साञ्चीस्तूपः
भोपालनगरात् ४५ कि.मी. मिते दूरे अस्ति साञ्चीप्रदेशः । भारतीयबौद्धयात्राकेन्द्रेषु अयं स्तूपः अत्यन्तं प्रमुखः वर्तते । सहस्त्राधिकाः बौद्धमतानुयायितः अस्य दर्शनार्थम् आगच्छन्ति मेमासे, बुद्धजयन्त्युत्सवावसरे ।
बौद्धमतावलम्बी राजा अशोकः (क्रि.पू. २७३-२३६ विदिशायाः राजकुमारीं परिणीतवान् आसीत् । तेन पार्श्वस्थे साञ्चीप्रदेशे १२मीटरमितौन्नत्य्युतं शिलादण्डं निर्माप्य तस्य उपरि स्वस्य विवरणानि अङ्कितानि । शुङ्गवंशीयेन क्रि.पू. २,१ शतकावधौ तं शिलादण्डां परितः इष्टिकास्तूप्ः तत्परितः काष्ठावरणं च निर्मितम् । साञ्चयां दर्शनीया कलाकृतिः एषा एव । वृत्तकारकम् आवरणं ३६.६ मीटर् मितव्यासयुक्तं १३.४६ मीटरमितौन्न्त्य्युतं च अस्ति ।
मण्डपं परितः चत्वारि अपूर्वाणि द्वाराणी (तोरणानि) सन्ति, यानि उत्कृष्टालङ्कारेण युक्तानि सन्ति । एकैकस्य अपि द्वारस्य स्तम्भद्वयम् अस्ति । तयोः उपरि तिस्रः स्स्मतलपट्टिकाः सन्ति । समतलपट्टिकानां स्तम्भानां च उपरि बुद्धजीवनसम्बद्धाः जातककथाः चित्रिताः सन्ति । साञ्चीप्रदेशे शुङ्गवंशावधौ निर्मितौ अन्यौ स्तूपौ अपि स्तः । गच्छता कालने स्तूपान प्रितः मन्दिराणि , आश्रमाः, प्रासादाश्च निर्मिताः ।१८१८ तमे वर्षे ब्रिटिशीयस्य टैलरस्य आगमनपर्यन्तम् एतत् स्थलं स्म्पूर्णतया उपेक्षितम् आसीत् । तेन अत्र शिवेषासक्तिं वहता उत्खननकार्यं कारितम् । अन्ते १९१२-१९ अवधौ जानमार्षलेन ताद्दशं रुपं कल्पितं, यच्छ इदानीं द्दश्यते अस्माभिः । पारम्परिकस्थलत्वेन साञ्चीस्तूणनां चयनावसरे युनेस्कोसंस्थया उक्तं -चतुर्णां द्वाराणाम् उपरि द्दश्यमानाः अलङ्कारकृतयः अपूर्वाः सन्ति । कलाद्दष्टया गुणद्दष्टया च भारते एव साञ्चीस्तूपादयः अत्यपूर्वाः सन्ति’ इति ।
[सम्पादयतु] चित्रसंग्रः
[सम्पादयतु] External links
- [१]
- "Sanchi (Madhya Pradesh)", Jacques-Edouard Berger Foundation, World Art Treasures
- Monuments at Sanchi (UNESCO World Heritage)
- Photos of Sanchi
[सम्पादयतु] See also
बिम्बधर-पाशः प्राप्तः: फलकम्:Commons