विन्ध्यः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विन्ध्यपर्वतस्य किञ्चन दृश्यम्

भूमे वेधनं कृत्वा भारतस्य मध्यभागे स्थितः पर्वतः विन्ध्यः। भारतस्य मध्यभागे गुजराततः बिहारपर्यन्तं ७०० मैल् यावत् “विन्ध्य”पर्वतपङ्क्तिः प्रसृता अस्ति । विन्ध्यपर्वतस्य उत्तरभागम् उत्तरपथः इति, दक्षिणभागं दक्षिणपथः इति च वदन्ति । अस्याः पर्वतपङ्क्तेः आरम्भः भवति गुजरातराज्ये । अग्रे मध्यप्रदेशस्य सागर-दामोहमण्डलयोः उत्तरभागस्य बुन्देलखण्ड तथा रेवासंस्थानद्वारा प्रसृता पङ्क्तिः बिहारे समाप्यते । एवं पश्चिमतः प्रसृतः विन्ध्यः पूर्वतः आगतं सातपुरं नर्मदायाः उद्भवस्थाने अमरकण्टके मिलति । सातपुरम् अपि विन्ध्यस्य एव कश्चन भागः ।

एषा पर्वतपङ्क्तिः ४०,००० च.मै. प्रदेशम् आक्रम्य स्थिता अस्ति । अस्य शिखराणि माकिं १५००-२००० पादमितम् उन्नतानि । कानिचन शिखराणि ३००० पादमितम् उन्नतानि सन्ति । आम्बापाणिः (२३८५ पादमितम्), दाशरथी (२३४५ पादमितम्), सलखानपूरं (२१८७ पादमितम्), मृगनाथः (२१४८ पादमितम्) च अत्रत्यानि प्रमुखाणि शिखराणि । समग्रा प्रर्वतश्रेणी माल्वपीठभूमेः दक्षिणे, नर्मदानद्याः उत्तरे च एकपङ्क्तौ एव अस्ति । विन्ध्यपर्वते महताप्रमाणेन लभ्यमानाः सिकताश्शिलाः (मरळुगल्लु) भवननिर्माणस्य उत्तमसामग्री अस्ति । साञ्चि-बर्हुत्-प्रदेशेषु बौद्धस्तूपस्य निर्माणार्थं, खजराहोप्रदेशे देवालयस्य निर्माणार्थं, ग्वालियर्-नेर्वाड-चान्देरी-मान्द-प्रदेशेषु दुर्गस्य प्रासादस्य च निर्माणार्थं विन्ध्यपर्वतस्य सुधाशिला महता प्रमाणेन उपयुक्ता । “नागोड” इति स्थानं सुधाशिलार्थं, “पन्ना” इति स्थानं च वज्रार्थं प्रसिद्धम् । पर्वतोयं खनिजसम्पत्तेः आगरः । अयः, म्याङ्गनीस इत्यादीनि अत्र महता प्रमाणेन प्राप्यन्ते ।

