सदस्यः:Vishal Maheta/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पूज्य मोटा (गुजराती: પૂજ્ય મોટા, आङ्ग्ल: pujya mota )  इत्यनेन हरि ओम् आश्रमः इति नामिका लोककल्याणस्य पावनप्रवृत्तिकर्त्री एका प्रसिद्धा संस्था स्थापिता । इयं संस्था ज्ञानविज्ञानस्य विकासं प्रोत्साहयति । अविकसितविस्तारेषु, ग्रामेषुशालानिर्माणकार्ये साहाय्यं करोति । [१] सुरुचिं पोषयितुं, ज्ञानपिपासां शमयितुं योग्यं साहित्यमपि प्रकटयति । यस्य महापुरुषस्य प्रेरणया एतानि कार्याणि आरभन्त, साम्प्रतं च तानि कार्याणि अविरतं चलन्ति सन्ति सः महापुरुष एव पूज्य मोटा इति ।

जन्म, परिवारश्च[सम्पादयतु]

१८९८ तमस्य वर्षस्य सितम्बर-मासस्य चतुर्थे दिनाङ्के वडोदरा-जनपदस्य सावलीग्रामे चुनीलाल इत्यस्य जन्म अभवत् । तस्य पितुः नाम आसाराम भगत आसीत् । [२]सः रङ्गनकार्यं करोति स्म । तस्य मातुः नाम सूरजबा इति । सापि परिस्थित्यनुसारं ग्रामे धान्यपेषणस्य कार्यं करोति स्म । जनाः तं पूज्य मोटा इति नाम्ना एव जानन्ति स्म ।

बाल्यम्[सम्पादयतु]

तस्य पिता व्यसनी आसीत् । सः गृहात् बहिः स्थित्वा धुम्रपानं करोति स्म । तत्र समीपस्य चतुष्पादे अतिथिः शयनरतः आसीत् । तदानीन्तने काले गृहे कोऽपि आगतः चेत्, तस्य नाम सैनिकमथके लिखितं भवेत् इति अनिवार्यम् आसीत् । तदानीमेव ततः द्वौ सैनिकौ निर्गतौ । [३] अतिथिं दृष्ट्वा एकः सैनिकः अवदत् कः अस्ति अयम् इति । श्रुत्वा पू. मोटा इत्यस्य पिता अतिथिः अस्ति इति अवदत् । पुनः सैनिकः नियमानुसारं नाम लेखनं कारितमस्ति न वा इति अपृच्छत् । सः नाम लेखनं तु चौरस्य वा नीचवर्णीयस्य कर्तव्यं भवति । अपमानजनकमिदं वाक्यं श्रुत्वा सैनिकौ ताडनं कृर्वन् तं सैनिकमथके अनयत् । तत् दृष्ट्वा पू. मोटा रावसाहेब मनुभाइ इत्यस्य गृहं गतः । तस्य माता तत्र कार्यं कुर्वन्ती आसीत् । सः मातरं, मनुभाइ इत्येतं च सम्पूर्णं वृत्तान्तं श्रावितवान् ।[४] तदनन्तरं मनुभाइ सैनिकान् उद्बुद्ध्य आशाराम इत्येतं मुक्तम् अकरोत् ।

पूज्यमोटा इत्यस्य सङ्कल्पः[सम्पादयतु]

पञ्चवर्षणां वयसि सः अनेन प्रसङ्गेन प्रभावितः अभवत् । सः अहं श्रेष्ठः भविष्यामि इति च व्यचारयत् । श्रेष्ठः भवितुं पठनम् आवश्यकम् इत्यपि सः व्यचारयत् । किन्तु पठनाय धनस्य आवश्यकता आसीत् ।[५] कुटुम्बस्य आर्थिकपरिस्थितिं, पठनाय धनस्य आवश्यकतां च विचिन्त्य सः कालोल-ग्रामे एंग्लो इन्डियन् इति नामिकायां नूतनायां शालायां मासस्य १.५ इति रूप्यकधनाय स्वच्छतायाः वृत्तिं स्व्यकरोत् । तत्र कर्मकरस्यापि सर्वाणि कार्याणि स एव करोति स्म । सः शालायाः प्राध्यापकस्य अपि सर्वाणि कार्याणि करोति स्म । तत्र नियमानुसारं पठने अधिकम् कालः गमिष्यति इति विचार्य, सः आचार्याय "अहं ग्रीष्मावकाशम् अपि नेच्छामि" इति प्रार्थयत् । तदनन्तरं सः १.५ वर्षे चतुर्णां वर्षाणाम् अभ्यासं समापितवान् । ततः परं सः हाई-स्कूल् इत्यत्र अभ्यासार्थं व्यचारयत् । [६]किन्तु ततः प्राक् कृषिवले बीजवपनस्य कार्यं स्व्यकरोत् । आदिनं कार्यं कृत्वा सायङ्काले सः एकां रोटिकां प्राप्नोति स्म । सः बुभुक्षाधिक्यात् स्वामिनम् अधिकां रोटिकाम् याचते । किन्तु स्वामी 'त्वं बालः असि' अधिकं खादितुं न शक्ष्यसि इति अवदत् । ततः परम् एकदा सः इष्टिकायाः निर्माणस्थलेऽपि कार्यम् अकरोत् । तत्र बहुवारम् अग्निना हस्तस्य ज्वलनमपि अभवत् । तथापि सः पराजयं न गतः । तस्य मनसि धनिकः श्रेष्ठश्च भवितुम् एका रुचिः आसीत् ।

