सुनीता विलियम्स्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सुनीता विलियम्स्
Sunita Williams.jpg
NASA Astronaut
राष्ट्रियत्वम् American
स्थितिः Active
जन्म सितम्बर १९, १९६५ (1965-09-19) (वयः ४९)
Euclid, Ohio, United States
वृत्तयः Test pilot
पदम् Captain, USN
समयावधिः 321 days 17 hours 15 minutes
चयनम् 1998 NASA Group
इ वी ए एस्/EVAs 7
इ वी ए एस् समयः 50 hours and 40 minutes
अभियानानि STS-116, Expedition 14, Expedition 15, STS-117, Soyuz TMA-05M, Expedition 32, Expedition 33
अभियानचिह्नम् STS-116 ISS Expedition 14 ISS Expedition 15 STS-117 Soyuz TMA-05M Expedition 32 Expedition 33
धर्मः Hinduism

सुनीता विलियम्स् कल्पनायाः अभावम् अपाकरोत् ।१९६९ तमे वर्षे भारते महात्मनः जन्मशताब्दिवर्षस्य उत्सवः आयोजितः आसीत् । तस्मिन् वर्षे अमेरिका-देशस्य अवकाशयात्री नील् आर्म्स्ट्रॉङ्ग् इत्ययं चन्द्रं प्रति अगच्छत् । चन्द्रस्य विषये मानवः बहुवर्षेभ्यः कल्पनां करोति स्म । तस्य विषये विशालं साहित्यं प्राप्यते, काव्यानि अपि सन्ति । किन्तु तस्य वास्तविकं ज्ञानं नील् आर्म्स्ट्रॉङ्ग् इत्यनेन प्रदत्तम् । तदानीं सुनीता पञ्चवर्षीया आसीत् । सा चन्द्रयात्रां चलच्चित्रमाध्यमेन दृष्टवती येन तस्याम् अवकाशयात्रायाः बीजारोपणम् अभवत् । सा मूलतः गुजराती अस्ति । २००३ तमस्य वर्षस्य फरवरी-मासस्य प्रथमे (१) दिनाङ्के सम्पूर्णं विश्वं रुदत् आसीत् । अवकाशसंशोधनक्षेत्रे अन्धकारः अभवत् । कोलम्बिया नामकं स्पेस् शटल् टेक्सास् इत्यत्र अवतरणात् प्रागेव अज्वलत् । तत्र भारतस्य प्रथमा महिला अवकाशयात्री कल्पना चावला मृता । अतः भारतं शोकग्रस्तम् आसीत् । पुनः कापि कल्पना भविष्यति इति केनापि न विचारितम् । किन्तु सुनीता कल्पनायाः कार्यं सम्पादयितुम् एव समागता । तया २००६ तमस्य वर्षस्य दिसम्बर-मासे अवकाशयात्रायां १३४ दिनानि १८ घण्टाः अष्टादशघटिकाः १५ पलानि च यापितानि । तस्मात् 29 घण्टाः १७ निमिषं यावत् तया स्पेस् वॉक् अपि कृतम् ।

जन्म परिवारश्च[सम्पादयतु]

सुनीतायाः जन्म १९६५ तमस्य वर्षस्य सितम्बर-मासस्य १९ तमे दिनाङ्के अमेरिका-देशस्य ओहियो-राज्यस्य क्लवेलॅण्ड् इत्यत्र अभवत् । सुनीतायाः पिता दीपकभाई पण्ड्या मूलतः सौराष्ट्र-प्रान्तस्य जुनागढमण्डलस्य माङ्गरोळ-ग्रामस्य आसीत् । दीपकभाई इत्यस्य प्राथमिकं शिक्षणं गुजरातराज्यस्य उत्तरभागे स्थिते झुलासण-ग्रामे अभवत् । उच्चशिक्षणम् अहमदाबाद-नगरे सुरत-नगरे च अभवत् । १९५७ तमे वर्षे दीपकभाई इत्यस्य चिकित्साविषयस्य अभ्यासः समाप्तः । अतः अहमदाबाद-नगरे वी.एस चिकित्सालये १ वर्षं यावत् कार्यं कृतम् । अनन्तरम् अधिकम् अभ्यस्तुं सः इङ्ग्लैण्ड्-देशं गतवान् । तत्र तेन x-ray तकनिकज्ञया बोनी उर्सलीना इत्यनया सह विवाहः कृतः । ताभ्यां सन्ततित्रयं जातम् । एकः पुत्रः द्वे पुत्री च । तासु सन्ततिषु सुनीता अनुजा आसीत् ।

