सम्भाषणम्:मुख्यपृष्ठम्
अल्बर्ट् ऐन्स्टैन्
— Wikipedian — | |
नाम | अल्बर्ट् ऐन्स्टैन् |
---|---|
जन्म |
१४-०३-१८७९ उल्म्-नगरे |
देशः | [[|]] |
भाषा | आङ्ग्लभाष |
अल्बर्ट ऐन्स्टायिन् जर्मनीदेशस्य विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । भौतशास्त्रस्य जनकः इति प्रसिद्धिः अस्य । द्युतिविद्युत्परिणामस्य नियमं निरूपितवान् । एषः सुप्रसिद्धः नियमः भवति । 'बनेश् हाफ्’ अस्य शिष्यः अस्य जीवनस्य साधनस्य च विषये 'दि स्ट्रेञ्ज् स्टोरि आफ् दि क्वाण्टम्' इत्यस्मिन् पुस्तके विस्तृततया लिखितवान् अस्ति ।
जननम्, बाल्यञ्च
ऐन्स्टायिन् मार्चमासस्य १४ दिनाङ्के १८७९ तमे संवत्सरे जर्मनीदेशस्य वुर्टेन् बर्गप्रान्तस्य उल्म्-नगरे अजायत । अस्य पिता 'हर्मन्' । मता 'पौलीन्' । हर्मन् एकस्य आपणस्य स्वामी आसीत् । पौलीन् सङ्गीतप्रिया आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं मनः न आसीत् ।
अध्ययनम् , उध्योगञ्च
अस्य पिता कालान्तरे म्यूनिक् नगरे यन्त्रागारं स्थापितवान् । अस्मिन् समये पुत्रं क्याथोलिक् शालायाम् अध्ययनार्थं प्रेशितवान् । अत्रत्यनां कठिणनियमपालने अनासक्तः। अतः शालां गन्तुम् इच्छा एव न भवति स्म । पुत्राय विद्यायाः महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । अस्य माता 'पिटिलु’ वाद्यं पाठितवती । शालासु भाषाविषयेषु अनासक्तः, विज्ञाने, गणीते च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अस्मै अत्रत्य पाठनव्यवस्था न रोचते स्म । अतः स्विट्झर्ल्याण्ड्देशस्य आकानगरस्य प्रसिद्धां शालां प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता । उत्तमशिक्षणं प्राप्य, जूरिच्नगरस्य पालिटेक्निक् कलाशालां प्रविष्टवान् । अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान् । अपेक्षितान् गणीतशास्त्रनियमान् अधीतवान् । अध्ययनानन्तरं उद्योगावकाशाः न प्राप्ताः । एषु दिनेषु बालेभ्यः पाठयति स्म । जूरच् विश्वविद्यालयस्य डाक्टरेट् पदवीं प्राप्तवान् । अस्मिन्नेव विश्वविद्यालये एव १९०९ तमे संव तसरे प्राध्यापकपदवीं प्राप्तवान् । १९१२ तमे संवत्सरे जूरिच् पालिटेक्निक् विद्यालये सहप्राध्यापकत्वेन कार्यं कृतवान् । १९१३ तमे संवत्सरे बर्लिन् विश्वविद्यालये प्राध्यापकत्वेन कार्यं कृतवान् । कैसर् विल् हेल्म् इन्स्टिट्यूट संस्थायाः विंशतिवर्षाणि यावत् निदेशकः आसीत् ।
वैय्यक्तिकजीवनम्
