जैमिनीयब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जैमिनीयब्राह्मणं जैमिनि-शाखायाः इदं ब्राह्मणम्। एतत् सम्पूर्णरूपेण अद्यावधि नोपलब्धमासीत् । छिन्न-भिन्नस्वरूपेण अंशमात्रमेव एतत् ब्राह्मणं प्राप्यते स्म । डा० आर्टल-महोदयेन अंशस्य प्रकाशनम् अमेरिकातः कृतम् । डा० कैलेण्ड-महोदयोऽस्य विशेषांशान् जर्मनभाषायामनूद्य प्रकाशनमकरोत् । डॉ० रघुवीरः अस्य महत्त्वपूर्णस्य सम्पूर्णब्राह्मणस्य प्रकाशनं ख्रीष्टस्य १९५४ ईशवीये नागपुरतः अकरोत् । ब्राह्मणेषु शतपथ इव ब्राह्मणमिदं विपुलकायमस्ति। यागानुष्ठानरहस्यं ज्ञातुं नितान्तोपादेयं महत्त्वपूर्णः ग्रन्थः ।

जैमिनीयोपनिषद्ब्राह्मणमप्यस्य महतः ब्राह्मणग्रन्थस्यैवांशमात्रमेवास्ति । ग्रन्थोऽयं ‘गायत्र्युपनिषद्' इति नाम्ना प्रख्यातोऽस्ति । अस्य ग्रन्थस्य सम्पादनं डा० ओर्टल-महोदयेन रोमनलिप्यां कृतम्।[१] नागराक्षरेष्वपि १९२१ ईसवीये लाहौर-नगरातः ग्रन्थोऽयं प्रकाशितोऽभवत्।

सामवेदेनाऽपि सम्बद्धं किञ्चन आरण्यकमस्ति । आरण्यकमिदं तवलकारारण्यकमिति नाम्ना प्रसिद्धमस्ति । इदमेवारण्यकं ‘जैमिनीयोपनिषद्ब्राह्मणमि’ति कथ्यते । अस्य चत्वारोऽध्यायाः सन्ति । प्रत्येकस्मिन् अध्यायेऽनुवाकोऽस्ति । चतुर्याध्यायस्य दशमानुवाके प्रसिद्धः तवलकारः किंवा केनोपनिषदस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. Journal of American Oriental Society, part 16, 1894
"https://sa.wikipedia.org/w/index.php?title=जैमिनीयब्राह्मणम्&oldid=425138" इत्यस्माद् प्रतिप्राप्तम्