कार्येषु प्रामाणिकता[सम्पादयतु]

सः अभ्यासं कुर्वन् कुटुम्बस्य साहाय्यं कर्तुं निर्णयम् अकरोत् । तदर्थं सः एकस्मिन् धान्यस्य-आपणे पञ्चरूप्यकाणां वेतनेन वृत्तिं स्व्यकरोत् ।[७] तत्र सः स्वच्छतायाः कार्यं करोति स्म । तत् कार्यमपि सः रुचिपूर्वकं विदधाति स्म । सः प्रतिदिनम् आपणं स्वच्छं करोति स्म । आपणस्य स्वामी यत्र उपविशति स्म, तत् स्थानमपि सः स्वच्छं करोति स्म । आपणस्य प्रवेशद्वारस्य पूजनमपि करोति स्म । एतत् सर्वं दृष्ट्वा तस्योपरि स्वामी प्रसन्नः सन् तस्मै कृषिभ्यो अन्नक्रयणस्य कार्यम् अयच्छत् ।[८] स्वामी २० कि.ग्रा अन्ने १ कि.ग्रा अन्नम् अधिकम् प्राप्नोत् तथा अन्नस्य तोलनं कर्तव्यम् इति असूचयत् च। किन्तु तत् पू.मोटा एकस्मात् कर्णात् श्रुत्वा अन्यस्मात् अपाकरोत् । एकदा कृषकस्य, व्यापारिणः च कलहः अभवत् । पुनः तोलनम् अभवत्, तोलने दाषः वा कपटं नासीदतः कलहः शान्तश्च अभवत् । किन्तु पू.मोटा स्वामिनः कथनानुसारं तोलं न करोति स्म इति अन्यः कश्चन व्यापारी अजानात् । सः तत् स्वामिनम् असूचयत् । स्वामी पू.मोटा इत्येतं कठोराणि वचनानि अवदत् ।[९]श्रुत्वा पू.मोटा वृत्तिम् अत्यजत् ।

शिक्षणम्[सम्पादयतु]

सः पठने अपि निपुणः आसीत् । किन्तु परिस्थितिवशात् सः सातत्येन पठितुं न शक्नोति स्म । तथापि सः स्वस्याः शालायं तु प्रथमक्रमम् एव प्राप्नोति स्म । १९१९ तमे वर्षे सः मेट्रिक् इति परीक्षायाम् उत्तीर्णः अभवत् । इत्थं तस्य किशोरावस्थायाः प्रसङ्गाः तस्य व्यक्तित्वं, साफल्यं च दर्शयति ।

मातुः उपदेशः[सम्पादयतु]

दीनता वशात् पूज्य मोटा मोदकादीनां भोजनं न प्राप्नोति स्म । एकदा ग्रामे कस्यापि अन्यायाः जातेः भोजनम् आसीत् । यस्याः जातेः भोजनम् आसीत्, तस्याः जातेः श्रेष्ठीजनस्य पुत्रः पूज्य मोटा इत्यस्य मित्रम् आसीत् । [१०]सः स्नेहाधिक्यत् पूज्य मोटा इत्यस्मै मोदकान् अयच्छत् । पूज्य मोटा गृहस्य जनैः साकं भोजनं करिष्यामि इति विचार्य मोदकस्य करण्डं गृहे अनयत् । गृहे गते सति सूरज बा तम् कुतः मोदकानि आनीतानि इति अपृच्छत् । सः मातरं सर्वम् अकथयत् । माता वयम् एतान् मोदकान् खादितुम् अधिकारिणः न स्मः । अतः दीनजनेभ्यः अस्य वितरणं करोतु इति अवदत् । तदनन्तरं माता तस्मै परिश्रमेण प्राप्तान्नस्य भोजनं कारितवती । ततः परं पूज्य मोटा उपदेशममुम् अङ्गीकृत्य अन्येभ्यः प्रदत्तं वस्त्रमपि दीनजनेभ्यः यच्छति स्म ।[११]

