भोपालनगरम्
| भोपाल | |||
|---|---|---|---|
| — राजधानी, महानगरम् — | |||
| अप्परलेक् ,भोपाल | |||
| विकटनाम(नि): सरोवराणां नगरम् | |||
|
Location of Bhopal in the Central Indian state of Madhya Pradesh |
|||
|
Bhopal city |
|||
| Coordinates: 23°15′N 77°25′E / 23.25°N 77.417°E | |||
| देशः | भारतम् | ||
| राज्यम् | मध्यप्रदेशः | ||
| मण्डलम् | भोपाल | ||
| सर्वकारः | |||
| • अङ्गः | Bhopal Municipal Corporation | ||
| • Mayor | Krishna Gaur (फलकम्:Polparty) | ||
| • Municipal Commissioner | Rajnish Shrivastava | ||
| विस्तीर्णम् | |||
| • Total | ६९७.२४ Square km (२६९.२ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2011) | |||
| • Total | १७,९५,६४८ | ||
| देशीयता | Bhopali | ||
| भाषा: | |||
| • अधिकृताः | हिन्दी | ||
| • Other | उर्दु | ||
| IST (UTC+5:30) | |||
| Pincode | 462001 to 462050 | ||
| Telephone | +91755 | ||
| वाहनपञ्जीकरणम् | MP-04- | ||
| जालस्थानम् | bhopalmunicipal.com | ||
मध्यप्रदेशे किञ्चनमण्डलम् अस्ति भोपालमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति भोपालनगरम्। भोपान् –इन्द्रधनुष्नगरी (०७४८०) भोपालनगरं पूर्वं भोजराजस्य प्रशासनक्षेत्रे आसीत् । भोजराजः अनेकानि उत्तमकार्याणि अत्र कारितवान् । अनन्तरं मोगल् बादशाहस्य औरङ्गजेबस्य पर्यवेक्षकः अफघनदोस्तमहम्मदखाननामकः नगरस्य अभिवृद्धिकार्याणि कृतवान् । इदानीं भोपालनगरं मध्यप्रदेशराज्यस्य राजधानी अस्ति । भोपालनगरे सरोवराणि अतीवप्रसिद्धानि सन्ति । उपरितनभागे स्थितं सरोवरं अप्पर लेक् इति कथयन्ति । एतत् ६ चतुरस्र कि.मी विस्तीर्णयुक्तम् अस्ति । अधः अपि सरोवरं सुन्दरम् अस्ति । उभयोः सम्बन्धः सेतुद्वारा कृतः अस्ति। एतेषु सरोवरेषु नौकाविहारः अतीव सन्तोषकरः अस्ति । अत्रैव जलक्रीडाप्रशिक्षणकेन्द्रमपि अस्ति । मोगल् शैल्या रचितानां चित्राणां शिल्पानां च कृते इदं नगरं प्रसिद्धम् अस्ति । मोगलशासनकाले अत्र मस्जिद् (प्रार्थनमन्दिरम्), महल्, स्नानगृहाणि (हमाम) रचितानि सन्ति । ‘भारतभवनम्’ अधुनिकशैल्या निर्मितं भवनमस्ति । अत्र रुपाङ्कर- वस्तुसङ्ग्रहालये चित्राणि, मृद्वस्तूनि, दीर्घकल्पसङ्ग्रहालयः, आकारकार्यागारः, अन्तरङ्गबहिरङ्गभवनं, वागर्थग्रन्थभाण्डारः इत्यादि दर्शनीयानि सन्ति । अधस्थितस्य सरोवरस्य दक्षिणे भागे अरेरापर्वतप्रदेशे श्रीलक्ष्मीनारायण- देवालयः अतीवसुन्दरः दर्शनीयः च अस्ति । सूक्ष्मशिलया निर्मितः शङ्खः अत्र द्वारे स्थपितः अस्ति । देवालयस्य अन्तर्भागे बिर्लाम्यूसियं दर्शनीयमस्ति । अत्र विशिष्टानि मूर्तिशिल्पानि सन्ति । देवालयतः नगरदर्शनं विहङ्गमदर्शनमिवातिसुन्दरं भवति । सर्वकारीय पुरातत्ववस्तुसङ्ग्रहालयेऽपि मूर्तयः सन्ति । अत्र वर्णचित्राणि मनमोहकानि सन्ति । बिम्बेट्का पर्वतप्रदेशे १२,००० वर्षपूर्वाणि भित्तिचित्राणि सन्ति । आदिवासिजनानां स्थानमिदमासीत् इति चित्रद्वारा ज्ञातु शक्यते । एतत् स्थलं भोपालनगरतः ४० कि.मी दूरे अस्ति । ‘वनविहार’नामकं राष्ट्रियोद्यानं ४४५ चतुरस्रकिमीविस्तीर्णयुक्तम् अस्ति । उपरितनसरोवरस्य वन्यमृगाः निर्भयाः विहरन्ति । भोपालनगरे ताज-उल-मस्जिद्, मोतिमस्जिद्, जामामस्जिद् (प्रार्थनाम्न्दिराणि) आकर्षकानि सन्ति । महम्मदीयवास्तुशिल्पदृष्ट्या एतानि अतीवसुन्दराणि सन्ति ।
विमानमार्गः [सम्पादयतु]
भोपालविमाननिस्थानमस्ति । देहली-इन्दौरमुम्बयीग्वालियरतः विमानयानसम्पर्कः अस्ति ।
धूमशकटमार्गः [सम्पादयतु]
देहलीचेन्नैमार्गे एतत् प्रमुखनिस्थानम् अस्ति ।
वाहनमार्गः [सम्पादयतु]
देहलीतः ७०५ कि.मी । भोपालनगरे उत्तमवसतिभोजनादिव्यवस्था शक्यते ।