अस्य बहुसरलजीवनम् आसीत् । यहूदिसम्प्रदायस्थः आसीत् । १९०३ तमे संवत्सरे विद्याभ्यासस्य कालीनां मिलेवा मारिस् सखीं परिणीतवान् । १९०४ तमे संवत्सरे "ह्यान्स् अल्बर्ट्” नाम प्रथमः पुत्रः अजायत् । द्वितीयस्य पुत्रस्य नाम एड्वर्ड इति । १९१४ तमे संवत्सरे परिवारेण सह बर्लिन्-प्रदेशम् आगतवान् । अत्र नूतन उद्योगं प्राप्तवान् । किञ्चित् कालानन्तरं दाम्पत्ये क्लेशाः उत्पन्नाः। १९१९ तमे संवत्सरे विच्छेदनम् अपि प्राप्तवान् । पुत्राभ्यां गृहात् निर्गता मिलेवा । अनेन दुःखितः ऋग्णश्च सञ्जातः । अस्मिन् समये अस्य पालनम् 'एल्सा’ कृतवती । एनाम् एव अ ल्र्ट परिणीतवान् । अस्य प्रसिद्धौ एषा अपि कारणीभूता । उपन्यासेन युरोपदेशेषु , अमेरिकादेशेषु च प्रसिद्धिः आसीत् । १९३३ तमे संवत्सरे अडाल्फ् र स्वशासनकाले अस्य गृहादिकं स्वायत्तीकृतवान् । अस्य पौरत्वमपि स्वीकृतवान् । अतः एषः अमेरिकादेशे एव वासं कृतवान् । स्वान्त्यकालपर्यन्तं न्यूजेर्सिया प्रिन्स्-टन् विश्वविद्यालये कार्यं कृतवान् ।
अल्बर्ट् सिद्धान्तः
अस्य सापेक्षतासिद्धान्तः सुप्रसिद्धः भवति । एन्स्टैन् प्लाङ्कनस्य शकलसिद्धान्तस्य सारं स्वीकृत्य प्रकाशस्य गुणधर्मान् ज्ञातुं संशोधनं कृतवान् । अनेन स्वसिद्धान्तं निरूपितवान् । "यन्यू डेफिनिशन् आफ् मालिक्टूलर् डैमेन्षन्" इति प्रबन्धमेकं रचितवान् । एन्स्टैन् प्रकाशस्य सञ्चारस्य, वेगस्य च विषये स्व नूतनं सिद्धान्तं निरूपितवान् । "प्रकाशस्य सञ्चाराय माध्यमम् अनपेक्षितम्, सः प्रकाशः निर्वाते सञ्चारसामर्थ्यसहितः शक्तिरूपः भवति । प्रकाशस्य वेगस्य समानः वेगः कस्यापि न भवति। प्रकाशः स्वमूलात् बहिरागत्य समानवेगे प्रसरति ।" इति अस्य निरूपणं भवति। प्रकाशस्य वेगः गरिष्ठः भवति । अतः स्थिरवेगं 'C" इति आङ्ग्लाक्षरेण सूचितवान् । एन्स्टैन् निरूपितं समीकरणम् E = mc2 इति । जडवस्तु त्रिषु रूपेषु घन, द्रव, अनिलादि भेदेन विद्यते । वस्तुने द्रव्यराशिः अस्ति । द्रव्यराशिं m इति सङ्केतेन निरूपितवान् अस्ति । प्रकाशम्, उष्णञ्च भारपरिमाणेन मापयितुं न शक्यते । ईदृशां शक्तीं E इति सङ्केतितवान् । वैज्ञानिकाः शक्तिराशी पृथक् इति चिन्तयन्तः आसन् । उभयोर्मध्ये एन्स्टैन् सम्बन्धं कल्पयित्वा, उभयोः समत्वं च कल्पयित्वा E=mc2 इति सरलं समीकरणं निरूपितवान् । अनेन समीकरणेन परमाणुगोलस्य तत्वं निरूपितम् ।
पुरस्काराः
*१९२१ तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवान् । *१९२९ तमे संवत्सरे जर्मन् शारीरकसंस्थायाः 'म्याक्स् प्लाङ्क्’ पदकं प्राप्तवान् । *१९३६ तमे संवत्सरे फ्राङ्क्लिन् संस्थायाः फ्राङ्क्लिन् पदकं प्राप्तवान् ।
