

कारागारात् आगत्य सा पुनः “भारत-छोडो-आन्दोलने” संयुक्ता जाता । किन्तु तेन आन्दोलनेन सा पुनः बन्धिता । कारागारे तस्याः स्वास्थ्यं शिथिलं जातम् आसीत् । अतः नवमासानन्तरं तस्यै मुक्तिः प्रदत्ता ।

भारतस्य राजदूतः[सम्पादयतु]

ई. स. १९४५ तमे वर्षे विजयलक्ष्मी अमेरिका-देशं गतवती । तत्र गत्वा स्वस्याः भाषणैः भारतस्य स्वतन्त्रतायै प्रचारः कृतः । १९४६ तमे वर्षे सा पुनः उत्तरप्रदेशस्य विधानसभायाः सदस्यपदं, राज्यसर्वकारे मन्त्रीपदं च प्राप्तवती आसीत् । स्वतन्त्रतायाः अनन्तरं विजयलक्ष्म्या संयुक्तराष्ट्रसङ्घे भारतस्य प्रतिनिधित्वेन नेतृत्वं कृतम् आसीत् ।

संयुक्तराष्ट्रसङ्घे सा महासभायाः प्रथमा महिलाध्यक्षत्वेन चिता । रूस्-देशे, मैक्सिको-देशे, आयरलैण्ड्-देशे, स्पेन्-देशे च भारतस्य राजदूतत्वेन अपि सा कार्यं कृतवती आसीत् [९]। अनन्तरं तया इङ्ग्लैण्ड्-देशे उच्चाधिकारीत्वेन अपि कार्यं कृतम् आसीत् ।

हिन्दुस्त्रीभ्यः संघर्षः[सम्पादयतु]

यदा विजयलक्ष्म्याः पतेः मृत्युः अभवत्, तदा पतेः सम्पतौ तस्याः अधिकारः नासीत् । यतः सा पुत्रहीना आसीत् । अतः यदि पुत्रः स्यात्, तदैव सम्पत्तौ अधिकारः भवति इति तत्कालस्य नियमाः आसन् । अनेन नियमेन सा किमपि कर्तुं न अशक्नोत् ।

तेन प्रसङ्गेन दुःखितया विजयलक्ष्म्या स्त्रीभ्यः अधिकारं प्रदातुं सङ्घर्षाः कृताः । ई. स. १९५५ तमवर्षपर्यन्तं हिन्दुसमाजे बह्व्यः कुरीतयः आसन् । तेन कारणेन स्त्रीषु अत्याचाराः, अन्यायाः च भवन्ति स्म । किन्तु विजयलक्ष्म्या बहवः प्रयासाः कृताः । अन्ते भारतस्य स्वतन्त्रतायाः अनन्तरं सर्वकारसाहाय्येन स्त्रीभ्यः पितुः, पतेः च सम्पत्तेः उत्तराधिकारः प्राप्तः ।

विभिन्नपदेषु कार्यम्[सम्पादयतु]

  • ई. स. १९५२ तमे वर्षे तया भारतस्य प्रथमस्य सद्भावनान्दोलनस्य कुशलं नेतृत्वं कृतम् ।
  • ई. स. १९६२ तः १९६४ पर्यन्तं सा लोकसभायाः सदस्यत्वेन चिता । सा किञ्चित् कालं यावत् महाराष्ट्र-राज्यस्य राज्यपालपदे अपि कार्यं कृतवती आसीत् ।
  • यदा ई. स. १९६४ तमस्य वर्षस्य मई-मासस्य २७ तमे दिनाङ्के जवाहरलाल इत्याख्यस्य मृत्युः जाता, तदा विजयलक्ष्म्याः हृदये आघातः अभवत् । तदनन्तरं ई. स. १९६४ तः १९६८ तमवर्षपर्यन्तं सा फूलपुर-प्रदेशस्य लोकसभायाः निर्वाचनक्षेत्रे संसद्-सदस्यता प्राप्तवती । ई. स. १९६८ तमे वर्षे पारिवारिककारणेभ्यः तया तत्पदं त्यक्तम् आसीत् । तत्क्षेत्रं जवाहरलाल इत्याख्यस्य निर्वाचनक्षेत्रम् आसीत् । जवाहरलाल इत्याख्यः फूलपुर-प्रदेशे १७ वर्षाणि यावत् कार्यं कृतम् आसीत् ।
  • यदा ‘इन्दिरा गान्धी’ इत्याख्या प्रधानमन्त्रीपदे आरूढवती, तदा तया १९७५ तः १९७७ पर्यन्तं लोकतान्त्रिकप्रक्रियायां प्रतिबन्धं कृत्वा आपत्कालस्य नियमः प्रस्थापितः । आपत्काले साक्षात् सर्वकारः निर्णयं कर्तुं अर्हति स्म । अतः विजयलक्ष्मी तस्याः रुष्टा अभवत् । विजयलक्ष्म्या स्वस्याः भ्रातृजायाः (इन्दिरा गान्धी) विरोधः कृतः ।
  • ई. स. १९७९ तमे वर्षे सा संयुक्तराष्ट्रमानवाधिकारायोगाय भारतस्य प्रतिनिधित्वेन चिता ।

