सिद्धपेयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विभिन्नानि सिद्धपेयानि


सिद्धपेयं नाम पेयं सज्जीकृत्य, संरक्ष्य विक्रयणं यत् क्रियते तत् पेयम् । सिद्धपेयानि तु इदानीं जगति सर्वत्र अपि सन्ति एव । भारते तु सिद्धपेयानि बहु प्रसिद्धानि सन्ति । एतत् सिद्धपेयम् आङ्ग्लभाषायां Soft Drink इति उच्यते । सिद्धपेयानां निर्माणं, विक्रयणं च महान् उद्यमः एव जातः अस्ति । महता प्रमाणेन सिद्धपेयानां निर्माणं, विक्रयणं च प्रचलति ।

सिद्धपेयानां निर्माणस्य बह्व्यः संस्थाः सन्ति । अन्ताराष्ट्रियाः संस्थाः अपि भारते एतम् उद्यमं सञ्चालयन्ति । काश्चन संस्थाः तु विश्वस्य सर्वम् अपि भागं गत्वा वाणिज्यं कुर्वन्ति । इदानीं प्रायः चायस्य, काफीपेयस्य, तक्रस्य, दुग्धस्य, नारिकेलजलस्य, दध्नः, कषायस्य, फलरसस्य, शाकरसस्य, इक्षुरसस्य, रागीपानीयस्य, वातामक्षीरस्य, वा स्थानम् अनेन सिद्धपेयेन एव आक्रमितम् अस्ति । एतानि सिद्धपेयानि विभिन्नेषु देशेषु विभिन्नानि भवन्ति । यतः तत्तद्देशस्य संस्थाः तस्मिन् देशे सिद्धपेयानां निर्माणं विक्रयणं च कुर्वन्ति । काश्चन संस्थाः केवलम् अन्ताराष्ट्रियस्तरे अपि प्रसिद्धाः सन्ति । तादृशीषु संस्थासु लक्षशः जनाः कार्यं कुर्वन्ति । तादृशानां केषाञ्चन सिद्धपेयानाम् आवली एवम् अस्ति -

कोकोकोला
पेप्सि
स्प्रैट्
सोडा
सेवेन् अप्
थम्स् अप्
फाण्टा
लिम्का

"https://sa.wikipedia.org/w/index.php?title=सिद्धपेयम्&oldid=470127" इत्यस्माद् प्रतिप्राप्तम्