उच्चाभ्यासः[सम्पादयतु]

मेट्रिक् इति परीक्षाम् उत्तीर्य सः उच्चाभ्यासार्थं वडोदरा नगरम् अगच्छत् । तत्र शालायाः एकस्य शिक्षकस्य सम्बन्धी पूज्य मोटा इत्यस्य निवासस्य, भोजनस्य, पठनस्य च सर्वाः व्यवस्थाः कृत्वा तस्य सहायताम् अकरोत् । । पूज्य मोटा इत्यनेन तल्लाभः स्वीकृतः । तथापि स्वल्पेन व्ययेन वास्तव्यम् इत्यपि विचारितम् । तत्र छात्रालयेन सञ्चालिते भोजनालये भोजनस्य मूल्यं बह्वधिकम् आसीत् । अतः सः वडोदरा-नगरस्य "हवेली सम्प्रदायस्य" भोजनालये भोजनं कर्तुं गच्छति स्म । तत्र गमनस्य मार्गः २.५ की.मी दूरम् आसीत् तथापि सः पद्भ्यामेव गच्छति स्म । [१२]तदानीमेव भारतस्वातन्त्र्यस्य आन्दोलनानि उग्राणि अभूवन् । तस्य प्रभावः महाविद्यालयेषु अपि दृश्यते स्म । तत् दृष्ट्वा पूज्य मोटा इत्यस्य हृदये अपि देशसेवायाः भावाः प्रकाटिताः अभूवन् । सः महात्मनः कार्याणि कर्तुम् इच्छुकः अभवत् ।

स्वातन्त्र्यकार्ये सम्मिलितः[सम्पादयतु]

पूज्य मोटा इत्ययं स्वस्य, कुटुम्बस्य च विचारं त्यक्त्वा, देशस्य स्वातन्त्र्याय सज्जः अभवत् । देशाय सः स्वस्य अभ्यासमपि अत्यजत् । सः महात्मनः प्रत्येकेषु कार्यक्रमेषु उपस्थितः भविष्यामि इति सङ्कल्पम् अकरोत् । बहवः जनाः तं बोधितवन्तः किन्तु सः दृढप्रतिज्ञः आसीत् ।[१३] सः आजीवनं देशसेवां कर्तु्ं व्यचारयत् । तस्य हितेच्छुकेभ्यः, कुटुम्बिजनेभ्यश्च तत् रुचिकरं नाभवत् । सः पठनं त्यक्त्वा अहमदावाद-नगरस्य गुजरातविद्यापीठ इति नामिकायं राष्ट्रियायां शालायां सम्मिलितः अभवत् । ततः परं राष्ट्रियां पद्धतिं ज्ञातुम् आरभत । तत्र सः नवजीवन इति मासिकस्य विक्रयणं कृत्वा स्वस्मै प्रदत्तानि कार्याणि साधयति स्म ।

लोभस्य त्यागः[सम्पादयतु]

एकदा सः पूर्व अफ्रीका इत्यस्य कम्पाला इति नामके स्थले शिक्षकस्य वृत्तिं प्रापत् । तत्र सः स्वस्य आर्थिकपरिस्थितिः स्वल्पे एव काले परिवर्तिता भवेत् तावत् अधिकवेतनस्य, अवसरमपि प्रापत् ।[१४] । किन्तु सः स्वस्य प्रतिज्ञायै अटलः आसीत् । सः देशस्य सेवायै विचारम् अकरोत् ततः परं कदापि लोभाविष्टः न अभवत् इति । देशाय सः सानन्दं काठिन्यं सहते स्म । कुटुम्बाय धनं दातुं न शक्नोति स्म । अतः तेभ्यः स्वस्य भारमपि न ददाति स्म । सः बुभुक्षिते शयने सत्यपि स्वस्य प्रतिज्ञां न त्यजति स्म ।

