१९०६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९०६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे न्यूजिलेण्ड्देशं प्रति चीनादेशे १८४५ तमे वर्षे संशोधितं "कीवि" नामकं फलं महता प्रमाणेन आनीय वर्धनम् आरब्धम् ।
अस्मिन् वर्षे "जेनिटिक्स्" इति पदं प्रथमवारं प्रयुक्तम् । (जेनिटिक्स् = वंशविज्ञानम्)
अस्मिन् वर्षे जर्मनीदेशीयः जीवरसायनविज्ञानी सर् फ्रेडरिक् हाप्किन्स् नामकः वर्धनस्य पूरकाणां "विटमिन्स्" इत्येतेषाम् अस्तित्वं दृढीकृतवान् ।
अस्मिन् वर्षे इटलीदेशीयः विज्ञानी क्यामिलो गोल्जि नामकः "नरव्यूहस्य रचनाविधान्स्य मूलभूतानां विचाराणां" संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः । तेन सह स्पेन्देशीयः साण्टियागो रवोन् कजाल् अपि पुरस्कृतः ।
अस्मिन् वर्षे श्वासोच्छ्वासस्य विषयस्य संशोधकः ओट्टो हेन्रिक् वार्बर्ग् पालिप्टैड् विषये संशोधनं कृत्वा "डाक्टरेट्” प्राप्तवान् ।
अस्मिन् वर्षे कन्नडलेखकेषु अन्यतमः आलूरु वेङकटरावः 'वाग्भूषण’नामिकां मासिकपत्रिकाम् आरब्घवान् ।
अस्मिन् वर्षे भारतस्य अप्रतिमः देशभक्तः, स्वातन्त्र्ययोद्धा विनायकदामोदरसावरकरः उन्नतविद्याभ्यासार्थम् आङ्ग्लदेशं प्रयातः ।
अस्मिन् वर्षे बेङ्गळूरुनगरं भारते एव प्रथमं जलविद्युद्व्यवस्थायुक्तं नगरं जातम् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे भारतदेशे प्रसिद्धः पुष्पकृषेः नेता डा. बि. पि. पाल् जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतस्य कर्णाटकराज्यस्य उत्तरकन्नडमण्डलस्य "सिद्दापुरम्" इति ग्रामे भारतस्य स्वातन्त्र्ययोद्धा, कर्णाटकस्य भूतपूर्वमुख्यमन्त्रिणः रामकृष्ण हेगडे इत्यस्य सहोदरी जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे जुलैमासस्य २६ तमे दिनाङ्के मध्यप्रदेशे "भावरा" इति ग्रामे भारतस्य अप्रतिमः देशभक्तः, क्रान्तिकारी चन्द्रशेखर आजादः जन्म प्राप्नोत् ।
अस्मिन् वर्षे आगस्ट्-मासस्य २६ तमे दिनाङ्के "पोलियो”-रोगस्य औषधस्य संशोधकः आल्बर्ट् स्याबिन् रष्यादेशे जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अक्टोबर्-मासस्य १० दिनाङ्के भारतस्य प्रसिद्धः आङ्ग्लभाषासाहितिः, कादम्बरिकारः, "पद्मभूषण", "पद्मविभूषण", "साहित्य-अकादमीप्रशस्तिः", "ए सि बेन्सन् मेडल्" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः आर् के नारायण् जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

अस्मिन् वर्षे लालबहादुरशास्त्रिणः पिता श्रीशारदाप्रसादः दिवङ्गतः ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य अप्रतिमः चित्रकारः राजा रवि वर्मा दिवं गतः ।

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१९०६&oldid=432014" इत्यस्माद् प्रतिप्राप्तम्