बाल्यं[सम्पादयतु]

सुनीता बाल्यकालात् एव अत्यन्तं परिश्रमयुता नूतनविषयपठनेच्छुका च आसीत् । सा बाल्यात् एव मातापित्रोः आज्ञां पालयति स्म । तया सरलस्वभावात् शालायाम् अपि बहूनि मित्राणि प्राप्तानि । शिक्षकाः अपि तस्याः गुणान् गायन्ति स्म । भ्रातुः भगिन्योः वयसः अन्तरम् अधिकं नासीत् अतः परस्परं कलहं कुर्वन्ति स्म । पितरौ क्षमतानुसारं तान् पालयतः स्म । सुनीता प्राणि-आधारितानि, शिशु-आधारितानि च चलच्चित्राणि पश्यति स्म । हिंसायुतानि चलच्चित्राणि तु तस्यै कदापि न रोचते स्म । भारतीयसङ्गीतश्रवणे चलच्चित्राणां दर्शने च तस्याः बहुरुचिः आसीत् । अनेन ज्ञायते तया भारतीयसंस्काराः परम्परायामेव प्राप्ताः इति ।

शिक्षणम्[सम्पादयतु]

सुनीता गणितविज्ञानविषये निपुणा आसीत् । सुनीता षड्कक्षां यावत् हिल्साइड् एलिमेन्टरी नामिकायां शालायां पठितवती । सप्ततः नवमकक्षां यावत् न्यूमन् जूनियर् हाइ स्कूल् नामिकायां शालायां पठितवती । दशमकक्षातः द्वादशकक्षापर्यन्तं शिक्षण-निधाम हाइ स्कूल् नामिकायां शालायां पठितवती ।

उच्चशिक्षणम्[सम्पादयतु]

सा माध्यमिकम् अभ्यासं समाप्य नेवल् अकॅडमी इत्यस्मिन् गन्तुम् इच्छां प्रकटितवती । अमेरिका-देशे नौकाक्षेत्रं प्रतिष्ठायाः साहसस्य च क्षेत्रम् अस्ति । तद् पुरुषैः एव चीयते, महिलाभिः न । वॉशिङ्ग्टन् डी सी इत्यस्य समीपे मेरीलॅण्ड् क्षेत्रे नेवी इत्यस्य उपस्नातकस्य अभ्यासक्रमः चलति स्म । इयं संस्था बहुप्रसिद्धा आसीत्, अतः सुनीता तत्र प्रविष्टा । अपरिपक्वायाः सुनीतायाः नेवल् अभ्यासक्रमात् अथ्लेटिक्-क्रीडासु तरणादि इतरप्रवृत्तिषु च अधिका रुचिः आसीत् । अतः प्रथमे प्रयत्ने सा अनुत्तीर्णा अभवत् । किन्तु परिश्रमेण द्वितीयवारम् उत्तीर्णा अभवत् । १००० विद्यार्थिषु ५० विद्यार्थिनः उत्तीर्णाः अभूवन् । तेषु सुनीतापि एका आसीत् । सुनीतायाः साहसः, एकाग्रता च पुरुषान् अपि लज्जितान् करोति स्म । सा चित्रव्याघ्रवत् स्फूर्तियुता आसीत् । तस्याः एकः उल्लेखः प्रसिद्धोऽस्ति । यू.एस्. नेवी इत्यस्य कमाण्डर् विलियम् लूइस् इत्ययं हेन्कर्न् इत्यस्य स्मृतिस्थलस्य समीपे प्रतिवर्षं नेवल् अकॅडमी इत्यस्य वार्षिकोत्सवः आयोज्यते स्म । नेवल् अकॅडमी इत्यस्य परम्परानुसारं विद्यार्थिभिः उन्नतं स्मृतिस्थलम् आरुह्य स्वस्य शिरस्त्रं स्मृतिस्थलस्य शिखरे स्थापनीयम् । यः कोऽपि स्वस्य शिरस्त्रं शिखरे स्थापति तस्य प्रथमवर्षं समाप्तम् इति ज्ञायते । अत्यन्तं कठिनम् इदम् आरोहणं सुनीतया अन्येषाम् अपेक्षया शीघ्रं समापितम् । सुनीता नेवल् अकॅडमी इत्यस्मिन् बी.एस्. शरीरविज्ञानस्य (फिज़िकल सैन्स) पदवीं प्रमाणपत्रं च प्राप्य स्नातकः सन् १९८७ तमे वर्षे युनइटेड् स्टेट् नेवल् अकॅडमी-तः नेवी-ध्वजं प्राप्तवती ।