गुजरातविद्यापीठस्य अपि त्यागः[सम्पादयतु]

यदा पूज्य मोटा इत्यस्य स्नातकस्य द्वितीये वर्षे अभ्यासरतः आसीत्, तदा महात्मा गुजरातविद्यापीठे समागतः तत्र तेन यूनः सम्बोध्य सम्पूर्णः देशः अग्नौ ज्वलति तथापि भवन्तः एकस्मै प्रमाणपत्राय मोहिताः सन्ति ।[१५] साम्प्रतं तु सर्वं त्यक्त्वा ग्रामाः जागरूकाः भवेयुः तदर्थं प्रयासः कर्तव्यः । तदानीं महात्मनः विचारैः प्रभावितौ भूत्वा द्वौ छात्रौ सज्जौ अभवताम् । तौ च पूज्य मोटा ,पाण्डुरङ्ग विठ्ठल वणामे इति ।

हरिजन इति ज्ञातीयानाम् अन्येभ्यः तिरस्कारः[सम्पादयतु]

तदानीं हरिजन इति ज्ञातीयानां जनानां तिरस्कारः भवति स्म । तेषाम् अपमानमपि भवति स्म । जनाः तेभ्यः गालिकां यच्छन्ति स्म । तदानीन्तने काले जनाः तेभ्यः अन्यायं न कुर्युः,ते शिक्षणं च प्राप्नुयुः तदर्थं प्रयासाः भवन्ति स्म । तच्च सर्वं काठिन्यतायुतमपि आसीत् । तथापि तानि कार्याणि पूज्य मोटा इत्ययं स्व्यकरोत् । [१६] एकत्र समाजस्य कलहः अन्यत्र कौटुम्बिकानां कलहः, उभयत्र पूज्य मोटा इत्यस्य भविष्यं तु अन्धकारमयमेव आसीत् ।

देशस्य सेवा कुटुम्बस्य निर्वाहः[सम्पादयतु]

एकत्र देशसेवायाः दृढा प्रतिज्ञा, अन्यत्र कुटुम्बस्य सहायतायाः कर्तव्यम् च आसीत् ।[१७] तथापि सः "हरिजन सेवा सङ्घ" इत्यस्मिन् सम्मिलितः । तस्मिन् इन्दुलाल याज्ञिकेन सह ४५ रुप्यकाणां मासिकवेतनाय कार्यम् अकरोत् । तेन तस्य सेवाकार्यमपि अभवत् गृहस्य कर्तव्यपालनमपि अभवत् । कार्यविभाजने पूज्य मोटा इत्यस्य कार्यक्षेत्रं नडियाद-नगरमासीत् । तस्य ज्येष्ठभ्राता अपि "हरिजन सेवा सङ्घ" इत्यस्मिन् संलग्नः आसीत् । किन्तु सः क्षयरोगवशात् अधिकं कार्यं कर्तुं न अशक्नोत् । क्षयरोगग्रस्तः भ्राता जमनादासः अन्ते मृतः । ततः परं कुटुम्बे माता, विधवा भ्रातृजाया, तस्याः पुत्री शान्ति,अनुजौ, पूज्य मोटा च मिलित्वा षड् सभ्याः आसन् । तेषां पोषणं ४५ रुप्यकैः कर्तव्यम् आसीत् । एतासु काठिन्ययुतासु परिस्थितिषु कार्यं कृत्वा तस्मै हृदयरोगः अभवत् । तथापि सः देशसेवायाः कार्याणि सोत्साहम् करोति स्म । सहसा इन्दुलाल संघकार्यम् अत्यजत् । अतः पूज्य मोटा इत्यस्मै उभयोः कार्यभारः आपतितः । तथापि सः शालायाः, कार्यालयस्य च कार्याणि स्व्यकरोत् । किन्तु तत् केनापि महात्मने सूचितम् । अतः महात्मा तम् आहूतवान् । [१८]पूज्य मोटा गत्वा स्वस्य परिस्थितिविषये स्वभ्रातृविषये महात्मानं सर्वम् उद्बोधितवान् ।

महात्मना सह संवादः[सम्पादयतु]

