साञ्चीस्तूपः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Buddhist Monuments at Sanchi
विश्वपरम्परास्थानानि

साञ्चीस्तूपः
राष्ट्रम् भारतम्
प्रकारः Cultural
मानदण्डः (i)(ii)(iii)(iv)(vi)
अनुबन्धाः 524
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1989  (13th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

भोपालनगरात् ४५ कि.मी. मिते दूरे रायसेनमण्डले अस्ति साञ्चीप्रदेशः । साञ्चीस्थानं किञ्चन प्रशान्तम् आकर्षणीयं स्थानम् अस्ति । अत्र स्तूपाः(बौद्धस्मारकाणि), मठाः, देवालयाः, क्रिस्तपूर्वस्य द्वितीयशतकतः द्वादशशतकाभ्यन्तरे निर्मितानि । बीटवा बीस् नद्योः सङ्गमस्थाने विदिशानगरतः ९ कि.मी .दूरे साञ्ची प्रदेशः अस्ति । साञ्चीनगरे महापर्वते महास्तूपः प्रसिद्धः अस्ति । मृदा, इष्टिकाभिः च निर्मितम् इदं अर्धगोलाकारछदयुक्तम् अस्ति । किस्तपूर्वे तृतीयशतके मौर्यराजः अशोकः एतत् निर्मितवान् । अस्य परिधिः १२० पादमिता । औन्नात्यं ५४ पादमितम् । अस्य चत्वारि महाद्वाराणि सन्ति । द्वारेषु बौद्धधर्मसम्बद्धाः कथाः उत्कीर्णाः सन्ति । बौद्धधर्मसूचकानि कमलानि चक्राणि पादचिह्नानि शिल्पेषु सन्ति । अशोकसम्भः ४२ पादमितोन्नतः अस्ति । दक्षिणद्वारस्य पार्श्वे स्थापितः अस्ति । स्तम्भाग्रे चत्वारि सिंहमुखानि सन्ति । एतत् भारतस्य राष्ट्रचिह्नरूपेण स्वीकृतम् अस्ति । चतुर्षु द्वारेषु अपि बुद्धविग्रहाः स्थापिताः सन्ति । स्तम्भेषु सस्यवैविध्यानि प्राचीनजीविनः, बुद्धजीवनाधारिताः जातककथाः च शिल्परूपेण चित्रिताः सन्ति । विशेषतः सूर्योदये अथवा सूर्यास्तसमये अत्र रमणीयं दृश्यवैभवं द्रष्टुं शक्यते । सानुप्रदेशे वस्तुसङ्ग्रहालयः विश्रान्तिगृहं धर्मशालाः च सन्ति । बौद्धगेस्टहौस् इत्यादि वसतिगृहाणि सन्ति ।

भारतीयबौद्धयात्राकेन्द्रेषु अयं स्तूपः अत्यन्तं प्रमुखः वर्तते । सहस्त्राधिकाः बौद्धमतानुयायितः अस्य दर्शनार्थम् आगच्छन्ति मेमासे, बुद्धजयन्त्युत्सवावसरे ।

साञ्चीस्तूपस्य विवरणफलकम्

बौद्धमतावलम्बी राजा अशोकः (क्रि.पू. २७३-२३६ विदिशायाः राजकुमारीं परिणीतवान् आसीत् । तेन पार्श्वस्थे साञ्चीप्रदेशे १२मीटरमितौन्नत्य्युतं शिलादण्डं निर्माप्य तस्य उपरि स्वस्य विवरणानि अङ्कितानि । शुङ्गवंशीयेन क्रि.पू. २,१ शतकावधौ तं शिलादण्डां परितः इष्टिकास्तूप्ः तत्परितः काष्ठावरणं च निर्मितम् । साञ्चयां दर्शनीया कलाकृतिः एषा एव । वृत्तकारकम् आवरणं ३६.६ मीटर् मितव्यासयुक्तं १३.४६ मीटरमितौन्न्त्य्युतं च अस्ति ।

प्रवेशद्वारम्

मण्डपं परितः चत्वारि अपूर्वाणि द्वाराणी (तोरणानि) सन्ति, यानि उत्कृष्टालङ्कारेण युक्तानि सन्ति । एकैकस्य अपि द्वारस्य स्तम्भद्वयम् अस्ति । तयोः उपरि तिस्रः स्स्मतलपट्टिकाः सन्ति । समतलपट्टिकानां स्तम्भानां च उपरि बुद्धजीवनसम्बद्धाः जातककथाः चित्रिताः सन्ति । साञ्चीप्रदेशे शुङ्गवंशावधौ निर्मितौ अन्यौ स्तूपौ अपि स्तः । गच्छता कालने स्तूपान प्रितः मन्दिराणि , आश्रमाः, प्रासादाश्च निर्मिताः ।१८१८ तमे वर्षे ब्रिटिशीयस्य टैलरस्य आगमनपर्यन्तम् एतत् स्थलं स्म्पूर्णतया उपेक्षितम् आसीत् । तेन अत्र शिवेषासक्तिं वहता उत्खननकार्यं कारितम् । अन्ते १९१२-१९ अवधौ जानमार्षलेन ताद्दशं रुपं कल्पितं, यच्छ इदानीं द्दश्यते अस्माभिः । पारम्परिकस्थलत्वेन साञ्चीस्तूणनां चयनावसरे युनेस्कोसंस्थया उक्तं -चतुर्णां द्वाराणाम् उपरि द्दश्यमानाः अलङ्कारकृतयः अपूर्वाः सन्ति । कलाद्दष्टया गुणद्दष्टया च भारते एव साञ्चीस्तूपादयः अत्यपूर्वाः सन्ति’ इति ।

धूमशकटमार्गः[सम्पादयतु]

झान्सीभोपालधूमशकटमार्गे साञ्ची निस्थानमस्ति ।देहलीमुम्बयीधूमशाकटमार्गः । महोब- चहतारपुर- सौगरनिस्थानेभ्यः अपि आगन्तुं शक्यते ।

वाहनमार्गः[सम्पादयतु]

भोपालतः ६८ कि.मी । इन्दौरतः २३३ कि.मी

चित्रसङ्ग्रहः[सम्पादयतु]

External links[सम्पादयतु]

See also[सम्पादयतु]

फलकम्:World Heritage Sites in India

"http://sa.wikipedia.org/w/index.php?title=साञ्चीस्तूपः&oldid=233615" इत्यस्माद् पुनः प्राप्तिः