मरणम्
एन्स्टैन् प्रिन्सटन् वैद्यालये एप्रिल्मासस्य १८ तम दिनाङ्कस्य १९५५ तमे वर्षे मृतवान् । एन्स्टैनवर्यस्य मरणानन्तरम् अस्य मस्तिष्कं प्रिन्स्-टन् वैद्यालये स्थापितवन्तः । अस्य प्रतिभायाः रहस्यं ज्ञातुं अत्रत्य वैज्ञानिकाः कुतूहलीनः आसन् । एवम् अस्योपरि अध्ययनम् अपि कृतवन्तः।
निर्देश
१ https://en.wikipedia.org/wiki/Albert_Einstein २ https://www.space.com/15524-albert-einstein.html ३ https://www.newscientist.com/people/albert-einstein/
ब्रिटिशसाहित्यम्
ग्रेट् ब्रिटेनस्य उत्तरायर्लैण्डस्य च संयुक्तराज्यस्य, आइल् आफ् मेन्, चैनलद्वीपस्य च साहित्यम् अस्ति ।इङ्ग्लैण्ड्-स्कॉट्लैण्ड्-देशयोः साहित्यस्य विकासे आयरिश-लेखकानां महत्त्वपूर्णः भागः अस्ति ।विश्वस्य अन्येभ्यः देशेभ्यः अपेक्षया यूनाइटेड् किङ्ग्डम्-देशे प्रतिव्यक्तिं अधिकानि पुस्तकानि प्रकाश्यन्ते ।
आङ्ग्ल-सैक्सन-जनानाम् आगमनम्(४४९-१०६६ इति)
पुरातन-आङ्ग्ल-साहित्यं अथवा आङ्ग्ल-सैक्सन-साहित्यं, आङ्ग्ल-सैक्सन-इङ्ग्लैण्ड्-देशे पुरातन-आङ्ग्लभाषायां लिखितं जीवितं साहित्यं, इङ्ग्लैण्ड्-देशे सैक्सन-जनानाम् अन्येषां जर्मनिक-जनजातीनां निवासात् आरभ्य, समाविष्टं भवति|एतेषु कृतीषु महाकाव्यं, हगियोग्राफी, प्रवचनं, बाइबिल-अनुवादः, कानूनी-कृतयः, इतिहासः, पहेलीः इत्यादयः विधाः सन्ति । समग्रतया तस्य कालस्य प्रायः ४०० पाण्डुलिप्याः जीविताः सन्ति ।प्रारम्भिक-आङ्ग्ल-संस्कृतौ मौखिक-परम्परा अतीव प्रबलः आसीत्, अधिकांशः साहित्यिक-कृतयः प्रदर्शनार्थं लिखिताः आसन् ।एवं महाकाव्य-काव्याः अतीव लोकप्रियाः आसन्, बियोवुल्फ-सहिताः केचन वर्तमानकालपर्यन्तं जीविताः सन्ति|प्रायः सर्वे आङ्ग्ल-सैक्सन-लेखकाः अनामिकाः सन्ति ।इतिहासग्रन्थेषु ऐतिहासिकसाहित्यिकलेखानां श्रेणी आसीत्, तस्य उल्लेखनीयं उदाहरणं आङ्ग्ल-सैक्सन-वृत्तान्तः अस्ति ।
उत्तर मध्ययुगीन साहित्य: (1066-1500)
उत्तरमध्ययुगीनकाले आङ्ग्लभाषायाः नूतनं रूपं विकसितम् यत् अधुना मध्याङ्ग्लभाषा इति नाम्ना प्रसिद्धम् ।एतत् प्रारम्भिकं रूपं यत् आधुनिकपाठकानां श्रोतृणां च बोधगम्यम् अस्ति।मध्य-आङ्ग्ल-बाइबिल-अनुवादाः, विशेषतः विक्लिफ्-इत्यस्य बाइबिल-अनुवादाः, आङ्ग्लभाषां साहित्यिकभाषारूपेण स्थापयितुं साहाय्यं कृतवन्तः ।