महात्मा पूज्य मोटा इत्येतम् एतावति वयसि शालायाः कार्यालयस्य कार्यं कथं कर्तुं शक्नोषि ? । पूज्य मोटा निर्भयः भूत्वा विलियम पीट २३ वर्षस्य वयसि देशस्य प्रधानमन्त्रिपदस्य भारं वोढुम् अशक्नोत्, तर्हि अहम् उभयविधमपि कार्यं कर्तुं कथं न शक्नोमि इति महात्मानम् अकथयत् । [१९]महात्मा तस्य भावं ज्ञात्वा तं गृहं प्रैषयत् । तस्य कार्यभारं च न्यूनम् अकरोत् ।

हरि ओम् इति मन्त्रोपदेशः[सम्पादयतु]

पूज्य मोटा इत्ययमपि रोगग्रस्तः आसीत् । सः स्वस्य परिस्थितेः कारणात् चिकित्सां न कारितवान् । एकदा एकः साधुः तं हरि ओम् इति मन्त्रस्य रटनं कर्तुम् अकथयत् ।[२०] किन्तु तत् तस्मै योग्यं न भाति स्म । ततः परम् एकदा सः गृहस्य सोपानात् अधः अपतत् । यदा सः अधः अपतत्, तदा तस्मै तस्य साधोः दर्शनम् अभवत् । सः महात्मानं पत्रम् अलिखत् । महात्मा रामनाम्नः वा हरि ओम् इत्यस्य जपेन किमपि भवितुं शक्यमिति तम् असूचयत् । ततः परं पूज्य मोटा हरि ओम् इति मन्त्रस्य जपम् निरन्तरं करोति स्म । तेन तस्य रोगस्य अपि नाशः अभवत् ।

आध्यात्मिकसाधनायाः आरम्भः[सम्पादयतु]

गुरोः कृपया सः २४ तमे वयसि आध्यात्मिकसाधनायां रतः अभवत् । प्रतिरात्रि सः श्मशाने गत्वा एकान्ते साधनां करोति स्म । एतत् तस्य नित्यक्रमः अभवत् ।[२१] आदिनं देशसेवायाः कार्याणि करोति स्म एकमपि अवकाशं न स्वीकरोति स्म । किन्तु प्रत्येकस्मिन् वर्षे एकमासस्य अवकाशं गृहीत्वा स्वस्य आध्यात्मिकायै उन्नत्यै साधनां करोति स्म । इत्थं सः सांसारिके जीवनेऽपि उन्नतः आसीत् ।

विवाहर्थं सज्जः[सम्पादयतु]

माता सूरज बा पूज्य मोटा इत्यस्य विवाहं कारयितुं समुत्सुका आसीत्, किन्तु पुत्रस्य मनः आध्यात्मिके मार्गे अगच्छत् । तथापि माता तं विवाहार्थं मया कुटुम्बिजनानां कृते ग्राम्यजनानां धान्यपेषणं कृतम् किन्तु ते मम कथनानुसारं न चलन्ति इति अवदत् । तत् कथनं पूज्य मोटा इत्यस्मै सत्यम् अभाषत सः विवाहार्थं सज्जः समभवत् [२२]। किन्तु विवाहार्थं धनं नासीत् । कुटुम्बस्य निकटस्था एका भगिनी स्वल्पं धनं दत्तवती ।

विवाहः[सम्पादयतु]

धनं प्राप्य पूज्य मोटा विवाहार्थं निर्गतः । सः स्वयं पेटिकां स्वमस्तके गृहीत्वा अगच्छत् । तत् दृष्ट्वा सूरज बा क्रोधाविष्टा भवति स्म । किन्तु पूज्य मोटा स्वरीत्या एव चलति स्म । लग्नमण्डपे कन्यायाः आगमनम् अभवत् किन्तु पूज्य मोटा तु भक्तौ एव रतः आसीत् । हस्तमेलनकाले एव सः समाधिस्थः अभवत् । किन्तु तत् सामान्यजनैः नावगतम् । तैः हृदयरोगस्य अपघातः अभवत् इति अनुमानं कृतम् । तस्योपरि विवाहस्य प्रभावः नासीत् ।[२३] तस्य पत्नी अपि श्वसुरगृहात् प्रागेव स्वर्गं गता इति ।

संसारस्य स्वार्थरपरायणतायाः अनुभवः[सम्पादयतु]

विवाहस्य समाप्तिरभवत् ततः परं या विवाहार्थं धनं दत्तवती सा अपि सक्रोधं धनं याचते स्म । एकदा पूज्य मोटा इत्ययं भजनरतः मार्गात् निर्गच्छति स्म, तदा सा मार्गे ऐ भो तिष्ठ इति उक्तवा तस्य ताडनम् अकरोत् । सः तस्याः चरणं स्पृष्ट्वा, तस्यै स्वार्थरपरायणस्य संसारस्य ज्ञानं कारितवती अतः धन्यवादम् अपाठयत् । [२४]भगवतः अपि उपकारः स्वीकृतः ।