विन्ध्यः भारतस्य अत्यन्तं प्राचीनः प्रर्वतः । कुलपर्वतेषु अन्यतमौ ऋक्षवान्-पारियात्रौ अपि विन्ध्यस्य एव भागभूतौ । अस्मात् पर्वतात् नर्मदा, क्षिप्रा, करतोया, वैनगङ्गा, तमसा, दशार्णा, विपाशा, शोणभद्रा, महानदी इत्यादयः नद्यः प्रवहन्ति । अयं पर्वतः उत्तरदक्षिणभारतयोः दक्षिणोत्तरसीमा । अयं विन्ध्यः मध्यभारतस्य आधारः अपि । अयं विन्ध्यपर्वतः उत्तरदिशि अवतरन्निव गङ्गायाः उपत्यकापर्यन्तं प्रसृतः । विन्ध्यस्य विषये पुराणे एवं काचित् कथा श्रूयते । मेरुपर्वतं परितः सूर्येण क्रियमाणं प्रदक्षिणं दृष्टवतः विन्ध्यस्य असूया सञ्जाता । मयापि तादृशः गौरवः प्राप्तव्यः इति इच्छया उपर्युपरि अवर्धत सः । अनन्तरं सूर्यं ’मां परितः अपि प्रदक्षिणं करोतु’ इति प्रार्थयत् । किन्तु सूर्यः तथा नाकरोत् । कुपितः विन्ध्यः सूर्यस्य अवरोधं कुर्वन् इतोपि उन्नतः सञ्जातः । तेन सूर्यस्य चलनस्य अवरोधः सञ्जातः । तदा चिन्ताकुलाः देवताः विन्ध्यस्य गुरुम् अगस्त्यम् एतां समस्यां परिहर्तुं प्रार्थयन् । तदा देवतानां प्रर्थनानुसारं वाराणसीतः दक्षिणदिशि प्रस्थाय विन्ध्यपर्वतं प्राप्नोत् अगस्त्यः । गुरुं दृष्टवान् विन्ध्यः शिरः अवनम्य साष्टाङ्गनमस्कारम् अकरोत् । “मम दक्षिणतः प्रत्यागमनपर्यन्तं भवान् एवमेव भवतु” इति आज्ञाप्य दक्षिणम् अगच्छत् अगस्त्यः । दक्षिणतः अगस्त्यः पुनः न प्रत्यागच्छत् एव । तस्मात् विन्ध्यः अपि शिरः उन्नेतुं नाशक्नोत् । दक्षिणे लोपामुद्राम् ऊढवान् अगस्त्यः । कालान्तरे लोपामुद्रा एव कावेरी अभवत् । एषा कथा अगस्त्यस्य दिग्विजयं बोधयति । प्राचीनतमिळुभाषायाः व्याकरणरचनां कृतवान् अगस्त्यः । सागरम् उल्लङ्घ्य विदेशेषु धर्मप्रसारं कृतवत्सु प्रथमः अगस्त्यः एव ।

अस्य पर्वतस्य विन्ध्याचले विन्ध्यावासिन्याः अथवा कौशिकीदेव्याः मन्दिरम् अस्ति । एतत् देवीभागवते उक्तेषु १०१ शक्तिपीठेषु अन्यतमम् । अस्मिन् मन्दिरे नवरात्रावसरे महान् उत्सवः प्रचलति । अत्र महाकाल्याः अष्टभुजेश्वर्याः च मन्दिरे अपि स्तः । विन्ध्यावसिनी, महाकाली, अष्टभुजेश्वरी च क्रमेण लक्ष्म्याः पार्वत्याः सरस्वत्याः च अंशभूताः । दुर्गासप्तशत्यनुसारं शुम्भ-निशुम्भयोः संहारार्थं पार्वत्याः अंशतः रूपिता शक्तिः एव महाकाली । देवक्याः अष्टमः पुत्रः इति बुध्या कृष्णस्य स्थाने सुप्तं शिशुं यदा कंसः मारयितुम् उद्युक्तः तदा तस्य हस्तात् स्खलित्वा अष्टभुजेश्वरीरूपेण कंसाय दर्शनं दत्तवती सा विन्ध्याचलं प्राविशत् इति । सा विन्ध्यावासिनी एव उज्जयिन्याः विक्रमादित्यस्य कुलस्वामिनी ।

प्रतिवर्षं सहस्रशः यात्रिकाः नर्मदायाः परिक्रमणकाले विन्ध्यस्य अनुपमं सौन्दर्यम् आस्वादयन्तः तस्य उपत्यकायां विद्यमानानि तीर्थक्षेत्राणि सन्दर्शन्ते । विन्ध्यस्य स्मरणमात्रेण मालवस्य, करूषस्य, मेकलस्य, उत्कलस्य, दशार्णस्य, भोजस्य, कोसलस्य, त्रैपुरस्य, वैदिषस्य, नैषदस्य, आवन्त्याः पराक्रमिणः राजानः, सुन्दराः प्रासादाः, बलाढ्यानि दुर्गाणि, स्वर्ण-वज्र-खनिः, तीर्थक्षेत्राणि च नेत्रयोः पुरतः आयान्ति ।

"http://sa.wikipedia.org/w/index.php?title=विन्ध्यः&oldid=254469" इत्यस्माद् पुनः प्राप्तिः