विवाहः[सम्पादयतु]

नेवल् अकॅडमी इत्यस्मिन् माइकल् जे विलियम्स् इति सुनीतायाः सहाध्यायी आसीत् । कालान्तरे सुनीता तेन सह विवाहं कृत्वा सुनीता पण्ड्या विलियम्स् इति नाम्ना विख्याता अभवत् ।

अवकाशयात्रायै प्रथमं सोपानम्[सम्पादयतु]

नेवल् परिषदि स्नातकपदवीं प्राप्य स्वभविष्यनिर्माणाय सुनितायै विकल्पत्रयम् आसीत् । (1) नेवी इत्यस्य सर्फेस् इति शाखायां गमनम् । (2) नेवीवायुदले नौकादले गमनम् । (3) नेवी-ड्राईवर् । सा नेवी-ड्राईवर् भवितुम् इच्छति स्म किन्तु प्राप्ताङ्कानां न्यूनतावशात् नेवी-एर् इत्यस्मिन् चिता । कालान्तरे सुनीता नेवी-ड्राईवर् इति पदं प्राप्तवती । सुनीता विमानं चालयितुं बहु आसक्ता आसीत् । १९८९ तमस्य वर्षस्य जुलाई-मासे सुनीतया नेवल-विमानी इति पदं प्राप्तम् । फ्लोरिडा-नगरस्य पनामा इत्यत्र तया समीचीना सेवा कृता । तदानीं नेवी-एर्, नेवी-ड्राईवर् इत्युभयत्र निपुणतावशात् सा व्यावसायिकवृत्तेः अवसरमपि प्राप्नोति स्म । सा हेलिकोप्टर् कोम्बेट सपोर्ट स्क्वोर्डन्-3 इत्यस्मिन् एच्-46 इत्यस्य अभ्यासं प्राप्तवती । ततः परं वर्जिनिया-नगरस्य नोरकोक् इत्यस्मिन् हेलिकोप्टर् कोम्बेट् सपोर्ट स्क्वोर्डन्-8 इत्यस्मिन् कार्यं कर्तुं गता । ततः परं राता समुद्र, पर्शियन् गल्फ् इत्यस्मिन् च डेझर्ड् शील्ड्, ऑपरेशन प्रोवाइड् कम्फर्ट् इत्येतयोः कृते देशात् बहिर्नियुक्ता । १९९२ तमे वर्षे फ्लोरिडा-नगरस्य ‘मियामी हेरिकेन् एण्ड् यु’ इत्यस्य ‘राहत ऑपरेशन्’ इति कार्येऽपि भागं गृहीतवती । 1993 तमस्य वर्षस्य जनवरी-मासे युनाइटेड् स्टेट्स् नेवल् टेस्ट् इति विमानचालकशालायां सा चिता । १९९३ तमे वर्षे स्नातकः सन्ती एच-46 प्रकल्पाध्यक्षा (प्रोजेक्ट् ऑफिसर्) टी-2 इत्यस्य वी-22 इत्यस्य विमानचालककार्याय (ड्राईवर्) सा चिता । तदनन्तरं अनुभवयुता सुनीता हेलिकोप्टर्-यानेन क्षेत्रयात्रायै ज्होन्सन् स्पेस् सेन्टर् इत्यत्र गता ।

अवकाशयात्रीत्वेन नासायाम्[सम्पादयतु]