शिक्षकः[सम्पादयतु]

पूज्य मोटा इत्ययं प्रतिरात्रि स्मशाने साधनां करोति स्म । गमनागमनकाले भजनानि गायति स्म । दिवसे हरिजन इति जातीयान् बालकान् पाठयति स्म । सायङ्काले प्राङ्गणे जनान् रामायणं महाभारतं च उपदिशति स्म । तेन बालकाः धैर्यवन्तः स्युः इत्येव तस्य उद्देश्यमासीत् । [२५]एकदा केचन मुस्लिमबालकाः शालायां रजः, कङ्कणानि च क्षिप्त्वा अन्यान् बालकान् पीडयन्ति स्म । ज्येष्ठाः तान् उद्बोधयन्ति स्म, किन्तु ते नावगच्छन्ति स्म । एकदा पूज्य मोटा इत्ययं द्वारस्य पृष्ठे स्थित्वा तेषाम् आगमनस्य प्रतीक्षाम् अकरोत् । ते आगताः तदन्ते दण्डेन तान् शिक्षां च अकरोत् इति । तस्मिन्नेव दिवसे सायङ्काले तेषां पितरः तत्र समागताः । पूज्य मोटा इत्ययं तान् अकथयत् यदि अहं ताड्यः तर्हि ताडनं विदधातु, किन्तु तेभ्यः शिक्षा आवश्यकी आसीत् इति । इत्थं पूज्य मोटा इत्यस्य कथनं सर्वेभ्यः अरोचत । सर्वे ततः निर्गताः

सरदार पटेल इत्यनेन सह मेलनम्[सम्पादयतु]

एकदा पूज्य मोटा इत्ययं 'मोटा बोदाला' इत्यत्र आश्रमे गतवान् ।[२६] तत्र सरदार पटेल इत्यनेन सह मेलनं तस्य अभवत् । आश्रमे जनाधिक्यम् आसीत्, अतः पूज्यमोटा इत्ययं शयनार्थम् एकान्तस्थलम् अन्विषति स्म ।

सर्पस्य दंशः प्रभुनामस्मरणस्य फलम्[सम्पादयतु]

आश्रमे रात्रौ पूज्य मोटा इत्यस्य जङ्घायां सर्पेण दंशः कृतः । पूज्य मोटा इत्ययं तु हरि ओम् इति मन्त्रस्य जपं कुर्वन् नर्तनं करोति स्म । इत्थं सः दिनद्वयं यावत् अकरोत् । ततः परं जनाः तम् आणन्द-नगरे चिकित्सालयं नीतवन्तः । तत्र चिकित्सकः परीक्षणान्ते एतं विषयुक्तेन सर्पेण दंशः कृतः इति अवदत् । कस्य औषधं स्वीकृतम् इति अपृच्छत् च । [२७]पूज्य मोटा इत्ययं तत् प्रभोः नाम्नः स्मरणस्य फलमस्ति इति अजानात् ।

कारागारे निवासः[सम्पादयतु]

१९३२ तमे वर्षे सः कारागारे निवासम् अकरोत् । तदानीं काले सत्याग्रहिभ्यः कारागारे बहूनि कार्याणि दीयन्ते स्म । तत्र तस्मै अन्नपेषणस्य कार्यं प्रदत्तम् । सः प्रदत्तम् कार्यं सहर्षं स्वीकरोति स्म । एकदा सत्याग्रहीभ्यः ताडनस्य दण्डः प्रदत्तः । सः अनेन स्वीकृतः । तथापि एकः सैनिकः तस्मै पुनः दण्डम् अकरोत् । किन्तु पूज्य मोटा सहसा तं प्रति अपश्यत् । तस्य तपः प्रभावात् सैनिकस्य दण्डः स्वरीत्यैव अधः अभवत् । [२८] सः अन्येषां सत्याग्रहीणाम् अनुकरणं न विदधाति स्म ।सः कारागारे अपि प्रदत्तं कार्यं करोति स्म ।

ईश्वरस्य साक्षात्कारः गुरुकृपा च[सम्पादयतु]

