गोविन्दस्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गोविन्दस्वामी ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्। त्रयोदशशतकोद्भवः ‘दैवः' इति पदस्य टीका ‘पुरुषकारः' इति कर्त्ता श्रीकृष्णलीलांशुकमुनिः १९८ कारिकायाः टीकायां गोविन्दस्वामिनः नामोल्लेखं कृतवान्। ग्रन्थोऽयम् अनन्तशयनग्रन्थमालायां प्रकाशितोऽस्ति। उद्धरणमिदं माधवीयाधातुवृत्तौ अपि लभते। बौधायनीयधर्मविवरणस्य कर्त्ताऽपि सम्भवतः अयमेवाऽस्ति। अस्मिन् ग्रन्थे कुमारिलस्य निर्देशः, तस्य ग्रन्थस्य ‘तन्त्रवार्त्तिकस्य' उद्धरणमपि प्राप्यते। अतोऽस्य समयः अष्टमशतकादनन्तरं, त्रयोदशशतकात्पूर्वम् अर्थात् सम्भवतः दशमशतकम् इति वक्तुं शक्यते।


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोविन्दस्वामी&oldid=441040" इत्यस्माद् प्रतिप्राप्तम्