अनुस्नातकपदवीं प्राप्य सुनीता नासा इत्यत्र आवेदनं कृतवती । अतः 1998 तमे वर्षे नासा-संस्था अवकाशकार्यक्रमाय सुनीतायाः चयनम् अकरोत् । तदानीं सा अमेरिका-देशस्य सैपाने इत्यत्र कार्यरता आसीत् । सुनीता पृथक् पृथक् 30 एर्क्राफ्ट् इत्यस्मिन् 2300 घण्टां यावत् उड्डयनस्य अनुभवं प्राप्तवती आसीत् । अवकाश-स्थाने चिते सत्येव नासा इत्यस्य कठोरपरिश्रमस्यापि प्रारम्भः अभवत् । प्रतिदिनम् अवकाशयात्रायाः प्रशिक्षणं ज्ञानं च दीयते स्म । स्पेस् क्राफ्ट् टेक्नोलजी इत्यनेन सह बहूनां विषयाणां तत्र समावेशः भवति स्म । क्षेत्रेऽस्मिन् अनुभवस्याऽपि बहुमहत्त्वम् अस्ति । किन्तु शतके एकवारमेव भवति तादृक्यात्रायाः अनुभवः अपि किं स्यात् ? अवकाशयात्रायां रोमाञ्चितस्वभावापेक्षया गम्भीरतायाः अधिका आवश्यकता भवति । गुरुत्वाकर्षणेन विना वातावरणे शारीरिकप्रक्रिया, निकटवर्तिवातावरणस्य च अनुभवं कृत्वा पृथिव्यामेव अवकाशस्थाः स्मः इति विचारणीयम् । एतादृक्प्रशिक्षणाय रशिया, केनडा, ब्राज़िल्, जापानादि देशेभ्यः निष्णाताः आगच्छन्ति स्म । अवकाशगन्तारः 8 वर्षपर्यन्तं प्रशिक्षणं प्राप्तवन्तः । अयम् अवकाशकार्यक्रमः अमेरिका-देशस्य नासा संस्थायाः आसीत् । किन्तु बौद्धिकं योगदानं सम्पूर्णस्य विश्वस्य आसीत् । अतः अवकाशकार्यक्रमः एकस्य देशस्य न अपि तु सम्पूर्णस्य विश्वस्य आसीत् ।

अवकाशे उड्डयनम्[सम्पादयतु]

नासा-संस्थया अष्टवर्षेभ्यः प्रचाल्यमानस्य कठोरपरिश्रमस्य परिणामरूपः अवकाश-उड्डयनस्य दिवसः निश्चितः कृतः । 2006 तमे वर्षे एस्.टी.एस्. यानं 116 जनानां गणेन सह अन्तरिक्षयात्रायां गतम् । दिसम्बर-मासस्य 11 दिनाङ्के दिनद्वयम् यात्रां कृत्वा सुनीता अन्ताराष्ट्रीय-अन्तरिक्ष-स्थानं (International Space Station) प्राप्तवती । तत् पृथिव्याः भ्रमणकक्षायां भ्रमत् अन्तरिक्षस्थानम् अस्ति । रशिया, जापान, कनेडा, इटाली, यूरोप इत्येतेषां संयुक्तप्रयत्नैः तत् अन्तरिक्षे स्थापितम् । तत्र 360 कि.मी उत्सेधे 27000 कि.मि प्रतिघण्टा इति वेगेन उड्यमाने याने उपविश्य अनेकत्र भ्रमित्वा पृथिव्यामागन्तुं शक्यम् । एतादृग्याने उपवेशनं सरलं नास्ति, तत्र जीवस्यापि हानिः भवति । अवकाशस्य तर्तारः अवकाशं तीर्त्वा ब्रह्माण्डरहस्यान् प्राप्तुं प्रयतन्ते स्म । अतः तेषां प्रयत्नेभ्यः धन्यवादः दातव्यः । सुनीतया सह अवकाशगन्तासु नियोगाध्यक्षः मार्क् पोलेन्स्की, यानचालकः विलियम् ओसेफेलिन्, नियोगतजज्ञः निकोलस् पेट्रिक्, अवकाशचलः बोब् कर्लिम्, यूरोप-खण्डस्य अन्तरिक्षसंस्थायाः क्रिस्टर् डुग्ले सेन्ग् इत्येते आसन् ।

अवकाशयात्रायां सुनीतायाः वस्तूनि[सम्पादयतु]

सुनीता अवकाशयात्रायां श्रीमद् भगवद्गीतां, गणेशस्य मूर्तिं च नीतवती । पिता दीपकभाई हिन्दी-भाषायाम् एकं पत्रम् अलिखत्, तदपि सा नीतवती । तस्मिन् दीपकभाई गीताविषयकं बोधं दत्तवान् आसीत् । सा यात्रायां रोटिकां, समोसा, तिन्त्रिणी-अवलेहं नीतवती । पञ्जाबी कढी, पकोडा, मटर पनीर इत्यादिकं सर्वं दीर्घकालं यावत् उपयोगं कृतवती ।