पूज्य मोटा विंशति वर्षान्ते सानन्दं भ्रमति स्म । ईश्वरस्य आराधनां च विदधाति स्म । १९३९ तमे वर्षे स्वस्य ४१ तमस्य वयसि तस्मै ईश्वरस्य साक्षात्कारः अभवत् । अर्थात् भगवतः गुणधर्माणां, सर्वासां शक्तीनां सामर्थ्यस्य च प्राकट्यम् अभवत् । सः चुनिलाल इत्यस्मात् वास्तविकः पूज्यमोटा अभवत् । [२९]तस्य शक्तेः भानं जनेभ्यः अपि न भवति स्म । तदैव तस्य गुरोः आदेशानुसारं सः हरिजनसङ्घम् अत्यजत् । तदनन्तरं सः स्वरीत्यैव जनानां मार्गदर्शकः अभवत् ।

मातुः आज्ञा[सम्पादयतु]

पूज्य मोटा इत्यस्य अयं निर्णयः तस्य मात्रे सूरज बा इत्यस्यै नारोचत । किन्तु पूज्य मोटा इत्यस्य निर्णयः अटलः आसीत् । सः मातरम् गृहचालनाय मासे कति रुप्यकाणि आवश्यकानि इति अपृच्छत् । मात्रा रुप्यकाणां विषये सूचितस्य, प्रभोः कृपया इच्छितस्य धनस्य व्यवस्थापि भवति स्म । किन्तु मात्रा तस्मै एका आज्ञा कृता । मम अन्तिमे समये यत्र कुत्रापि स्यात् त्वया मम समीपे आगन्तव्यमिति । पूज्य मोटा इत्ययमपि तत् स्व्यकरोत् । सूरज बा इत्यस्य अन्तिमे समये अनिवार्य कारणवशात् तस्य आगमनम् अशक्यमासीत् । [३०]सः काशीक्षेत्रे आसीत् । सः मातुः वचनं पालयितुम् असमर्थः भविष्यति इति विचारेण सः प्रार्थनाम् अकरोत् । प्रार्थनया सः माता समक्षं प्रकटितः अभवत् । पूज्य मोटा इत्यस्मिन् एतादृश्यः बहव्यः शक्तयः आसन् । किन्तु सः तासां शक्तीनां यथेष्टम् उपयोगं न करोति स्म ।

सङ्घस्य साहाय्ये[सम्पादयतु]

१९४२ तमे वर्षे सः सङ्घस्य आर्थिकपरिस्थितिं शिथिलां दृष्ट्वा सङ्घस्य कार्यं साधयितुं धनार्जनम् आरभत । सः मुम्बई-महानगरे निर्भयः सन् समाजात् धनस्य सङ्ग्रहणम् आरभत ।[३१] एकदा सः व्यापारिणां सभायाम् अगच्छत् । तत्र सः व्यापारिणः दानार्थम् प्रार्थयत् । एकः व्यापारी ५०१ रुप्यकाणि अलेखयत् । अन्ये स्वशक्त्यनुसारम् अलेखयन् । एदस्मिन् दिवसे पू.मोटा तस्य आपणे धनार्थं गतः । सः शतं रूप्यकाणि दत्तवान् । पू.मोटा तं ५०१ लेखितवान् इति असूचयत् । सः अन्ये भवते अधिकं धनं दद्युः तदर्थमहं पञ्चशतं लेखितवान् इति असूचयत् । किन्तु पू.मोटा तं ५०१ रूप्यकाण्यः दातुम् अकथयत् । [३२]यदि त्वं धनं न दास्यसि, तर्हि अहं न गमिष्यामि इति च अकथयत् । अन्ते सः व्यापारी पू.मोटा इत्यस्य कार्यं दृष्ट्वा तस्मै ५०१ रूप्यकाणि अयच्छत् ।

हरि ओम् आश्रमस्य कार्याणि[सम्पादयतु]

१९६० तमे वर्षे तेन सम्पूर्णं समाजं जागरितुं सङ्कल्पः कृतः । तेन समाजस्य उत्थानं भवेत् तदर्थं विविधाः कार्यक्रमाः कृताः । हरि ओम् आश्रमः तस्य केन्द्रम् अभवत् । अस्मै कार्याय पूज्य मोटा प्रत्येकस्य गृहस्य अतिथिः अभवत् । कालान्तरे सः सम्पूर्णस्य समाजस्य हृदयस्थः अभवत् । [३३] तेन नडियाद-नगरस्य शेठी नद्याः तटे हरि ओम् आश्रमस्य स्थापना कृता । तदनन्तरम् सञ्चितानि रूप्यकाणि तेन समाजस्य कृते प्रदत्तानि । आश्रमस्य सञ्चालनविषये अपि चिन्ता न कृता । सर्वाण्यपि रूप्यकाणि तेन जनानां गुणवर्धनं भवेत् तादृशेषु कार्येषु योजितानि ।