मृत्युः[सम्पादयतु]

यदा इन्दिरा गान्धी प्रधानमन्त्रीपदम् आरूढवती, तदा विजयलक्ष्म्या राजनीतेः स्वैच्छिकनिवृत्तिः स्वीकृता आसीत् । तदनन्तरं सा देहरादून-नगरं गतवती ।

सा सार्वजनिकजीवनात् एकान्तं गन्तुं इच्छति स्म । अतः देहरादून-नगरं गत्वा सा सन्यासं स्वीकृतवती ।

ई. स. १९९० तमस्य वर्षस्य दिसम्बर-मासस्य १ दिनाङ्के भारतस्य उत्तरप्रदेश-राज्यस्य देहरादून-नगरे विजयलक्ष्मी पण्डित इत्याख्यायाः मृत्युः अभवत्[१०] । तस्मिन् काले तस्याः आयुः नवतिवर्षम् (९०) आसीत् । मृत्योः केभ्यश्चित् वर्षेभ्यः पूर्वम् एव सा राजनीतिः त्यक्तवती आसीत् ।

तस्याः मृत्योः समये बहवः मुख्यजनाः तत्र उपस्थिताः आसन् । तेषु भारतदेशस्य तत्कालीनः राष्ट्रपतिःरामास्वामी वैङ्कटरमण” अपि आसीत् । तेन मृत्योः अवसरे विजयलक्ष्म्यै “भारतस्य स्वतन्त्रतायाः चित्रपटस्य उज्ज्वलप्रतीकः” इति सम्माने वर्णनं कृतम् आसीत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. http://worldleadersindex.org/InternationalOrganisations/UN.html
  2. "Vijaya Lakshmi Pandit Biography". http://www.biography.com/. Retrieved 19 March 2015. 
  3. डॉ. बानो सरताज (2009). भारत की इक्यावन प्रथम महिलाएं. अयन प्रकाशन, नई दिल्ली. p. 59. ISBN 9788174083746. 
  4. सुधा सिंह (2008). विश्व की महान नारियां. प्रियंका प्रकाशन, दिल्ली. p. 93. ISBN 9788190659604. 
  5. "Vijaya Lakshmi Pandit". http://www.iloveindia.com/. Retrieved 19 March 2015. 
  6. "Vijaya Lakshmi Pandit Indian politician and diplomat". http://www.britannica.com/. Retrieved 19 March 2015. 
  7. "Vijaya Lakshmi Pandit (India)". http://www.un.org/. Retrieved 19 March 2015. 
  8. "विजयलक्ष्मी पण्डित". http://hi.bharatdiscovery.org. Retrieved 19 March 2015. 
  9. "Vijaya Lakshmi Pandit Indian Freedom Fighter". http://www.indianetzone.com. Retrieved 19 March 2015. 
  10. "Vijaya Lakshmi Pandit". http://www.encyclopedia.com/. Retrieved 19 March 2015. 
"http://sa.wikipedia.org/w/index.php?title=विजयलक्ष्मी_पण्डित&oldid=292302" इत्यस्माद् पुनः प्राप्तिः