अवकाशे सुनीतायाः स्पेस् वॉक्[सम्पादयतु]

पृथिव्याः अवकाशगमनस्य अनुभवः अद्भुतमेव भवति । तत्र चलनक्रियायाः अभावात् स्नायवः स्थिराः न भवेयुः तदर्थं व्यायामः कर्तव्यः भवति । 2006 तमस्य वर्षस्य दिसम्बर-मासस्य 16 तमे दिनाङ्के सुनीता-विलियम्स् अध्यक्षेन बोब कर्लिम् नामकेन सह प्रयोगशालायाः बहिर्निगता । तदानीं तया वायुमण्डलस्य विचरणस्य अद्वितीयः अनुभवः प्राप्तः । सुनीता बोब् कर्लिम् उभौ सप्त(7)घण्टाः एकत्रिंशत्(31)निमेषाः यावत् अवकाशतरणम् अकुरुताम् । सा जनवरी-मासे 31, फरवरी-मासे 3, 9 च दिनाङ्के त्रीणि अवकाशतरणानि कृतवती । इत्थं सुनीता 29 घण्टाः 27 निमेषाः यावत् स्पेस् वॉक् कृतवती । सः एकः विश्वविक्रमः अस्ति । सुनीता 1 लक्षं 21 सहस्त्रं कि.मी. भ्रमणं कृत्वा पृथिवीं परितः वारत्रयं भ्रमणं कृतवती । भारते सुनीतायाः अवकाशतरणस्य, स्पेस् वॉक् इत्यस्य च वार्तां श्रुत्वा सर्वे हर्षिताः आसन् । शिक्षकाः शालासु सुनीतायाः उदाहरणं दत्वा विज्ञानविषयं बोधयन्ति स्म । अवकाशे अति आकर्षकम् किमस्ति इत्यस्य प्रश्नस्य उत्तरत्वेन सुनीतया उक्तं – “ध्यानाकर्षकः तु सम्पूर्णः अवकाशः किन्तु तत्र पृथिवी बहुसुन्दरी दृश्यते” । 2007 तमस्य वर्षस्य जनवरी-मासस्य 11 तमे दिनाङ्के PSLV इत्यस्य सफलपरीक्षणाय सा अवकाशात् शुभेच्छासन्देशं प्रेषितवती । विपत्तौ सम्पर्कं कर्तुं विख्याते हॅम् रेडियो इत्यनेन न्यूयोर्क्, ऑस्ट्रेलिया, केलिफोर्निया इत्यत्र निवासद्भिः जनैः सह वार्तां च कृतवती । अन्ताराष्ट्रिय-अवकाशयात्रायां 194 दिनानि 18 घण्टां च यावत् फ्लाइट्-एन्जिनियर् रूपेण कार्यं कृतवती ।

अन्ताराष्ट्रिय-अन्तरिक्ष-स्थानम् (International Space Station)[सम्पादयतु]

यथा एकस्मात् ग्रामात् द्वितीयं ग्रामं गन्तुं बस-यानस्य प्रयोगं कुर्मः, तथैव स्पेस् शटल् इत्यस्य उपयोगेन अवकाशं प्राप्य अवकाशयात्रिणः पृथिव्याः भ्रमणकक्षायां स्थापितेषु अवकाशस्थानेषु एव निवासं कुर्वन्ति । तत्र निवासस्य, भोजनस्य, संशोधनस्य च सर्वाः व्यवस्थाः भवन्ति । अवकाशयात्रिणां प्रशिक्षणस्य समये बह्व्यः सूचनाः दीयन्ते यथा उष्णता-व्यवस्था (हीटिंग सिस्टम्), ऊर्जा-सञ्चालनं, ऊर्जा-नियमनम् इत्यादीनि । अवकाशवस्त्राणि धृत्वा कृत्रिममनुष्यवत् जीवनम् अतीव दुष्करम् अस्ति । अस्य अवकाशस्थानस्य स्थापना 1998 तमे वर्षे अमेरिका, केनडा, जापान, रशिया इत्यादीनां 15 देशानां संयोगेन अभवत् । अस्य भारः 4000 कि.ग्रा. अस्ति । स्थानमिदं सूर्यादूर्जां सम्प्राप्य कार्यरतं भवति । अवकाशे यात्रिणां गृहम् अवकाश-स्थानम् (space station) ।