विक्लिफ् इत्यस्य बाइबिलम् अधुना मध्य-आङ्ग्लभाषायां बाइबिल-अनुवादानाम् एकस्य समूहस्य नाम अस्ति यत् जॉन् विक्लिफ् इत्यस्य निर्देशने, अथवा तस्य प्रेरणानुसारं निर्मितम् आसीत्|आङ्ग्लसाहित्यस्य पिता इति प्रसिद्धः जेफ्री चौसर (लगभग १३४३ – १४००) मध्ययुगस्य महान् आङ्ग्लकविः इति व्यापकतया मन्यते, वेस्टमिन्स्टर्-मठस्य कविकोणे दफनः प्रथमः कविः आसीत्|अद्यत्वे चौसरः मध्य-आङ्ग्लभाषायां लिखितानां कथासङ्ग्रहस्य द कैण्टर्बरी-टेल्स् इत्यस्य कृते प्रसिद्धः अस्ति ।यदा इङ्ग्लैण्ड्देशे प्रबलाः साहित्यभाषाः फ्रेंचभाषा, लैटिनभाषा च आसन्, तस्मिन् काले लोकभाषायाः मध्य-आङ्ग्लभाषायाः वैधतायाः विकासे चौसरः महत्त्वपूर्णः व्यक्तिः अस्ति|महिलालेखकाः अपि सक्रियताम् आचरन्ति स्म, यथा १२ शताब्द्यां मारी डी फ्रांस्, १४ शताब्द्याः आरम्भे नॉर्विच्-नगरस्य जूलियन् च ।
मध्ययुगीन नाटक
चमत्कार-रहस्य-नाटकानि मध्ययुगीन-युरोप-देशस्य प्रारम्भिकेषु औपचारिकरूपेण विकसितेषु नाटकेषु अन्यतमम् अस्ति ।रहस्यनाटकानि चर्च-मन्दिरेषु बाइबिल-कथानां प्रतिनिधित्वं तत्सहितं प्रतिध्वनि-गीतेन सह सारणीरूपेण केन्द्रीकृतानि आसन् ।१० शताब्द्याः १६ शताब्द्याः यावत् तेषां विकासः अभवत्, व्यावसायिकनाट्यस्य उदयेन अप्रचलितत्वात् पूर्वं १५ शताब्द्यां लोकप्रियतायाः उच्चतां प्राप्तवन्तः|
पुनर्जागरण काल: (1500 –1660)
पुनर्जागरणशैली विचाराः च इङ्ग्लैण्ड-स्कॉटलैण्ड्-देशयोः प्रवेशं मन्दं कृतवन्तः, एलिजाबेथ-युगं (१५५८–१६०३) प्रायः आङ्ग्लपुनर्जागरणकालस्य ऊर्ध्वता इति गण्यते|इटालियनसाहित्यप्रभावाः ब्रिटेनदेशे आगताः : सोनेट्रूपस्य आङ्ग्लभाषायां प्रवर्तनं १६ शताब्द्याः आरम्भे थोमस व्याट् इत्यनेन कृतम् ।मुद्रणस्य प्रसारेण सम्पूर्णे ब्रिटेन-आयरलैण्ड्-देशयोः साहित्यस्य प्रसारणं प्रभावितम् ।सुधारणा अभिजातवर्गस्य कृते लोकभाषाः लिटर्जिकलभाषारूपेण स्थापिताः इति बहुकालानन्तरं लैटिनभाषा शिक्षणभाषारूपेण निरन्तरं प्रचलति स्म ।
रोमांटिकतावाद: 1798-1837
रोमान्टिकवादः एकः कलात्मकः, साहित्यिकः, बौद्धिकः च आन्दोलनः आसीत् यस्य उत्पत्तिः १८ शताब्द्याः अन्ते यूरोपे अभवत् ।रोमान्टिककालः इङ्ग्लैण्डदेशे प्रमुखसामाजिकपरिवर्तनेषु अन्यतमः आसीत्, यतः ग्राम्यक्षेत्रस्य जनसंख्यानिवृत्तिः, अतिसङ्कीर्ण औद्योगिकनगरानां तीव्रविकासः च अभवत्, यत् मोटेन १७८५ तमे वर्षे १८३० तमे वर्षे च मध्ये अभवत्|एतावता जनानां आन्दोलनं कृषिक्रान्तिः औद्योगिकक्रान्तिः च इति द्वयोः प्रमुखशक्तयोः कारणम् आसीत् ।
संस्कृत ग्रन्थः
तर्कसङ्ग्रहः मानसी दीक्षित (चर्चा) ०९:१९, ३ मे २०२४ (UTC)