ज्ञानविकासस्य कार्याणि[सम्पादयतु]

जगतः भिन्नेषु विषयेषु ज्ञानं विस्तृतं दृष्ट्वा, सः तत् सर्वं गुर्जरभाषायां प्राप्नुयात् तथा प्रयत्नान् अकरोत् । सः ज्ञानगङ्गोत्री किशोरभारती बालभारती आदीनां प्रकाशनसंस्थानां स्थापनां कृतवान् ।[३४] अस्माकं संस्कृतेः विकासः भवेत् तदर्थं वेदस्य रामायणस्य महाभारतस्य भागवतस्य च गुर्जरभाषायां प्रकाशनं कारितवान्। ते च ग्रन्थाः न्यूनेन मूल्येन प्राप्नुयुः तदर्थमपि प्रयत्नान् अकरोत् ।

प्रोत्साहनस्य कार्याणि[सम्पादयतु]

मनुष्यस्य बुद्धेः उत्तमानां परिणामानां संशोधनार्थं, तस्य लाभः समाजः अपि प्राप्नुयात् इति विचिन्त्य गृहस्य निर्माणं न्यूनेन मूल्येन भवेत् । समुद्रस्य जलस्य उपयोगं कर्तुं शक्नुमः । दुग्धस्य उत्पादनम् अधिकाधिकं कथं स्यात् ?[३५] कृषिकार्येण उद्योगः कथं विकसितः स्यात् ? इत्यादीनि कार्याणि अधिकाधिकानि स्युः इति विचिन्त्य सः संशोधनकतृणां प्रोत्साहनस्य कार्याणि अकरोत् ।

मृत्युः[सम्पादयतु]

१९७६ तमे वर्षे पू.मोटा इत्यस्य शरीरं रोगयुक्तम् अभवत् । अस्य वर्षस्य जुलाई-मासे तस्य मलमूत्रयोः त्यागे अपि अवरोधाः अभवन् । अस्यां स्थितौ सः जीवितुं नैच्छत् ।[३६] सः स्वयमेव देहस्य त्यागम् अकरोत्

मरणोत्तरकार्याणि[सम्पादयतु]

पूज्य मोटा इत्ययं स्वस्य मरणान्ते स्वस्य स्मारकं मा रचयतु इति एकस्यां चिटिकायाम् अलिखत् । किन्तु तानि एव रूप्यकाणि वनवासिजनानां शालायां प्रकोष्ठनिर्माणाय च ददतु इति प्रार्थनाम् अकरोत् । [३७]इत्थं तस्य स्वजनैः एककोटी धनम् वनवासीशालानां विकासार्थं योजितम् । इत्थं पूज्य मोटा इत्ययं स्थूलाभावनायाः न अपि तु सूक्ष्मभावनायाः दर्शनम् अकारयत् । तेन समाजे शक्तेः, ज्ञानस्य , गुणानां च विकासः स्यात् इति विचारितम् । पूज्य मोटा इत्ययम् अस्मभ्यं त्यागाय, परमार्थाय च प्रेरयति । यदि वयम् अनया रीत्या जीवामः, तर्हि अस्माकं धर्मः प्रकाशते । अस्माकं देशः महत्वम् अधिगच्छेत् इति ।

  1. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 5. 
  2. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 6. 
  3. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 6. 
  4. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 7. 
  5. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 7. 
  6. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 8. 
  7. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 9. 
  8. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 9. 
  9. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 10. 
  10. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 10. 
  11. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 11. 
  12. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 12. 
  13. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 12. 
  14. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 13. 
  15. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 14. 
  16. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 14. 
  17. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 15. 
  18. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 16. 
  19. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 17. 
  20. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 18. 
  21. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 19. 
  22. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 19. 
  23. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 22. 
  24. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 23. 
  25. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 24. 
  26. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 24. 
  27. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 25. 
  28. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 25. 
  29. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 26. 
  30. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 27. 
  31. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 28. 
  32. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 30. 
  33. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 33. 
  34. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 33. 
  35. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 35. 
  36. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 38. 
  37. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 39.