अवकाशयाने अवरोधः[सम्पादयतु]

अवकाशयात्रिणः पृथिवीं प्रति आनेतुम् एटलान्टिस् अवकाशयानं यदा पृथिव्याः बहिः निर्गतं तदा अवकाशयाने तकनिकी-अवरोधः अभवत् । अतः पृथिवीजनाः चिन्तिताः अभवन् । पुरा कोलम्बिया अवकाशयाने एतादृश्याः तकनिकी-समस्यावशात् कल्पना चावला इत्यनया सह 7 कुशलानाम् अवकाशयात्रिणां मृत्युः अभवत् । यानम् अवकाश-स्थानस्य समीपं गतं किन्तु पृथिव्याः वातावरणे प्रचण्डायाः ऊर्जायाः उत्पादनस्य प्रतिकारं कर्तुं समस्यायाः निवारणम् आवश्यकम् आसीत् । अन्ते एस्ट्रोनोट् डेन्नी ओलिवस् इत्यनेन स्पेस् वोक् कृत्वा अवकाशयानस्य समस्यायाः निवारणं कृतम् । अवकाशयानेन केलिफोर्निया एड्वर्ड् एरबस् इत्यत्र भारतीयसमयानुसारं रात्रौ 1.20 समये 27000 कि.मी. प्रतिघण्टा-वेगेन 40000 फीट् औन्नत्यात् पृथिवीवातावरणे प्रवेशः कृतः । सुनीता स्वस्याः सहयात्रिभिः सह अवकाशयात्रां समाप्य प्रत्यागता । अतः सुनीतायाः मूलस्थाने अहमदाबाद-नगरे, सम्पूर्णे देशे च हर्षोल्लासः आसीत् । सुनीतायाः साहसेन महिलाः अबलाः न, किन्तु सबलाः सन्ति इति ज्ञायते । यदि ताभ्यः अवसरः दीयन्ते तर्हि ताः अवकाशं, पृथिवीं सर्वं जेतुं समर्थाः सन्ति ।

विश्वस्मिन् सुनीतायाः ख्यातिः[सम्पादयतु]

साहसिकं कार्यं कृतवती स्वपुत्री मृत्योः प्रत्यागता । अतः पित्रोः अपारः हर्षोल्लासः आसीत् । उभौ भारतीयजनानाम् आभारम् अमन्यताम् । एतादृशी चिन्ताभावना च भारतीयजनेषु एव दृश्यते । सुनीता अमेरिका-देशे जन्म अलभत । तस्याः पालनमपि पाश्चात्यसंस्कृत्यनुसारम् अभवत् किन्तु तस्यां वहत् रुधिरं तां भारतीयम् आसीत् । अवकाशयात्रया प्रत्यागमनानन्तरं वातावरणानुकूल्यं साधयितुं बहुपरिश्रमः करणीयः भवति । विश्वस्य विविधदेशेषु सा आमन्त्रणं प्राप्तवती । विश्वविद्यालयेषु, अन्ताराष्ट्रियशैक्षणिकसङ्कुलेषु च बालकाः तां मिलितुम् ऐच्छन् । अन्ते सुनीता भारतम् आगता । तत्रापि गुजरातराज्यस्य अहमदाबाद-नगरे “इयं अवकाशयात्रा सफलतायाः प्रारम्भः अस्ति । इतः परं पुनः अवकाशयात्रां कृत्वा ब्रह्माण्डरहस्यान् अन्विषामि” इति अवदत् । अनया प्रेरिताः जनाः महिलाः सगौरवं पश्यन्तः ताभ्यः विविधेषु क्षेत्रेषु अवसरान् यच्छन्तः सन्ति । सुनीता इदानीम् अपि अवकाशक्षेत्रे साहसं कुर्वन्ती भारतस्य कीर्तिं प्रसारयन्ती अस्ति । सा चन्द्रस्य, मङ्गलस्य च यात्रां कर्तुं समुत्सुका अस्ति ।

"http://sa.wikipedia.org/w/index.php?title=सुनीता_विलियम्स्&oldid=284305" इत्यस्माद् पुनः प्राप्तिः